पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यज्ञे यो ब्रह्मा तस्मै ब्रह्मणे बृहस्पतये च प्राहुः बृहस्पतिर्वै देवानां ब्रह्मा तदधिष्ठित एवायं मानुषो ब्रह्मत्वं करोति । किंच । तेन हेतुना त्वदीयत्वेन यज्ञमव रक्ष । तथा तेनैव हेतुना यज्ञपतिं यजमानं चाव रक्ष । तथा तेनैव हेतुना मां ब्रह्माणमव पालय ॥ १२॥

त्रयोदशी।
मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नोत्वरि॑ष्टं य॒ज्ञᳪ समि॒मं द॑धातु । विश्वे॑दे॒वास॑ इ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ।। १३।।
उ० किंच मनो जूतिर्जुषतामाज्यस्य मनो जुषताम् सेवताम् आज्यस्य स्वमंशम् । कथंभूतं मनः । जूतिः। जवतेर्गतिकर्मणो जूतिः । अतीतानागतवर्तमानेषु कालेषु पदार्थेषु यद्गन्तृ गच्छति । किंच बृहस्पतिर्यज्ञमिमं तनोतु विस्तारयतु । अरिष्टं यज्ञᳪ समिमं दधातु । रिषतिर्हिँसार्थः । अरिष्टमविनष्टं यज्ञमिमं कृत्वा दधातु । इडाभक्षणेन हि यज्ञो विच्छिन्नः इत्यत एवमुच्यते । किंच विश्वेदेवासः देवा एव देवासः । 'आज्जसेरसुक्' । सर्वे देवा इह कर्मणि मादयन्ताम् । 'मदी हर्षे' । हर्षं कुर्वन्तु । स्वार्थिको णिच् । अवतेराप्नोतेर्वा ओंकार इहाभ्युपगमार्थः । प्रतिष्ठ प्रकर्षेण तिष्ठ ॥ १३ ॥
म० किंच । मनः आज्यस्य जुषताम् । कर्मणि षष्ठी। मनः घृतं सेवताम् । हे सवितः, त्वदीयं चित्तं यज्ञसंबन्धिन्याज्ये स्थापयेत्यर्थः । किंभूतं मनः । जूतिः । जवतेर्गतिकर्मणो जूतिरिति क्तिन्प्रत्ययान्तो निपातः । स्त्रीत्वं छान्दसम् । अतीतानागतवर्तमानकालगतपदार्थेषु गमनशीलं हि मनः । जवते शीघ्रं गच्छतीति जूतिः । किंच बृहस्पतिरिमं यज्ञं तनोतु विस्तारयतु ब्रह्मत्वात् । तत इमं यज्ञमरिष्टं हिंसारहितं कृत्वा संदधातु । इडाभक्षणेन हि मध्ये यज्ञो विच्छिन्न इत्येवमुच्यते । किंच विश्वेदेवासः सर्वे देवाः इह यज्ञकर्मणि मादयन्ताम् । 'मद तृप्तौ' चुरादिः । तृप्यन्ताम् । एवं प्रार्थितः सविता देवः ओंप्रतिष्ठेत्यनुज्ञां प्रयच्छतु । ओमित्यङ्गीकारार्थः । तथास्तु । प्रतिष्ठ प्रयाणं कुरु । समिदाधानकाले यजमानस्याभिप्रेतं प्रयाणमवगम्य सविता देवोऽङ्गीकृत्य प्रयाणे प्रेरयतीत्यर्थः ॥ १३ ॥

