पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तव धामन् धाम्नि विभूत्यामधिश्रितं आश्रितं स्थितम् । त्वन्महिमोत्थमित्यर्थः । यच्चान्तःसमुद्रे समुद्रमध्ये तथा हृदि हृन्मध्ये तथा अन्तरायुषि आयुर्मध्ये ब्रह्मणो जीवनपर्यन्तं यद्भूतजातं तदपि ते धामनि श्रितम् । धामन्निति विभक्तिलोपः। अतोऽहं प्रार्थये मधुमन्तं रसवन्तं तमूर्मिं घृतकल्लोलं ते त्वदीयं वयमश्याम भक्षयामो व्याप्नुयामो वा । तं कम् । अपामनीके मुखे वर्तमानो य ऊर्मिः समिधे पणिभिः सह युद्धे आभृतः आहृत आनीतः । 'त्रिधा हितं पणिभिर्गुह्यमानम्' (क० ९२ ) इत्युक्तत्वात् । अश्यामेति अश्नातेरश्नोतेर्वा विकरणव्यत्ययेन श्यनि प्रत्यये लोटि रूपम् । हविःपरिणामिनो रसस्य वयं भोक्तारो भवेमेति भावः । देवत्वं प्राप्नुयामेति वक्रोक्त्या प्रार्थ्यते । यद्वास्या ऋचोऽर्थान्तरमुच्यते । हे अग्ने, इदं विश्वं भुवनं तव धाम्नि अधिश्रितं तत्ते धाम कुत्र कुत्रेति तदुच्यते । अन्तःसमुद्रे अन्तरिक्षमध्ये सूर्यरूपेण । समुद्र इत्यन्तरिक्षनाम । हृदि अन्तः सर्वप्राणिनां हृदये जठराग्निरूपेण आयुषि अन्ने सर्वप्राण्याहारत्वेन अपामनीके उदकानां सङ्घाते वैद्युताग्निरूपेण समिथे सङ्ग्रामे, शौर्याग्निरूपेण एवं सर्वेषु स्थानेषु आभृतः स्थापितो यस्तव धामरूप ऊर्मिः घृतरूप उदकरूपो वा तं तव रसं मधुमन्तं माधुर्योपेतं वयमश्याम प्राप्नुयाम । सर्वरसभोक्तारः स्यामेति भावः ॥ ९९ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । सेकादिजपपर्यन्तोऽध्यायः सप्तदशोऽगमत् ॥ १७ ॥


अष्टादशोऽध्यायः।
तत्र प्रथमा ।
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्र॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ स्व॒श्च मे य॒ज्ञेन॑ कल्पन्ताम् ।। १ ।।
उ० इतउत्तरं वसोर्धारिकाणि यजूंषि सप्तविंशतिकण्डिकाः । वाजश्च मे वाजः अन्नं च मे । प्रसवः अन्नदानविषयाभ्यनुज्ञा दीयतां भुज्यतामिति । प्रयतिश्च मे प्रसितिश्च मे प्रयतनं प्रयतिः आज्ञा प्रसयनं प्रसितिः तन्तुर्वा जालं वा तेन चात्र बन्धनं स्नेह उपलक्ष्यते । धीतिश्च मे क्रतुश्च मे । "ध्यै चिन्तायाम् । तस्य धीतिः संप्रसारणं छान्दसम् । क्रतुः संकल्पः संस्कारो वा । स्वरश्च मे श्लोकश्च मे । साधुशब्दः स्वरः श्लोकः गद्यपद्यबन्धः । श्रवश्च मे श्रुतिश्च मे श्रवो वेदमन्त्राः । श्रुतिर्ब्राह्मणम् । ज्योतिश्च मे स्वश्च मे । ज्योतिरादित्यादिः स्वर्द्युलोकादि । द्वौ द्वौ कामौ संयुनक्ति अव्यवच्छेदाय । 