पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कर्मणे । भूमनो भूम्नो महतो विश्वस्य जगतः पत्ये स्वामिने। भूमन इत्यत्रोपधालोपाभाव आर्षः ॥ ७८ ॥

एकोनाशीतितमी।
स॒प्त ते॑ अग्ने स॒मिध॑: स॒प्त जि॒ह्वाः स॒प्त ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ ।
स॒प्त होत्रा॑: सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्व घृ॒तेन॒ स्वाहा॑ ।। ७९ ।।
उ० सप्त वाग्नेयी । सप्त ते तव हे अग्ने, समिधः समिन्धनाः प्राणाः यतः सन्ति । यतश्च सप्त जिह्वाः तव सन्ति। सप्तपुरुषान्संहृत्यैकीकृतोऽयमग्निस्तदभिप्रायमेतत् । यतश्च सप्त ऋषयः तव यष्टारः सन्ति । यतश्च सप्त धामानि प्रियाणि । सप्त छन्दांसि प्रियाणि तव सन्ति । यतश्च सप्त होत्राः आग्नीध्रपर्यन्ताः । सप्तधा त्वा त्वां यजन्ति । अतो ब्रवीमि सप्त योनीः सप्त चितीः आपृणस्व आपूरयस्व घृतेन । स्वाहा सुहुतं चैतद्धविर्भवतु ॥ ७९ ॥
म० पूर्णाहुतिं च सप्त त इति' ( का० १८ । ४ । ९)। स्रुचा पूर्णाहुतिं जुहोति घृतपूर्णया स्रुचा' आहुतिः पूर्णाहुतिरित्यर्थः । सप्तर्षिदृष्टा अग्नेयी द्व्यधिका त्रिष्टुप् । हे अग्ने, ते तव सप्त समिधः समिन्धनाः प्राणाः शीर्षण्याः सन्ति । 'प्राणा वै समिधः प्राणा ह्येतᳪ समिन्धते' ( ९ । २ । ३ । ४४ ) इति श्रुतेः । किंच तव सप्त जिह्वाः सन्ति ज्वालारूपाः सप्त जिह्वाः हिरण्याङ्गणाद्याः(?) आगमोक्ताः । यद्वा आथर्वणिकोक्ताः 'काली कराली च मनोजवा च विलोहिता चापि सधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः' (मुण्ड० १। २) इति। तथा सप्त ऋषयः मरीच्यादयस्तव द्रष्टारः सन्ति । तथा सप्त प्रियाणि धाम धामानि छन्दांसि गायत्र्यादीनि तव सन्ति । 'छन्दाᳪसि वा अस्य सप्त धाम प्रियाणि' ( ९ । २।३। ४४ ) इति श्रुतेः । यद्वा धामानि स्थानानि आहवनीयगार्हपत्यदक्षिणाग्निसभ्यावसथ्यप्राजाहिताग्नीध्रीयाणि सोमयागे वह्निधारकाणि सन्ति । किंच हे अग्ने, सप्त होत्राः होत्रादय ऋत्विजः सप्तधा सप्तप्रकारैरग्निष्टोमादिसप्तसंस्थाभिः त्वा त्वां यजन्ति । होता प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाग्नीध्रोऽच्छावाकश्चेति सप्त होत्राः । अग्निष्टोमोऽत्यमिष्टोम उक्थ्यः षोडश्यतिरात्र आप्तोर्यामो वाजपेयश्चेति सप्तसंस्थाः प्रकाराः । हे अग्ने, स त्वं सप्त योनीः चितीः घृतेनापृणस्व 'सप्त योनीरिति चितीरेतदाह सप्तचितिकोऽग्निः' ( ९ । २। ३ । ४४ ) इति च श्रुतेः । स्वाहा सुहुतमस्तु । यद्वा 'यज्ञो वै स्वाहाकारः' ( ९ । २ । ३ । ४४ ) इति श्रुतेः । स्वाहा यज्ञरूपः त्वं सप्त योनीर्घृतेनापृणस्व 'पृण तृप्तौ' तुदादिः ॥ ७९ ॥

