पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चसप्ततितमी।
वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ ।
यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वीᳪषि॑ जुहुरे॒ समि॑द्धे ।। ७५ ।।
उ० विधेम ते । त्रिस्थानोऽग्निर्देवता त्रिष्टुप् । विधेम । विदधातिर्दानकर्मा । दद्मः ते तुभ्यम् । परमे जन्मन् हे अग्ने, परमे जन्मनि जाताय आदित्यात्मना स्थिताय । 'द्यौर्वा अस्य परमं जन्म' । विधेम स्तोमैः स्तुतिभिः । अवरे सधस्थे स्थिताय विद्युदात्मना । 'अन्तरिक्षं वा अवरं सधस्थम् । यस्मात् योनेः उत् आरिथा 'ऋ गतौ' । अस्यैतद्रूपम् । यस्माच्च स्थानादुद्गतोऽसि यजे तत्स्थानमहम् । 'एष वा अस्य स्वो योनिः' एष इति चित्योग्निरुच्यते । किंच प्रत्वे हवीᳪषि जुहुरे समिद्धे जुहोमि त्वयि हवींषि समिद्धे सम्यग्दीप्ते ॥ ७५॥
म० गृत्समददृष्टा त्रिस्थानाग्निदेवत्या त्रिष्टुप् । हे अग्ने, परमे जन्मन् परमे जन्मनि दिवि आदित्यात्मना स्थिताय ते तुभ्यं वयं विधेम हविर्दद्मः । 'द्यौर्वा अस्य परमं जन्म' (९। २।३ । ३९) इति श्रुतेः। अवरे सधस्थे दिवोऽवाचीने सहस्थानेऽन्तरिक्षे स्थिताय विद्युद्रूपाय ते स्तोमैः स्तोत्रैर्वयं विधेम परिचरेम । 'अन्तरिक्षं वा अवरᳪ सधस्थम्' (९।२।३। ३९) इति श्रुतेः । हे अग्ने, यस्माद्योनेः इष्टकाचितिरूपात् स्थानात् त्वमुदारिथ उद्गतोऽसि 'ऋ गतौ' लिट् संहितायां दीर्घः। तं योनिमहं यजे पूजयामि । ततः समिद्धे सम्यक् प्रज्वलिते त्वे त्वयि हवींषि प्रजुहुरे प्रजुहुविरे प्रजुह्वति ऋत्विजः ‘इरयो रे' (पा० ६ । ४ । ७६ ) इति इरेप्रत्ययस्य रे आदेशः। “एष वा अस्य स्वो योनिः' (९।२।३ । ३९ ) इति श्रुतेः। एष चित्योऽग्निः ॥ ७५ ॥

षट्सप्ततितमी।
प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॒ यविष्ठ । त्वाᳪ शश्व॑न्त॒ उप॑ यन्ति॒ वाजा॑: ।। ७६ ।।
उ० प्रेद्धो अग्ने । आग्नेयीविराट् । प्रकर्षेण इद्धः दीप्तः सन् हे अग्ने, भूयोऽपि दीदिहि दीप्यस्व । पुरः अग्रतः नोsस्माकं व्यवस्थितः । एतया अजस्रया अनुपक्षीणया। सूर्म्या समित्काष्ठिकया । सूर्मीशब्दः काष्ठवचनः । 'सूर्मीं ज्वलन्तीं वाश्लिष्यात्' इति च स्मृतिः । हे यविष्ठ युवतम । यतश्च त्वामेव शश्वन्तः शाश्वतिकाः । उपयन्ति उपगच्छन्ति । वाजाः अन्नानि अतो दीदिहीति संबन्धः ॥ ७६ ॥
म० वसिष्ठदृष्टाग्निदेवत्या विराडनुष्टुप् दशकास्त्रयो विराडित्युक्तेः । हे यविष्ठ, अतिशयेन युवा यविष्ठः 'अतिशायने तमबिष्ठनौ' 'स्थूलदूरयुव-' (पा० ६।४।१५६ ) इत्यादिना वलोपे पूर्वगुणः । हे युवतम, हे अग्ने, त्वं नोऽस्माकं पुरोऽग्रे दीदिहि दीप्यस्व । दीव्यतेर्विकरणव्यत्ययेन जुहोत्यादित्वाच्छपः श्लौ द्वित्वम् 'तुजादीनाम् -' (पा० ६ । १ । ७) इति पूर्वदीर्घः । किंभूतस्त्वम् । अजस्रयानुपक्षीणया सूर्म्या समित्काष्ठेन प्रेद्धः प्रकर्षे दीप्तः । सूर्मीशब्दः काष्ठवाचकः । यद्वा लोहमयी ज्वलन्ती स्थूणा सूर्मी । अजस्रया सूर्म्या सूर्मीसमानया ज्वालया दीदिहि । सूर्मीशब्दो ज्वालोपलक्षकः । हे अग्ने यतः शश्वन्तो निरन्तरभाविनो वाजाः अन्नानि हवींषि त्वामुपयन्ति प्राप्नुवन्ति अतो दीप्यस्वेत्यर्थः ॥ ७६ ॥

