पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकीभावेन मितो मानं प्राप्तः संमितः । सह बिभर्तीति सभराः ॥ ८१ ॥

द्व्यशीतितमी।
ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च । ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः ।। ८२ ।।
उ० ऋतश्च । ऋतश्च स्वमंशं पुरोडाशस्य प्राश्नातु । सत्यश्च । ध्रुवश्च धरुणश्च । धर्ता च विधर्ता च । विधारयः विविधं धारयतीति विधारयः ऋजुः ॥ ८२ ॥
म० ऋतः सत्यरूपः । सति वस्तुनि भवः सत्यः । ध्रुवः स्थिरः । धरुणः धारकः । धारयतीति धर्ता । विशेषेण धारयतीति विधर्ता । विविधं धारयतीति विधारयः ॥ ८२ ॥

त्र्यशीतितमी।
ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॑श्च । अन्ति॑मित्रश्च दू॒रे अ॑मित्रश्च ग॒णः ।। ८३ ।।
उ० ऋतजिच्च । सत्यजिच्च । सेनजिच्च । सुषेणश्च शोभनसेनश्च । अन्तिमित्र आसन्नमित्रः । दूरेअमित्रश्च गणः ऋजुः ॥ ८३॥
म० उष्णिक् । ऋतं यज्ञं जयतीति ऋतजित् । सत्यं याथातथ्यं जयतीति सत्यजित् । सेनां शत्रुसैन्यं जयतीति सेनजित् । ह्रस्व आर्षः । शोभना सेना यस्य सुषेणः । अन्ति समीपे मित्राणि यस्य स अन्तिमित्रः । दूरे अमित्राः शत्रवो यस्य स दूरे अमित्रः 'प्रकृत्यान्तःपादम् -' (पा०६।१। ११५) इति सन्ध्यभावः 'हलदन्तात्सप्तम्या-' (पा० ६ । ३ । ९) इति विभक्त्यलोपः । गणयति सर्वमिति गणः ॥ ८३ ॥

चतुरशीतितमी।
ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु ण॑: स॒दृक्षा॑स॒: प्रति॑सदृक्षास॒ एत॑न ।
मि॒तास॑श्च॒ सम्मि॑तासो नो अ॒द्य सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन् ।। ८४ ।।
उ० ईदृक्षासः। व्यवहितपदप्रायोऽयं मन्त्रः । सादृश्येनात्र मरुतः स्तूयन्ते । ये यूयम् ईदृक्षासः इदंदर्शनाः सर्व एव । ये च एतादृक्षासः एतद्दर्शनाः सर्व एव । ऊषुणः त्रीणि पदानि छन्दःपरिपूर्तिं कुर्वन्ति । ये च यूयं सदृक्षासः समानदर्शनाः सर्व एव । ये च यूयं प्रतिसदृक्षासः प्रतिसमानदर्शनाः सर्व एव । ये च यूयं मितासः मितः प्रमाणतः सर्व एव । ये च यूयं संमितासः सङ्गत्य मिताः सर्व एव । ये च यूयं सभरसः समानमलंकारादि विभृतः । तान् ब्रवीमि । एतेन नो अद्य मरुतो यज्ञे अस्मिन् एतेन आगच्छन्ति नः अस्माकम् अद्य अस्मिन्द्यवि । हे मरुतः, यज्ञे अस्मिन् । एवं व्यवहितानि पदानि पश्चात्सर्वैरेव संबन्धनीयानि ॥ ८४ ॥
म०. हे मरुतः, यूयमेते कीदृशाः । ईदृक्षासः इदंदर्शनाः । एतादृक्षासः एतद्दर्शनाः । उ सु नः एतत्पदत्रयं पादपूर्तये । सदृक्षासः समानदर्शनाः । प्रतिसदृक्षासः प्रत्येकं समानदर्शनाः । मितासः मिताः प्रमाणतः । संमितासः सङ्गत्य मिताः । सभरसः समानमलंकारादिकं बिभ्रति ते सभरसः । भरसा आदरेण सह वर्तमाना इति वा । बहुवचनमादरार्थम् ॥ ८४ ॥

पञ्चाशीतितमी।
स्वत॑वाँश्च प्रघा॒सी च॑ सान्तप॒नश्च॑ गृहमे॒धी च॑ । क्री॒डी च॑ शा॒की चो॑ज्जे॒षी ।। ८५ ।।
उ० स्वतवांश्च स्वकीयं तवो बलं यस्य स स्वतवान् स्वतवांश्च स्वमंशं पुरोडाशमस्य भक्षयतु । प्रघासी च । 'घस्लृ अदने । प्रकर्षेण अदनशीलः । सान्तपनश्च गृहमेधी च क्रीडी च । पञ्च चातुर्मास्यदेवताः । शाकी च शक्तः । उज्जेषी च उज्जयनशीलः ॥ ८५॥
म० गायत्री उष्णिग्वा षड्विंशत्यक्षरवाद्विकल्पः । आद्याः ' पञ्च चातुर्मास्यदेवताः । स्वं स्वकीयं तवो बलं यस्य स स्वतवान् स्वाधीनबलयुक्तः । प्रकर्षेण घसति अत्ति प्रघासी पुरोडाशभक्षणशीलः । संतपनः सूर्यस्तत्संबन्धी सांतपनः । गृहमेधोऽस्यास्तीति गृहमेधी गृहधर्मवान् । क्रीडतीत्येवंशीलः क्रीडः सदा क्रीडाशीलः । शक्नोतीति शाकी शक्तः । उज्जयतीति उन्जेषी उत्कृष्टजयनशीलः । एते मरुतो यूयमत्र यज्ञे एतनेति पूर्वणान्वयः ॥ ८५ ॥

षडशीतितमी ।
इन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न्यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन् ।
ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु ।। ८६ ।।
उ० इन्द्रं दैवीरिति मारुतं यजुर्जपति । इन्द्रं राजानं दैवी विशः मरुतो मरुल्लक्षणाः अनुवर्त्मानः अनु पश्चात् वर्त्म वर्तनं यासां ता अनुवर्त्मानः । अनुगामिन्य इत्यर्थः । अभवन् । स्वरूपाख्यानमेतत् । यथा इन्द्रं दैवीः विशः अनुवर्त्मानः अभवन् उपमानम् । एवम् इमं यजमानम् दैवीश्च विशः मरुतः मानुषीश्च विशः मनुष्याः अनुवर्त्मानः अनुगामिन्यः भवन्त्विति प्रार्थना ॥ ८६ ॥
म० विमुखमन्त्रोऽपि प्रसङ्गाद्व्याख्यायते। उग्र उत्कृष्टः । बिभेत्यस्मादसौ भीमः "भीमादयोऽपादाने' ( पा० ३ । ४ । ७४ ) इति निपातः । ध्वान्तयति शत्रूनन्धीकरोतीति ध्वान्तः । ध्वान्तशब्दात् 'तत्करोति-' इति णिजन्तात्पचाद्यच् । धूनयति