अशीतितमी।
शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माँश्च । शु॒क्रश्च॑ ऋत॒पाश्चात्य॑ᳪहाः ।। ८० ।।
उ० मारुतान् जुहोति शुक्रज्योतिरिति षड्भिर्ऋग्भिर्मारुतीभिः । तत्र चैकैकस्यामृचि सप्त मरुतः । प्रथमा उष्णिक् चतुर्थी च । द्वितीयातृतीये गायत्र्यौ। पञ्चमी जगती षष्ठी गायत्र्युष्णिग्वा । शुक्रज्योतिः पुरोडाशं च स्वमंशं भक्षयतु । चित्रज्योतिः सत्यज्योतिश्च ज्योतिष्मांश्च । शुक्रश्च ऋतपाश्च अत्यंहाश्च । अथैकपदनिरुक्तम् । शुक्लं ज्योतिर्यस्य शुक्रस्येव वा ज्योतिर्यस्य स शुक्रज्योतिः । चित्रं ज्योतिः सत्यं ज्योतिः । ज्योतिष्मान् ज्योतिषा तद्वान् । शुक्रः शुक्लः ऋतपाः सत्यं यज्ञं वा पाति । अत्यंहाः अतीत्य अंहः पापं वर्तत इत्यत्यंहाः ॥ ८०॥
म० 'वैश्वानरेण प्रचर्य सर्वहुतेन हस्तेन मारुतान् जुहोतीत्युपविश्य वैश्वानरे वा वैश्वानरं पृथुं कृत्वा शुक्रज्योतिरिति प्रतिमन्त्रम् विमुखेनारण्येऽनूच्यम्' ( का. १८ । ४ । २३ । २४ ) । वैश्वानरपुरोडाशेन यागं कृत्वोपविश्याहवनीये हस्तेन मारुतान्पुरोडाशान्सर्वहुतान् जुहोति शुक्रज्योतिरित्येकैकमन्त्रेणैकैकम् । यद्वा वैश्वानरपुरोडाशस्योपर्येव मारुतान् जुहोति । किं कृत्वा । प्रथनकाले वैश्वानरं पुरोडाशं विस्तीर्णं कृत्वा । आरण्येऽनूच्यं सप्तमं पुरोडाशं विमुखेनोग्रश्च भीमश्चेति वक्ष्यमाणमन्त्रेण जुहोतीत्यर्थः । षट् मरुद्देवत्याः । आद्या उष्णिक । एकैकस्यामृचि सप्त सप्त मरुतः । शुक्रज्योतिरित्याद्या एकोनपञ्चाशन्मरुतो यूयमद्यास्मिन्नोऽस्माकं यज्ञे एतन एत आगच्छत इति पञ्चमर्चि अन्वयः । 'तप्तनप्-' (पा. ७ । १। ४५) इत्यादिना तस्य तनादेशः । तन्नामानि व्याख्यायन्ते । शुक्रं शुद्धं शुक्रस्येव वा ज्योतिस्तेजो यस्य स शुक्रज्योतिः । चित्रं दर्शनीयं ज्योतिर्यस्य स चित्रज्योतिः । सत्यं ब्रह्मलक्षणं ज्योतिर्यस्य स सत्यज्योतिः । ज्योतिस्तेजोऽस्यास्तीति ज्योतिष्मान् । शोचते दीप्यत इति शुक्रः । ऋतं सत्यं यज्ञं वा पातीति ऋतपाः । अंहः पापमतीत्य वर्तत इत्यत्यंहाः । चकाराः समुच्चयार्थाः ॥ ८० ॥

एकाशीतितमी।
ई॒दृङ् चा॑न्या॒दृङ् च॑ स॒दृङ् च॑ प्रति॑सदृङ् च॑ । मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः ।। ८१ ।।
उ० ईदृङ् च । अनेनानेन च समानदर्शनः ईदृङ् ईदृङ् च । पुरोडाशस्य स्वमंशं प्रतिगृह्णातु । अन्यादृङ् च अन्येनान्येन च समानदर्शनः अन्यादृङ् । सदृङ् च प्रतिसदृङ् च तेन तेन समानदर्शनः सदृङ् । तंतं प्रति सदृशः प्रतिसदृङ्। मितश्च उत्तमाधममध्यमैस्तुल्यः मितः। संमितश्च एकीभावेन मितः संमितः। सभराश्च सह बिभर्ति सभराः ॥८१॥
म० द्वे गायत्र्यौ । इमं पुरोडाशं गृहीत्वा पश्यतीति ईदृङ् । अन्यमपि पुरोडाशं पश्यतीति अन्यादृङ् । समानं पश्यतीति सदृङ् । तं तं प्रति समानं पश्यतीति प्रतिसदृङ् । मितो मानं प्राप्तः । यद्वा उत्तमाधममध्यमैस्तुल्यो मितः । सम्यक्