पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हवनीयादञ्जलिं करोति नमो देवेभ्य इति' (का०३।१।१५) इति । ये देवा अनुष्ठानमनुगृह्णन्ति तेभ्यो नमस्करोति । 'स्वधा पितृभ्य इति दक्षिणत उत्तानम्' (का० ३।१।१५) इति । प्राङ्मुखेनादौ देवनत्यर्थमञ्जलिः कृतः । इदानीं पितृनत्यर्थं दक्षिणामुख उत्तानमञ्जलिं कुर्यात् । ये पितरः पालकाः सन्ति तेभ्यः स्वधाऽस्तु । स्वधाशब्दो निपातः पितॄनुद्दिश्य देयद्रव्यस्य दाने वर्तते । अतो यद्देयं तद्दास्याम इत्यर्थः । अनेन मत्रद्वयेन देवाः पितरश्चोपचर्यन्ते । 'सुयमे म इति जुहूपभृतावादाय' ( का० ३ । १।१६) इति । हे जुहूपभृतौ मे मदर्थं सुयमे सुष्ठु नियते युवां भूयास्तं भवतम् । यथा युवयोः स्थितमाज्यं न स्कन्दति तथा धारयतमित्यर्थः ॥ ७ ॥

अष्टमी।
अस्क॑न्नम॒द्य दे॒वेभ्य॒ आज्य॒ᳪ संभ्रि॑यास॒मङि्॑घ्रणा विष्णो॒ मा त्वाव॑क्रमिषं वसु॑मतीमग्ने ते च्छा॒यामुप॑स्थेष॒स विष्णो॒ स्थान॑मसीत इन्द्रो॑ वी॒र्य॒मकृणोदू॒र्ध्वो॑ऽध्व॒र आस्था॑त् ।। ८ ।।
उ० यथाहं सुसंयताभ्यां स्रुग्भ्याम् अस्कन्नं सकलम् अद्य अस्मिन् कर्मणि देवेभ्योर्थाय आज्यम्।आज्यशब्देन यज्ञो लक्ष्यते । यज्ञं संभ्रियासं संबिभृयाम् । दक्षिणातिक्रामति । अङ्घ्रिणा विष्णो अङ्घ्रेत्यर्थस्य अङ्घ्रिः पादः । पादेन विष्णो यज्ञ । मा त्वावक्रमिषम् । माङि लुङ् । मात्वामवाचीनं क्रमिषम् । वसुमतीमित्यवस्थाय । वसुमतीं धनवतीम् । हे भगवन्नग्ने, ते तव छायाम् । छायाशब्द आश्रयवचनः । युष्माकं पादच्छायायां वसामीति यथा आश्रयम् । उपस्थेषम् उपतिष्ठेयम् । विष्णोर्यज्ञस्थानं भवसि । यज्ञस्य ह्येतत्स्थानं यत्र स्थितैर्यागः क्रियते यत् जुहोति । इत इन्द्रः इत अस्मात् यजतिस्थानाद् । उत्थायेतिशेषः । इन्द्रो वीर्यं वीरस्य कर्म वीर्यम् अकृणोत् । 'कृञ् हिंसाकरणयोः' । कृतवान् । 'अतो हीन्द्रस्तिष्ठन्दक्षिणतो नाष्ट्रा रक्षांस्यपहन्ति' इति श्रुतिः। किंच ऊर्ध्वोध्वर आस्थात् । यतश्च यजतिस्थानादूर्ध्वं प्रगुणः यज्ञः आस्थात् आस्थितः । अध्वर्युमुखयागाभिप्रायमेतत् ॥ ८॥
म० तथा सति अद्यास्मिन्ननुष्ठानदिने देवेभ्यो देवोपकारायाज्यं युवयोः स्थितं घृतम् अस्कन्नं भूमौ यथा न स्कन्दति तथा संभ्रियासं सम्यक् पोषणं करोमि धारणं वा । आशीर्लिङि उत्तमे रूपम् । 'दक्षिणातिक्रामत्यङ्घ्रिणा पादेन त्वा त्वाम् अहं मा अवक्रमिषम् मा कार्षम् । पादेनातिक्रमणदोषो मे मा भूदित्यर्थः । 'वसुमतीमित्यवस्थाय' (का० ३।१।