पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इत्थंभूता धारा अग्निमभि प्रह्वीभूय । ततस्तमेवाग्निं नसन्त । नसतिराप्नोतिकर्मा वा नमति कर्मा वा । व्याप्नुवन्ति । ताश्च धाराः जुषाणः हर्यति जातवेदाः । हर्यतिः प्रेप्साकर्मा । प्रेप्सति प्रतिकामयते । नास्य ग्रहणशक्तिपरिहरणमस्तीत्यभिप्रायः । जातप्रज्ञानोऽग्निः ॥ ९६ ॥
म० घृतस्य धाराः अग्निमभिप्रवन्त 'प्रुङ् गतौ' । अग्निं प्रतिगच्छन्ति । लङ् अडभाव आर्षः । तत्र दृष्टान्तः। योषा इव यथा योषाः स्त्रियः पतिं अभिप्रवन्ते । कीदृश्यो योषाः । समनाः समानं मनो यासां ताः समनसः । विभक्तेर्डादेशः। कल्याण्यः रूपयौवनसंपन्नाः स्मयमानाः ईषद्धसन्त्यः 'स्मिङ् ईषद्धसने' । ता धारा अग्निं नसन्त हरन्ति 'नस हरणे' लङ् अडभाव आर्षः । नसतिराप्नोतिकर्मा वा । अग्निं व्याप्नुवन्ति । कीदृश्यो धाराः । समिधः समिन्धते दीपयन्त्यग्निमिति समिधः । किंच जातवेदाः जातप्रज्ञानोऽग्निर्जुषाणः प्रीतियुक्तः सन् ता घृतधारा हर्यति प्राप्नोति 'हर्य क्लमे गतौ' हर्यतिः प्रेप्साकर्मा वा। ता धाराः प्रेप्सति कामयते । नास्य ग्रहणशक्तिपरिहरणमस्तीति भावः ॥ ९६ ॥

सप्तनवतितमी।
क॒न्या॒ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॒ञ्जा॒ना अ॒भि चा॑कशीमि ।
यत्र॒ सोम॑: सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ।। ९७ ।।
उ० कन्या इव । या एताः कन्याइव नवपरिणीता इव । वहतुम् वोढारं भर्तारम् । एतवै एतुं गमनाय । अञ्जि प्रजननम् । अञ्जाना व्यक्तं कुर्वाणाः । अभिचाकशीमि अभिपश्यामि । ताः घृतस्य धाराः यत्र सोमोभिष्टूयते यत्रच सौत्रामण्याख्यो यज्ञस्तायते । अभि तत्पवन्ते । तत् तत्रेत्यर्थः । अभिपवन्ते अभिगच्छन्ति यज्ञसहचरिता घृतस्य धारा इत्यभिप्रायः ॥ ९७ ॥
म० घृतस्य धाराः तत्तत्र अभिपवन्ते अभिगच्छन्ति 'पव गतौ' । तत्र कुत्र । यत्र स्थाने सोमः लताविशेषः सूयते अभिषूयते । यत्र च यज्ञः सौत्रामण्याख्यः क्रियते तत्र गच्छन्तीर्घृतस्य धारा अभिचाकशीमि पश्यामि । तत्र गमने दृष्टान्तः । कन्या वहतुमिव वहति परिणयति वहतुर्भर्ता यथा वहतुं पतिमेतवै प्राप्तुं कन्या अभिप्रवन्ते 'इण् गतौ' तुमर्थे तवेप्रत्ययः । कीदृश्यः कन्याः । अञ्जि भगमञ्जाना व्यक्तं योग्यं कुर्वाणाः अज्यते व्यक्तीक्रियते स्त्रीपुंव्यक्तिर्येन तत् तदञ्जानाः कन्या यथा पतिं गच्छन्ति तथा यज्ञं घृतधारा गच्छन्ति ता यज्ञसहिता घृतधाराः पश्यामीत्यर्थः ॥ ९७॥

अष्टनवतितमी।
अ॒भ्य॒र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त ।
इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ।। ९८ ।।
उ० अभ्यर्षत । हे देवाः, अभ्यर्षत अभ्यागच्छत । एतां सुष्टुतिम् शोभनां स्तुतिम् । एतं च गव्यमाजिम् गोविकारैर्घृतैर्जनितं गव्यम् आजिमानमनमभ्यागच्छत । अभ्यागत्य च अस्मासु भद्रा भद्राणि द्रविणानि धनानि । धत्त स्थापयत दत्त वा । किंच इमं यज्ञं नयत तत्र देवा देवत्वं नः अस्माकम् अस्माभिर्यो देवलोको जित इत्यर्थः । याश्चैता घृतस्य धारा मधुमत्पवन्ते मधुसंयुक्तं पवन्ते ताश्चास्मज्जितं लोकं नयतेत्यनुवर्तते ॥ ९८ ॥
म० हे देवाः, यूयं सुष्टुतिं शोभनां स्तुतिमाजिं यज्ञं च अभ्यर्षत अभ्यागच्छत । अज्यते प्राप्यते स्वर्गो येन स आजिर्यज्ञः । कीदृशमाजिं गव्यम् । गव्यं घृतं विद्यते यस्मिन् स गव्यस्तम् घृतयुतम् । अर्शआदित्वादच्प्रत्ययः । आगत्य चास्मासु भद्रा भद्राणि कल्याणानि द्रविणानि धनानि धत्त स्थापयंते दत्त वा 'डुधाञ् धारणपोषणयोः' दाने चेति वचनात् । किंच नोऽस्माकमिमं यज्ञं सौत्रामणीं देवता देवतासु देवलोके नयत प्रापयत । देवताशब्दात् 'सुपां सुलुक्' (पा. ७ । १ । ३९ ) | इति विभक्तिलोपः । किंच याश्चैना घृतस्य धारा मधुमत् रसवत् यथा तथा पवन्ते प्रसरन्ति ता अपि देवतासु नयत यज्ञे यज्ञद्रव्ये स्वर्गं गते यजमानो गच्छत्येवेत्यर्थः ॥ ९८ ॥

एकोनशततमी।
धामं॑ ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्यन्तरायु॑षि ।
अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ।। ९९ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां सप्तदशोऽध्यायः ॥ १७ ॥
उ० धामं ते तव आहुतिपरिणामभूतमिदं जगत् ब्रह्मादिस्तम्बपर्यन्तम् मन्यमान आह । धामं धामानि विभूत्यां ते तव विश्वं भुवनं भूतजातमधिश्रितम् अध्याश्रितम् । यच्चान्तःसमुद्रे समुद्रस्य मध्ये किंचित् यच्च आयुषि किंचिदपि धामनि तव अधिश्रितमित्यनुवर्तते । यत एवम् अतस्त्वां ब्रवीमि । अपामनीके मुखे वर्तमानो य ऊर्मिराहृतः । समिथे संग्रामे च पणिभिः सहवर्तमानो य ऊर्मिराहृतः । तदुक्तं पणिभिर्गुह्यमानमिति । तम् अश्याम भक्षयामः व्याप्नुयाम वा । मधुमन्तं रसवन्तम् ते तव संबन्धिनम् हे घृत, हविःपरिणामिनो रसस्य वयं भोक्तारो भवेम । देवत्वं प्राप्नुयामेति वक्रोक्त्या प्रार्थ्यते ॥ ९९ ॥
इति उवटकृतौ मन्त्रभाष्ये सप्तदशोऽध्यायः ॥ १७ ॥
म० ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगदाहुतिपरिणामभूतं मन्यमानो मुनिराह । हे अग्ने, विश्वं भुवनं सर्वं भूतजातं ते