पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोननवतितमी।
समु॒द्रादू॒र्मिर्मधु॑माँ॒२ उदा॑र॒दुपा॒ᳪशुना॒ सम॑मृत॒त्वमा॑नट् ।
घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑: ।। ८९ ।।
उ० समुद्रादूर्मिः अन्नाध्यासेन घृतमन्नमत्र स्तूयते प्राणाध्यासेन वाग्निः । तस्मात्समुद्रात् घृतमयात् अक्षीणत्वात् घृतस्य समुद्रेणोपमानम् अन्नदेवताभिप्रायं वा । साह्यनुपक्षीणैव । ऊर्मिः महाराशिः घृतकल्लोलः । मधुमान् रसवान् । उदारत् उद्गच्छत् । उद्गत्य च उपांशुना सममृतत्वमानट् । उपसंव्याप्नोत् । अंशुना प्राणेन जगत्प्राणभूतेनाग्निना एकीभूय अमृतत्वममरणधर्मित्वम् । प्राणश्चान्नं चैकीभूयामृतत्वं प्राप्नुत इत्यर्थः । तस्य घृतस्य नाम गुह्यमविज्ञातमविद्वद्भिः श्रुतिमन्त्रपरिपठितं यदस्ति तत् अहं वेद्मि । जिह्वा देवानाम् अत्यभिलाषाज्जिह्वास्थाननिमित्तं देवानाम् । अग्नेर्जिह्वासीति 'यदा वा एतदग्नौ जुह्वत्यथाग्नेर्जिह्वाइवोत्तिष्ठन्तीति' । यच्च सर्वप्रकाशं तदप्यहं वेद्मि । अमृतस्य नाभिः अमरणधर्मित्वस्य नहनं बन्धनम् । यो हि घृतमश्नाति स दीर्घायुर्भवति। यद्वा अर्धेन सत्रं स्तूयते अर्धेन घृतं मन्त्रस्य । समुद्रात् आग्निकात् यजुःसमुद्रात् यः ऊर्मिः शब्दसंघातः । नामाख्यातोपसर्गनिपातलक्षणः उपमोत्प्रेक्षारूपकाद्यलंकारोपेतः। मधुमान् रसवान् वाक्यगुणैर्युक्तः । उदारत् उदगान्मुखतः। स एव उपांशुना सवनेन क्रियमाणः । तदेतत् यजुरुपाᳪश्वनिरुक्तम्' इति वचनात् । संप्राप्नोदमृतत्वम् । अतोऽग्निविद्भिः प्रकाशनीयः । घृतस्य नाम गुह्यं यदस्ति तदपि जिह्वास्थाननिमित्तं देवानां किमुत साक्षाद्धोमः । अथास्य घृतकीर्तावेवाग्निर्वैश्वानरो जज्वालेत्येतदभिप्रायं वचनम् । अमृतत्वस्य च नाभिः नहनं यजमानानाम् । अतोऽग्निचिद्भिर्हूयते स्तूयते च ॥ ८९ ॥
म० वामदेवदृष्टा । अत्रान्नाध्यासेन घृतं स्तूयते प्राणाध्यासेन चाग्निः । समुद्रात् घृतमयात् मधुमान् रसवानूर्मिः कल्लोल उदारत् उदगच्छत् 'ऋगतो' च्लेरङ् 'ऋदृशोऽङि गुणः' (पा० ७ । ५ । १६ ) अक्षीणत्वाद् घृतस्य समुद्रेणोपमानम् अन्नदेवताभिप्रायं वा । सा ह्यक्षीणैव । उद्गत्य च स ऊर्मिः अंशुना प्राणेन जगत्प्राणभूतेनाग्निना सं सङ्गत्यैकीभूय अमृतत्वममरणधर्मित्वमुपानट् उपव्याप्नोतु । ‘णश अदर्शने' लुङि 'मन्त्रे घस-' (पा० २।४।८०) इत्यादिना च्लेर्लुक् 'हल्ङ्याप्' (पा० ६ । १।६८) इति तिपो लोपः विआङुपसर्गाभ्यां व्याप्त्यर्थः । प्राणश्चान्नं च एकीभूयामृतत्वं प्राप्नुत इत्यर्थः । तस्य घृतस्य गुह्यमविज्ञातं नामाविद्वद्भिरज्ञेयं श्रुतिमन्त्रपठितं यदस्ति तत्कथ्यत इति शेषः । किं तदाह । देवानां जिह्वा अत्यभिलाषाद्देवानां जिह्वोत्थाननिमित्तम् अग्नेर्जिह्वासीत्युक्तेः । 