पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० आग्नेयी विराट्पङ्क्तिः दशाक्षरचतुःपादा । हे अग्ने । सहस्राक्ष, सहस्रमक्षीणि यस्य तत्संबुद्धिः हिरण्यशकलान्येव नेत्राणि । तथाच श्रुतिः 'हिरण्यशकलैर्वा एष सहस्राक्षः' ( ९ । २ । ३ । ३२) इति । हे शतमूर्धन् , शतं मूर्धानो यस्य । 'यददः शतशीर्षा रुद्रोऽसृज्यत' ( ९ । २ । ३ । ३२) इति श्रुतेः । यस्य तव शतं प्राणाः सहस्रं व्यानाः । शतसहस्रशब्दावपरिमितवचनौ । यश्च त्वं साहस्रस्य सहस्रपरिमितस्य रायः धनस्य ईशिषे प्रभुर्भवसि । सहस्रादण्प्रत्ययः । तस्मै तादृशाय । ते तुभ्यं वयं वाजाय विधेम वाजमन्नं हवीरूपं दद्मः । वाजमिति विभक्तिव्यत्ययः । विधतिर्दानकर्मा । स्वाहा एतद्धविः सुहुतमस्तु ॥ ७१ ॥

द्विसप्ततितमी।
सु॒प॒र्णो॒ऽसि ग॒रुत्मा॑न् पृ॒ष्ठे पृ॑थि॒व्याः सी॑द ।
भा॒साऽन्तरि॑क्ष॒मापृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृ॑ᳪह ।। ७२ ।।
उ० स्वयमातृण्णायामग्निं निदधाति । सुपर्णोऽसीति द्वाभ्यामाग्नेयीभ्यां पङ्क्तित्रिष्टुब्भ्याम् । यस्त्वं सुपर्णवदसि । गरुत्मान् गरणवान् अशनायावानित्यर्थः । स पृष्टे पृथिव्याः सीद आस्थानं कुरु । भासा च दीप्त्यान्तरिक्षम् आपृण आपूरय । ज्योतिषा च दिवम् उत्तभान उत्स्तभान उत्तम्भय । तेजसा दिशः उद्दृᳪह तेजसा च दिशः दृढीकुरु । आदीपनार्थो वा दृंहतिः ॥ ७२ ॥
म० 'तस्यामग्निं निदधाति सुपर्णोऽसीति वषट्कारेण' (का. १८ । ४ । ४)। स्वयमातृण्णायां सुपर्णोऽसीति ऋग्द्वयेन वषट्कारेण चाग्निं स्थापयतीत्यर्थः । अग्निदेवत्या पङ्क्तिः । हे अग्ने, त्वं सुपर्णोऽसि सुपर्णपक्ष्याकारो गरुडसमानोऽसि । गरुत्मान् गरुत् गरणं गलनं भक्षणमस्यास्तीति गरुत्मान् अशनायावानित्यर्थः । अतः पृथिव्याः पृष्ठे उपरि सीद उपविश । भासा स्वप्रकाशेन अन्तरिक्षमापृण सर्वतः पूरय । ज्योतिषा स्वसामर्थ्येन दिवं द्युलोकमुत्तभान ऊर्ध्वं स्तम्भितं कुरु स्तम्भेः 'हलः श्नः शानज्झौ' (पा० ३।१। ८३ ) इति श्नाप्रत्ययस्य शानजादेशः । तथा तेजसा स्वेन दिश उद्दृंह उत्कर्षेण दृढीकुरु दीपय वा ॥ ७२॥

