पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इव व्याप्रियन्ते । यद्वा सप्तच्छन्दांसि हस्ता इव । यश्च त्रिधा त्रिप्रकारं संबद्धः प्रातःसवनमाध्यन्दिनतृतीयसवनैः। वृषभो वर्षिता । रोरवीति ‘रु शब्दे' । अत्यर्थं शब्दं करोति । सोऽयं महो देवः महो देवो महान्देवः हिरण्यगर्भस्तम्बपर्यन्तानां प्राणिनामुपजीव्यः । ज्ञानकर्मसमुच्चयकारिणां शरीरभूतः । मर्त्यान्मनुष्यान् आविशति । शब्दग्रामो वाभिधेयः। चत्वारि शृङ्गाणि नामाख्यातोपसर्गनिपाताः त्रयोऽस्य पादाः प्रथमपुरुषमध्यमपुरुषोत्तमपुरुषाः । द्वे शीर्षे नामाख्याते । सप्तहस्ताः सप्तविभक्तयः । त्रिधा बद्धः एकवचनद्विवचनबहुवचनैः । वृषभ इवामर्षादन्यानि शास्त्राण्यधःपदीकृत्य रोरवीति । य उक्तगुणः सोऽयं महान्देवो मर्त्यान् आविशति प्रतिपादयति ॥ ९१ ॥
म० यज्ञपुरुषदेवत्य ऋषभो मन्त्रः । चतुःशृङ्गोऽवमीदित्युक्त्वा चतुःशृङ्गं यज्ञं वृषभरूपेण प्रतिपादयितुमाह । यो वृषभः कामानां वर्षिता । रोरवीति ‘रु शब्दे' यड्लुगन्तम् । अत्यर्थं शब्दं करोति सोऽयं महो देवः महति पूजयति मह्यते वा जनैरिति महो महान् देवः ब्रह्मादिस्तम्बपर्यन्तानां प्राणिनामुपजीव्यो ज्ञानकर्मसमुच्चयकारिणां विदुषां शरीरभूतो मर्त्यान् मनुष्यानाविवेश आविशति मनुष्यान् व्याप्य तिष्ठति । यस्य वृषभस्य यज्ञस्य चत्वारि शृङ्गा शृङ्गाणि ब्रह्मोद्गातृहोत्रध्वर्युलक्षणानि । त्रयः पादाः ऋग्यजुःसामरूपाः । द्वे शीर्षे शिरसी हविर्धानप्रवर्ग्याख्ये । 'शिर एवास्य हविर्धानं ग्रीवा वै यज्ञस्योपसदः शिरः प्रवर्ग्यः' इति श्रुतेः । अस्य वृषभस्य सप्त हस्तासः सप्त होतारो हस्ताः हस्ता इव व्याप्रियन्ते । सप्त छन्दांसि वा हस्ताः । यश्च त्रिधा त्रिप्रकारैर्बद्धः प्रातःसवनमाध्यन्दिनसवनतृतीयसवनैर्बद्धः । यद्वा चत्वारो वेदाः शृङ्गाणि । त्रयः पादाः सवनानि द्वे शीर्षे प्रायणीयोदयनीये सप्त हस्तासः छन्दांसि । त्रिधा बद्धः मन्त्रब्राह्मणकल्पैर्बद्धः । शब्दग्रामो वा व्याख्येयः । चत्वारि शृङ्गाणि नामाख्यातोपसर्गनिपाताः त्रयः पादाः प्रथमपुरुषमध्यमपुरुषोत्तमपुरुषाः त्रयः काला वा । द्वे शीर्षे कार्यताव्यङ्ग्यते । सप्त हस्ताः विभक्तिरूपाः । त्रिधा बद्धः एकवचनद्विवचनबहुवचनैर्बद्धः । वृषभ इवायमन्यशास्त्राणि अधः कृत्वा रोरवीति सोऽयं महान् देवो मर्त्यानाविवेश आविशति प्रतिपादयति । मनुष्येष्विति। मनुष्याधिकारत्वाच्छास्त्रस्येति न्यायात् ॥ ९१ ॥

द्विनवतितमी।
त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
इन्द्र॒ एक॒ᳪ सूर्य॒ एकं॑ जजान वे॒नादेक॑ᳪ स्व॒धया॒ निष्ट॑तक्षुः ।। ९२ ।।