'यदा वा एतदनों जुह्वत्यथामर्जिह्वा इवोत्तिष्ठन्ति' इति श्रुतेः । यच्च सर्वप्रकाशं नाम तदप्युच्यते । अमृतस्य नाभिः अमरणधर्मस्य नहनं बन्धनम् । यो हि घृतमश्नाति स दीर्घायुर्भवति । यद्वा ऋगर्धेन मन्त्रः स्तूयते अर्धन घृतम् । समुद्रात् आग्निकाद्यजुः | समुद्रादस्माद्यज्ञात् य ऊर्मिः शब्दसङ्घातो नामाख्यातोपसर्गनि| पातरूप उपमोत्प्रेक्षारूपकाद्यलंकाररूपो मधुमान् रसवान् वाक्यार्थगुणेयुक्त उदारत् मुखादुदगात् स एव उपांशुना सव- नेन क्रियमाणः सन्नमृतत्वमाप्नोत् 'तदेद्यजुरुपाᳪश्वनिरुक्तम्' - इति श्रुतेः । अतोऽग्निचिद्भिः स ऊर्मिः प्रकाशनीयः । घृतस्य गुह्यं नाम यदस्ति तदपि देवानां जिह्वोत्थाननिमित्तं किं पुन- .. मिः । 'अथास्य घृतकीर्तावेवाग्निर्वैश्वानरो मुखादुज्जज्वाल' (१।४।१।१३) इति श्रुतेः । अमृतस्य नाभिः नहनं यजमानानाममृत्वप्रापकं घृतं यजनेनेत्यर्थः । अतोऽग्निचिद्भिर्हूयते स्तूयते च घृतमिति भावः ॥ ८९ ॥

नवतितमी।
व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑:शृङ्गो॒ऽवमीद्गौ॒र ए॒तत् ।। ९० ।।
उ० वयं नाम । यतो नामोच्चारणमपि प्रियं देवानामतो | वयं नाम प्रब्रवाम घृतस्य अस्मिन्यज्ञे । धारयाम च यज्ञं नमोभिः हविर्भिः । किंच उपशृणोच्चैतत् स्तोत्रं ब्रह्मा ऋत्विक् शस्यमानम् । यथा चतुःशृङ्गः यज्ञः । ऋत्विजोऽस्य | शृङ्गाणि । अवमीत् उद्गिरति । यज्ञपरिणामाभिप्रायम् । गौरः गौरवर्णः एतत् घृतम् ॥ ९० ॥
म० यतो घृतनामोच्चारणमपि देवानां प्रियमता वयं घृतस्य नाम प्रब्रवाम अस्मिन् यज्ञे घृतनाम स्तुमः । नमोभिरन्नैः धारयाम यज्ञमिति शेषः । किंच ब्रह्मा ऋत्विक् शस्यमानं | स्तूयमानमेतद् घृतनाम उपशृणवत् उपशृणोतु । 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः । यथा गौरः गौरवर्णः शुद्धो यज्ञः एतत् घृतयज्ञफलरूपमवमीदुद्गिरति यज्ञपरिणामाभिप्रायम् । कीदृशो गौरः । चतुःशृङ्गः चत्वार ऋत्विजः शृङ्गभूता यस्य सः॥९०॥

एकनवतितमी।
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒२ आ वि॑वेश ।। ९१ ।।
उ० चत्वारि शृङ्गाः । चतुःशृङ्गो वमीदित्युक्त्वा अधुना चतुःशृङ्गं यज्ञं वृषशब्दं वृषभं प्रतिपादयितुमाह । यस्यास्य चत्वारि शृङ्गाणि ब्रह्मोद्गातृहोत्रध्वर्य्वाख्यानि यस्य चास्य त्रयः पादाः ऋग्यजुःसामलक्षणाः । यस्य चास्य द्वे शीर्षे हविर्धानप्रवर्ग्याख्ये यस्य चास्य सप्तहस्तासः सप्तहोतारो हस्ता