पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कम्पयति शत्रूनिति धुनिः । सहतेऽभिभवते शत्रूनिति सासह्वान् । सहेः क्वसुः अभ्यासदीर्घः । अभियुनक्ति अभियुग्वा 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५) इति अभिपूर्वाद्युजेः क्वनिप् । भक्तानां सुखयोक्ता । विक्षिपति प्रेरयति शत्रूनिति विक्षिपः शत्रुक्षेप्ता । चकाराः समुच्चयार्थाः । स्वाहा एतेभ्यो मरुद्भ्यः सुहुताः पुरोडाशाः सन्तु । 'इन्द्रं दैवीरिति जपति' ( का० १८ । ४ । २५) । कर्मापवर्गान्ते यजुर्जपतीत्यर्थः । मरुद्देवत्यं यजुः शक्वरी षट्पञ्चाशदक्षरत्वात् । दैवीः दैव्यः देवानामिमा देवसंबन्धिन्यो विशः प्रजाः मरुतो मरुद्रूपा इन्द्रमनुवर्त्मानोऽभवन् । अनु पश्चाद्वर्त्म वर्तनं यासां ताः इन्द्रमनुगामिन्योऽभवन्निति स्वरूपाख्यानम् । देवीर्विशो मरुतः यथा इन्द्रमनुवर्त्मानः इन्द्रमनुसृत्य वर्तमाना अभवन् । उपमानमेतत् । दैवीर्मानुषीश्च देवसंबन्धिन्यो मनुष्यसंबन्धिन्यश्च विशः एवमिन्द्रवत् इमं यजमानमनुवर्त्मानः अनुमृत्य वर्तमाना भवन्त्विति प्रार्थना ॥ ८६ ॥

सप्ताशीतितमी।
इ॒मᳪ स्तन॒मूर्ज॑स्वन्तं धया॒पां प्रपी॑नमग्ने सरि॒रस्य॒ मध्ये॑ ।
उत्सं॑ जुषस्व॒ मधु॑मन्तमर्वन्त्समु॒द्रिय॒ᳪ सद॑न॒मा वि॑शस्व ।। ८७ ।।
उ० इमᳪस्तनम् । त्रयोदशाग्नेयीत्रिष्टुभो यजमानं वाचयति । घृतस्तुतिश्च दृश्यते वसोर्धारानन्तरं भविष्यति तदभिवादिन्यो वा । वसोर्धारा स्रुचा हूयते सात्र रूपकल्पनया स्तन उक्तः । इमं स्रुग्लक्षणं स्तनम् ऊर्जस्वन्तं बलवन्तम् धय । 'धेट् पाने' पिब । अपां प्रपीनम् । अपशब्देनात्र घृतमुक्तं सादृश्यात् । यद्वा 'अथापि तद्धितेन कृत्स्नवन्निगमा भवन्ति' इतिवन्निगमः । घृतप्रपूरितम् हे अग्ने, सरिरस्य मध्ये वर्तमान । 'इमे वै लोकाः सरिरम्' इति श्रुतिः । एषु लोकेषु मध्ये वर्तमानः । किंच उत्सं जुषस्व उत्स्यन्दनं स्रुग्लक्षणं कूपं जुषस्व सेवस्व । मधुमन्तं मधुस्वादेन रसेन युक्तम् । हे अर्वन् । 'ऋ गतौ' अस्यैतद्रूपम् । हे अरण सर्वतोगत । किंच । समुद्रियम् समुद्रसंबन्धिनम् । सदनं गृहम् । आविशस्व सेवस्व । 'त्रयो ह वै समुद्रा अग्निर्यजुषां महाव्रतं साम्नां महदुक्थमृचाम्' इत्येतदभिप्रायम् । अन्तरिक्षं वा समुद्रः ॥ ८७ ॥
म० 'इमᳪ स्तनमिति वाचयति वा' (का० १८ । ४ । २६) । इमं स्तनमिति मन्त्रगणमध्यायसमाप्तिपर्यन्तं यजमानेनाध्वर्युर्वाचयति स्वयं जपति वेत्यर्थः । त्रयोदशर्च आग्नेयस्त्रिष्टुप्छन्दस्कोऽनुवाको यज्ञस्तुतिवसोर्धाराभिवादिनी घृतस्तुतिर्वा । हे अग्ने, सरिरस्य लोकस्य मध्ये वर्तमानः त्वमिमं स्रुग्लक्षणं स्तनं स्रुचः पतन्तीं घृतधारां वा त्वं धय पिब । 'धेट पाने' लोट् । 