त्रिसप्ततितमी।
आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वं योनि॒मा सी॑द साधु॒या ।
अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत ।। ७३ ।।
उ० आजुह्वानः अभिहूयमानः । सुप्रतीकः सुसुखः सन् । पुरस्तात् पूर्वस्यां दिशि । हे अग्ने, स्वं योनिं स्थानम् आसीद अधितिष्ठ साधुया साधुक्रियाविशेषणत्वेन श्रुत्या व्याख्यातम् । यूयमपि च हे विश्वेदेवाः, यजमानश्च सीदत अवस्थानं कुरुत । अस्मिन् सधस्थे सहस्थाने । अधियज्ञे स्वर्गाख्ये । 'स्वर्गो वै लोकः सधस्थः' इति श्रुतिः। अध्युत्तरस्मिन् सर्वोत्कृष्टे । अत्र तृतीयः पादः पश्चाद्व्याख्यायते अर्थसंबन्धात् ॥ ७३ ॥७३॥
म०. आग्नेयी त्रिष्टुप् । हे अग्ने, त्वमाजुह्वानः आहूयमानः सन् सुप्रतीकः शोभनं प्रतीकं सुखं यस्य सुमुखः सन् पुरस्तात्पूर्वस्यां दिशि साधुया साधुं समीचीनं । विभक्तेर्यादेशः । स्वं योनिं स्थानमासीद अधितिष्ठ । हे विश्वेदेवाः, यूयं यजमानश्च अस्मिन् पुरोवर्तिनि अध्युत्तरस्मिन् अधिकमुत्कृष्टे सधस्थे अग्निना सह स्थातुं योग्यस्थाने सीदत यज्ञाख्ये स्वर्गे उपविशत । 'द्यौर्वा उत्तरं सधस्थं' ( ९ । २ । ३ । ३५) इति श्रुतेः ॥ ७३ ॥

चतुःसप्ततितमी।
ताᳪ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाऽहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् ।
याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नाᳪ स॒हस्र॑धारां॒ पय॑सा म॒हीं गाम् ।। ७४ ।।
उ० तिस्रः समिध आदधाति तिसृभिर्ऋग्भिः । अत्र कण्वः सावित्र्या त्रिष्टुभा पुरस्ताज्योतिषा धेनुं कामदोहनीं पयो ययाचे । ताᳪसवितुः तां सवितुः संबन्धिनीम् । वरेण्यस्य वरणीयस्य चित्रां चायनीयाम् । आवृणे आवृणोमि स्वीकरोमि । सुमतिम् कल्याणमतिम् । विश्वजन्याम् सर्वजनेभ्यो हिताम् । यां सुमतिं प्राप्य अस्य सवितुः संबन्धिनीम् कण्वः अदुहत् दुग्धवान् । प्रपीनां पूरितां पयसा । सहस्रधारां बहुधारां बहुनो वा कुटुम्बस्य धारयित्रीम् । महीं महतीं गाम् ॥ ७४ ॥
म० 'समिदाधानᳪ शामिलीवैकङ्कत्यौदुम्बर्यस्तᳪ सवितुरिति प्रत्यृचम्' ( का० १८ । ४ । ६)। अग्निनिधानानन्तरमध्वर्युस्तत्राग्नौ समित्त्रयमादधाति तां सवितुरिति शमीमयीं विधेमेति वैकङ्कतीं प्रेद्धो अग्न इत्यौदुम्बरीमित्यर्थः । कण्वदृष्टा सावित्री त्रिष्टुप् । वरेण्यस्य वरणीयस्य सवितुः संबन्धिनीं तां सुमतिं शोभनबुद्धिमहमावृणे आभिमुख्येन वृणोमि स्वीकरोमि । कीदृशीं सुमतिम् । चित्रां चायनीयां स्वापेक्षितबहुविधफलदानसमर्थाम् । विश्वजन्यां सर्वजनेभ्यो हिताम् । यद्वा विश्वं जन्यमुत्पाद्यं यस्याः सा विश्वजन्या ताम् जगदुत्पादनसमर्थाम् । तां कां । कण्वो मुनिरस्य सवितुर्यां सुमतिमेव गां धेनुमदुहत् अनुग्रहकारिणी बुद्धिं दुग्धवान् । कीदृशीम् । प्रपीनां प्रकर्षेण पीनां पयसा पूरिताम् सहस्रधारां सहस्रं धारा यस्यास्ताम् सहस्रक्षीरधारायुक्ताम् । यद्वा बहुनः कुटुम्बस्य धारयित्रीम् । पयसा दुग्धेन महीं महतीम् बहुदुग्धामित्यर्थः । सर्वसिद्धिदात्रीम् । रवेर्मतिर्या कण्वेन दुग्धा तामहं वृणे इति सर्वार्थः ॥ ७४ ॥