चतुर्दशी।
ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि ।
अग्ने॑ वाजजि॒द्वाजं॑ त्वा ससृ॒वाᳪसं॑ वाज॒जित॒ᳪ सम्मा॑र्ज्मि ।। १४।।
उ० एषा ते अग्ने । इतःप्रभृति प्राकृतमार्षम् । आग्नेयी अनुष्टुप् समिदनुमन्त्रणे विनियुक्ता । हे भगवन्नग्ने, एषा ते तव । समित् समिन्धनम् । तया समिधा वर्धस्व च आ च प्यायस्व । चकारो भिन्नक्रमः । आप्यायस्व च । वर्धमानाप्यायने समिधा कुर्वित्यर्थः । किंच त्वत्प्रसादाद्वयं वर्धिषीमहि पुत्रपश्वादिभिः । आ च प्यासिषीमहि । चकारो भिन्नक्रमः । आप्यासिषीमहि च । प्यायतेर्लिङि सीयुटि उत्तमपुरुषैकवचने एतद्रूपम् । तत्र सीयुटश्छान्दसोऽभ्यासः । अग्निं संमार्ष्टि । अग्नेवाजजित् । ससृवांसं सृवन्तमिति विशेषः ॥ १४॥
म० एषा त इति होतानुमन्त्रयते' (का० ३ । ५। २) इति । ब्रह्मत्वं समाप्तम् । अतः प्राकृतमार्षम् । इयमनुष्टुबग्निदेवत्या । हे अग्ने, एषा ते तव समित् समिन्धनहेतुः काष्ठविशेषः । तया समिधा त्वं वर्धस्व वृद्धिं गच्छ । आप्यायस्व च । अस्मानपि सर्वतो वृद्धिं प्रापय । तथाच सति त्वत्प्रसादाद्वयं वर्धिषीमहि वृद्धिं प्राप्नुयाम प्यासिषीमहि च । अस्मदीयपुत्रपश्वादीन्सर्वतो वृद्धान्करवाम । 'संमार्ष्टि पूर्ववदपरिक्रामᳪ सकृत्सकृत्ससृवाᳪसम्' (का० ३।५। ४) इति । 'पूर्वमग्ने वाजजिदिति' (ख० ७) मन्त्रेण यथेध्मसन्नहनैरग्नेः संमार्गः कृतस्तथात्रापि संमार्ष्टि । तत्र परिक्रम्य त्रिस्त्रिः कृतः । अत्र तु परिक्रमणं विनैकैकवारमिति विशेष इति सूत्रार्थः । मन्त्रो व्याख्यातः । इयान्विशेषः । हे अग्ने, त्वां संमार्ज्मि । किंभूतं त्वाम् । वाजं ससृवांसमन्नमुद्दिश्य गतवन्तमन्नं संपादितवन्तमित्यर्थः । अन्यत् पूर्ववत् ॥ १४ ॥

पञ्चदशी।
अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि ।
अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ।
इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि ।
इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ।। १५।।
उ० जुहूपभृतौ व्यूहति । तत्र जुह्वायमानसंस्तवः अग्नीषोमयोः प्रधानदेवतयोः उज्जितिमनु ऊर्ध्वजयनमनु । उज्जेषम् ऊर्ध्वं जयेषम् । किंच वाजस्य अस्य पुरोडाशादेः । मा मां प्रसवेन अभ्यनुज्ञया करणभूतया । प्रोहामि प्रेरयामि। प्रकृतत्वादग्नीषोमयोरुज्जितिमनु हविषः प्रसवस्य करणत्वेन विवक्षितत्वात् मामित्यात्मनः कर्मत्वं प्रोहामीति कर्तृत्वं चोपपद्यते । उपभृतं प्रतीचीं प्रेरयति । अग्नीषोमौ प्रधानहविर्भाजौ । तं शत्रुम् । अपनुदताम् । ‘णुद प्रेरणे' । अपगमं नयताम् । योऽस्मान्द्वेष्टि । 'द्विष अप्रीतौ' । योऽस्माभिर्न प्रीयते । यं च वयं द्विष्मः । येन च वयं न प्रीयेमहि । किंच एवमग्नीषोमाभ्यामपनुद्यमानं शत्रुमन्यस्य प्रसवेन