'इमे वे लोकाः सरिरम्' ( २ । ५ । २ । ३४ ) इति श्रुतेः । सरिरशब्देन लोका उच्यन्ते । वसोर्धारा स्रुचा होष्यते सा स्रुगत्र रूपककल्पनया स्तन उच्यते । कीदृशं स्तनम् । ऊर्जवन्तमूर्जो रसोऽस्यास्तीति ऊर्जस्वान् तं विशिष्टरसवन्तम् । तथा अपां प्रपीनम् । अप्शब्देन लक्षणया घृतमुच्यते । अद्भिः घृतैः प्रपीनं पूर्णं अपामिति तृप्त्यर्थानां करणे षष्ठी' इति तृतीयार्थे षष्ठी । प्राप्याय्यते पूर्यते प्रपीनम् 'ओप्यायी वृद्धौ' 'प्यायः पी' (पा० ६।१ । २८ ) इति च । हे अर्वन् इयर्तीति अर्वा सर्वतो गन्तः, उत्समुत्स्यन्दनं स्रुग्लक्षणं कूपं जुषस्व सेवस्व । कीदृशमुत्सम् । मधुमन्तं मधुस्वादेन घृतेन युक्तम् । किंच समुद्रियं समुद्रसंबन्धि चयनयागसंबन्धि सदनं गृहमाविशस्व तृप्तः सन् यज्ञगृहं सेवस्व । 'त्रयो ह वै समुद्रा अग्निर्यजुषां महाव्रतᳪ साम्नां महदुक्थमृचाम्' इत्यभिप्रायः समुद्रशब्दः 'समुद्राभ्राद्धः' (पा० ४ । ४ । ११८) इति घप्रत्ययः तस्येयादेशः ॥ ८७ ॥

अष्टाशीतितमी ।
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।
अ॒नुष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ।। ८८ ।।
उ० घृतं मिमिक्षे । योऽयमग्निर्घृतं मिमिक्षे । घृतमुदकमाहुतिपरिणामभूतम् । मिमिक्षे सिञ्चामि । अथवा यस्याग्नेर्मुखे घृतं मिमिक्षे सिञ्चामि । घृतं चास्य योनिरुत्पत्तिस्थानम् 'अग्निर्यस्यै योनेरसृज्यत तस्यै घृतमुल्बमासीत्' इत्येतदभिप्रायम् । यश्चायं घृते श्रितः अवस्थितः । यस्य चास्य तमेव धाम तेजः दीप्तिर्नाम वा । तमग्निम् अनुष्वधमावह । हे अध्वर्यो, अनुष्वधम् अन्वन्नम् पूर्वमन्नमुपकल्प्य पश्चादाह्वय । आहूय च मादयस्व तर्पय । तर्पयित्वा चैवं ब्रूहि । स्वाहाकृतम् स्वाहाकारेणाभिहुतम् । हे वृषभ | वर्षितः । वक्षि हव्यम् हविः देवानां वहनं च हविषामावाहनं च देवतानामित्यग्नेः कर्मणी ॥ ८८ ॥
म० गृत्समददृष्टा । अहं घृतं मिमिक्षे सेक्तुमिच्छामि । अग्निमुखे मेढुमिच्छति मिमिक्षते "मिह सेचने' सन्नन्ताल्लट् उत्तमैकवचनम् । यतोऽस्याग्नेर्घृतं योनिरुत्पत्तिस्थानम् । 'अग्निर्यस्यै योनेरसृज्यत तस्यै घृतमुल्बमासीत्' इति श्रुतेः । गर्भाधारोदकमुल्बम् । योऽग्निर्घृते श्रितः घृतमाश्रितः । अस्याग्नेर्घृतमेव धाम स्थानं तेजस्करम् । वा उ अवधारणे । अतो हे अध्वर्यो, अनुष्वधं स्वधामन्नमुपलक्ष्य तमग्निमावह पूर्वमन्नमुपकल्प्य पश्चादाह्वय । आहूय च मादयस्व तर्पय । तर्पयित्वा चैवं ब्रूहि हे वृषभ कामानामभिवर्षक, स्वाहाकृतं स्वाहाकारेण हुतं हव्यं त्वं वक्षि वह देवान् प्रापय । वहतेः शपि लुप्ते ढत्वकत्वादौ कृते वक्षीति रूपम् । यद्वा यं प्रत्यहं मिमिक्षे यस्य घृतं योनिर्यो घृते श्रितः यस्य च घृतं धाम स त्वमनुष्वधं देवानावह मादय हव्यं च वक्षि इत्यग्निं प्रत्येवोक्तिः । यतो वह्नेः कर्मद्वयं देवानामावाहनं हविर्वहनं च ॥८८॥