'यथा व्योकसौ संयुज्यादेवम्' इति श्रुतिः । द्वौ द्वौ कामावभिरूपौ संयुनक्ति । चकारेण समुच्चिनोति अव्यवच्छेदाय अनुपक्षयाय । यथा कश्चिद्विजीतिर्व्योकसौ संयुज्यात् । ओक इति निवासनाम । विगत ओको गृहं ययोः कुमारीकुमारयोः तौ व्योकसौ नानागृहनिवासिनौ संयुज्यात् तयोर्विवाहं कुर्यात् । एवं चकारेण समुच्चिनोति । यज्ञेन कल्पन्ताम् वाजप्रभृतीनि चकारसमुच्चितानि मम यज्ञेन कल्पन्तां समर्था भवन्तु । यज्ञेऽग्निं तर्पयन्तु अभिषिञ्चन्तु वा । अनेन च त्वा प्रीणाम्यनेन च त्वा अभिषिञ्चाम्यनेन चेत्यस्याः श्रुतेरभिप्रायेण व्याख्यातम् । अथो इदं च मे देहीदं च म इत्यस्याः श्रुतेरभिप्रायेण व्याख्यास्यामः । वाजप्रभृतीनि चशब्दसमुच्चितानि मम यज्ञेनानेन क्लृप्तानि भवन्तु । यज्ञोऽस्मभ्यमेतेषां दाता भवत्वित्यर्थः । एवमस्माभिर्दिङ्मात्रप्रदर्शनं कृतं मन्त्रव्याख्यायाः ॥ १ ॥२॥ ३ ॥
म० सप्तदशेऽध्याये चित्यारोहणादिमन्त्रा उक्ताः । इदानीमष्टादशेऽध्याये वसोर्धारादिमन्त्रा उच्यन्ते । 'वसोर्धारां जुहोत्यौदुम्बर्या पञ्चगृहीतᳪसन्ततं यजमानोऽरण्येऽनूच्येऽग्निप्राप्ते वाजश्च म इत्यष्टानुवाकेन' ( का० १८ । ५। १)। अस्यार्थः । ततो यजमान आज्यं संस्कृत्यार्थपरिमाणया महत्यौदुम्बर्या स्रुचा महता स्रुवेण पञ्चवारं गृहीतमाज्यमरण्येऽनूच्ये पुरोडाशेऽधिकरणे तदुपरि संततमविच्छिन्नधारं यथा तथा वसोर्धारासंज्ञामाहुतिं जुहोति । घृतेऽग्निप्राप्ते सति वाजश्चेत्यादिहोममन्त्रारम्भः कार्योऽष्टाभिरनुवाकैर्वाजश्चेत्यादिवेट्स्वाहान्तैरेकोनत्रिंशत्कण्डिकात्मकैः । वाजश्च मे । चकाराः समुच्चयार्थाः । यज्ञेनानेन मया कृतेन वाजादयः पदार्थाः कल्पन्तां क्लृप्ताः संपन्ना भवन्तु । स यज्ञो वाजादीनां दातास्मभ्यं भवत्वित्यर्थः । 'अथो इदं च मे देहीदं च मे' (९।३।२।५) इति श्रुतेः । यद्वा वाजादयः पदार्था मे मम यज्ञेन कल्पन्ताम् । विभक्तिव्यत्ययः । यज्ञेऽग्निं तर्पयन्तु अभिषिञ्चन्तु वा । 'अनेन च त्वा प्रीणाम्यनेन च वाभिषिञ्चामि' (९ । ३ । ३ । ५) इत्यादिश्रुतिः । द्वौ द्वौ कामावनुपक्षयाय संयुञ्ज्याच्चकारेण कन्याकुमाराविव । तथाच श्रुतिः 'द्वौ द्वौ कामावभिरूपौ संयुनक्त्यव्यवच्छेदाय यथा व्योकसौ संयुञ्ज्यात्' (९ । ३ । २ । ६) इति । अथ पदार्था व्याख्यायन्ते। वाजश्चेत्यादियजुषां देवा ऋषयः । अग्निर्देवता । छन्दांसि पिङ्गलोक्तान्यक्षरसंख्यया ज्ञेयानि । एतैर्यजुर्भिर्यजमानोऽग्नेः कामान् याचते वाजो मेऽस्त्वित्यादि । तत्रैकाधिकानि चतुःशतं यजूंषि कामास्तु पञ्चदशोत्तरं शतम् । तद्यथा । वाजश्चेत्याद्यासु ज्यैष्ठ्यं च मे, वसु च मे ( १४।१५) इति कण्डिकाद्वयवर्जितासु एकोनविंशतिकण्डिकासु त्रयोदश त्रयोदश यजूंषि सन्ति ज्यैष्ठ्यं च म इत्यस्यां ( ४ ) पञ्चदश वसु च म इत्यस्यां (१५) नव । अग्निश्च मे घर्मश्च म इत्यस्यां ( २२ ) द्वादश कामास्तु त्रयोदश अङ्गुलयः शक्वरयो दिशश्च म इत्येकं यजुः कामास्त्वत्र त्रयः । व्रतं च म इत्यस्यां (२३) षट् कामास्तु दश