सप्ततितमी।
तम॒द्याश्वं॒ न स्तोमै॒: क्रतुं॒ न भ॒द्रᳪ हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहै॑: ।। ७७ ।।
उ० तिस्र आहुतीर्जुहोति । अग्ने तमद्येति व्याख्यातम् ॥ ७७ ॥
म० 'स्रुवाहुती जुहोत्यग्ने तमद्येति प्रत्यृचम्' (का० १८।४। ८)। समिध आधायाग्ने तमिति ऋग्द्वयेन स्रुवेण द्वे घृताहुती तत्राग्नौ जुहोतीत्यर्थः । व्याख्याता (अ० १५। क०४४) ॥७७॥

अष्टसप्ततितमी।
चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हागम॑न्वी॒तिहो॑त्रा ऋता॒वृध॑: ।
पत्ये॒ विश्व॑स्य॒ भूम॑नो जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वाहाऽदा॑भ्यᳪ ह॒वि: ।। ७८ ।।
उ० चित्तिं जुहोमि । वैश्वकर्मणी जगत्यतिजगती वा। चित्तिमचित्तमेषामृत्विग्यजमानानाम् जुहोमि अग्निसंबन्धं करोमि । अग्नितत्त्वपरिज्ञानचिन्तनसन्तानं करोमीत्यर्थः । मनसा च घृतेन च सह । तथा जुहोमि । यथा देवा इहागमन् इह आगच्छेयुः । कथंभूताः । वीतिहोत्राः कामितयज्ञाः । होत्रा इति यज्ञनामसु पठितम् । ऋतावृधः सत्यवृधः । किंच । पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे । अधिपतिभूताय विश्वस्य भूतग्रामस्य । जुहोमि विश्वकर्मणे विश्वाहा सर्वदा । अदाभ्यम् अनुपक्षीणम् हविः ॥ ७८ ॥
म० विश्वकर्मदेवत्यातिजगती । मनसा घृतेन च सह चित्तिमृत्विग्यजमानानां चित्तिं जुहोमि अग्निसंबद्धं करोमि । अग्नितत्त्वपरिज्ञानार्थ चिन्तनं सन्तानं करोमीत्यर्थः । संकल्पविकल्पात्मकं मनः । निश्चयात्मकं चित्तम् । तथा जुहोमि । यथा इह यज्ञे देवा आगमन् आगच्छेयुः । 'पुषादि-' (पा० ३ । १। ५५) इत्यादिना गमेर्लुङि च्लेरङ । कीदृशा देवाः । वीतिहोत्राः । होत्रा इति यज्ञनाम । वीतिरभिलाषो होत्रा येषां ते वीतिहोत्राः कामितयज्ञाः । ऋतावृधः ऋतं सत्यं यज्ञं वा वर्धयन्ति ते ऋतवृधः । संहितायां दीर्घः । किंच विश्वाहा । विश्वानि च तान्यहानि च विश्वाहा सर्वेष्वहःसु अदाभ्यमनुपहतं स्वादु हविः विश्वकर्मणे प्रजापतये जुहोमि । कीदृशाय विश्व