१९) इति । हे अग्ने, ते तव छायां छायावत्समीपवर्तिनीं वसुमतीं भूमिम् अहमुपस्थेषम् उपतिष्ठेयं सेवेय । उपपूर्वस्तिष्ठतिः सेवार्थः । स एवमेवोपकारः कथ्यते । हे वसुमति, त्वं विष्णोर्यज्ञस्य स्थानमसि । अत्र स्थित्वा यागः कर्तुं शक्यत इत्यर्थः । आहवनीयसमीपवर्तित्वादस्या भूमेर्यज्ञस्थानत्वम् । यद्वा अयमर्थः । हे अग्ने, ते तव वसुमतीं धनवतीं धनप्राप्तिकरीं छायामाश्रयं उपस्थेषं सेवेय । छायाशब्द आश्रयवाचकः । युष्मत्पादच्छायायां वसामीति यावत् । यतस्त्वं विष्णोर्यज्ञस्य स्थानमसि । 'इत इन्द्र इति जुहोति' (का० ३।२।१) इति । पूर्वमन्त्रे यज्ञसंबन्धि यत्स्थानमुक्तं तदेव देवानां विजयहेतुत्वादितःशब्देन परामृश्यते । देवयजनव्यतिरिक्तभूमिरसुराधीनत्वेन तत्र देवानां पराजयेऽपि यज्ञप्रदेशः पराजयरहितः । तदेवोच्यते मन्त्रेण । इत इन्द्रः । इन्द्र इतोऽस्माद्देवयजनस्थानात् उद्युक्तः सन्निति शेषः । वीर्यमकृणोत् वीरस्य कर्म वीर्यं शत्रुवधरूपमकरोत् । अतएवाध्वरो यज्ञ ऊर्ध्वमास्थात् उन्नतः स्थितः । इन्द्रेण वीर्ये कृते शत्रुकृतविघ्नाभावादध्वरस्यौन्नत्यम् ॥ ८॥

नवमी।
अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्यमव॑तां॒ त्वां द्यावा॑पृथि॒वी अव॒ त्वं द्यावा॑पृथि॒वी स्वि॑ष्ट॒कृद्दे॒वेभ्य इन्द्र॒ आज्ये॑न ह॒विषा॑ भू॒त्स्वाहा॒ सं ज्योति॑षा॒ ज्योति॑: ।। ९ ।।
उ० अग्ने वेर्होत्रं वेर्दूत्यम् । हे अग्ने, वेः । 'विद ज्ञाने' -विद्धि जानीहि अवगतार्थो भव । मया होत्रं कर्तव्यम् । वेर्दूत्यम् । विद्धि च दूत्यं दूतस्य कर्म मया कर्तव्यम् । 'उभयं वा एतदग्निर्देवानाᳪ होता च दूतश्च' इति श्रुतिः। अवतां त्वा द्यावापृथिवी । त्वां कर्मणि प्रवृत्तं पालयेतां द्यावापृथिव्यौ । स्विष्टकृत् साधु इष्टं करोतीति स्विष्टकृत् । देवेभ्योऽन्येभ्यः सकाशात्प्रथमम् । इन्द्र आज्येन 'अज गतिक्षेपणयोः' । अजनेन हविषा हवनेन भूत् भूयात् । स्वाहा सुवाक् आह । 'वाचे वा एतमाघारयतीन्द्रो वागित्युवाच आहुः इति श्रुतिः। 'जुह्वा ध्रुवां समनक्ति संज्योतिषा ज्योतिः'। संगच्छतामित्यध्याहारः । ज्योतिषा आज्येन ज्योतिः आज्यं सङ्गच्छताम् ॥९॥ -
म० तस्मात् हे अग्ने, होत्रं वेः होतुः कर्म विद्धि। । लङि अडभावे रूपम् । दूत्यं दूतकर्म च वेः विद्धि । होतृत्वं दूतत्वं चाग्नेः कर्म । तथाच श्रुतिः 'उभयं वा एतदग्निर्देवानाᳪ होता च दूतश्च' (१।४।५ । ४) इति । ईदृशं त्वां द्यावापृथिवी अवतां पालयताम् । हे अग्ने, त्वमपि द्यावापृथिवी लोकद्वयदेवते अव पालय । इत्थमन्योन्यपालने सति इन्द्रः आज्येन हविषास्माभिर्दत्तेन देवेभ्यो देवार्थं स्विष्टकृत् भूत् । सुष्ठु इष्टं करोतीति स्विष्टकृत् तादृशो भवतु । अडभावश्छान्दसः । यद्यस्माभिरिज्यते तत्तदिष्टं सर्वं वैकल्यरहितं करोत्वित्यर्थः । स्वाहा सुहुतं अस्तु । इन्द्रं देवमुद्दिश्य इदमाज्यं दत्तमित्यर्थः ।स्वाहेति निपातो देवोद्देशेन दाने वर्तते।