उ० त्रिधा हितम् यज्ञपरिणामभूतं यथा घृतं तथा त्रिधा निहितं स्थापितमेषु लोकेषु । पणिभिः सुरैः । गुह्यमानं गुप्यमानम् । गवि देवाः घृतम् अन्वविन्दन् आनुपूर्व्याल्लब्धवन्तः । यत् तस्य घृतस्य इन्द्रः एक भागं जजान जनयति । 'ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतः' इत्यादिश्रुतिरिन्द्रस्य जनकत्वं दर्शयति । सूर्य एकं भागं जनयति । 'ते तत उत्क्रामतः ते दिवमाविशतः' इत्यादि श्रुतिः सूर्यस्य जनकत्वं दर्शयति । वेनाद् अग्नेर्यज्ञसाधनभूतात् एकं भागं स्वधयान्नेनाहुतिलक्षणेन निष्टतक्षुः निष्कर्षितवन्तः द्विजातयः । यस्ततः पुत्रो जायते स लोकः प्रत्युत्थायीत्येतदुक्तं भवति ॥ ९२ ॥
म० त्रिधा त्रिप्रकारेषु लोकेषु हितं स्थापितं द्रुतं यज्ञपरिणामभूतं पणिभिरसुरैर्गुह्यमानं गुप्यमानं सत् देवासो गवि अन्वविन्दन् धेनौ आनुपूर्व्याल्लब्धवन्तः । तस्य एकं भागमिन्द्रो जजान जनयति 'ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशत' इत्यादिश्रुतिरिन्द्रस्य जनकत्वं दर्शयति । सूर्य एकं भागं जजान । 'जनी प्रादुर्भावे' लिट् परस्मैपदमार्षम् । | 'ते तत उत्क्रामतस्ते दिवमाविशतः' इत्यादिश्रुतिः सूर्यस्य घृतभागजनकत्वं दर्शयति । वेनाद् यज्ञसाधनभूतादग्नेः एकं स्वधया अन्नेन त्रेताहुतिलक्षणेन निष्टतक्षुः निष्कर्षितवन्तो द्विजातयः । यस्ततः पुत्रो जायते स लोकप्रत्युत्थायीत्येतदुक्तं भवति ॥ ९२ ॥

त्रिनवतितमी।
ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ ।
घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ।। ९३ ।।
उ० एता अर्षन्ति । ऊर्मयः या एता वाचः अर्षन्ति उद्गच्छन्ति । हृद्यात् समुद्रात् श्रद्धोदकप्लुतादेव । ता याथात्म्यचिन्तनसन्तानगर्भान्निगमनिरुक्तनिघण्टुव्याकरणशिक्षाच्छन्दोभिः परिपूरिताः शब्दव्रजाः । बहुगतयो बह्वर्थाः । याश्चैता अर्षन्त्यो रिपुणा कुतार्किकवृन्दशत्रुसंघातेन । नावचक्षे नापवदितुं शक्याः । ताः घृतस्येव धारा देवानां तृप्तिकराः अभिचाकशीमि अहमभिगच्छामि । हिरण्यमयश्च वेतसोऽग्निः मध्ये आसां वाग्व्यक्तीनां विद्यमानं चाकशीमि अहमभियास्यामि । हिरण्मयो वेतसोऽग्निराहवनीयाख्यः । मध्ये आसां वाग्व्यक्तीनां विद्यमानं चाकशीमि । अग्निर्हि वाचामधिष्ठात्री देवता । यद्वा घृतस्य धारा एवोच्यन्ते । या एता अर्षन्ति गच्छन्ति हृद्यात्समुद्रात् । हृदयेन हि संकल्प्य पश्चात् यजन्ते ता एवमुच्यन्ते । शतव्रजा बहुगतयः। याश्चैता रिपुणा शत्रुणा यज्ञपरिपन्थिना नावचक्षे नावद्रष्टुं शक्यन्ते ताः घृतस्य धारा अहमभिचाकशीमि पश्यामि । | यश्चायं हिरण्मयो वेतसोऽग्निराहवनीयाख्यो मध्ये आसां व्यवतिष्ठति तमप्यहं पश्यामि । याथाल्यतोऽहं द्रव्यं देवतां च पश्यामीत्युक्तं भवति ॥ ९३ ॥