पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहती 'त्रिपादणिष्ठमध्या पिपीलिकमध्या' इति वचनात्पिपीलिकमध्या च । यजमान आह अहं पृथिव्या उत् उद्गतः सन् अन्तरिक्षमारुहमारूढोऽस्मि । तस्मादन्तरिक्षादुद्गतो दिवमारुहं द्युलोकमारूढोऽस्मि । दिवो द्युलोकस्य यो नाको दुःखरहितः प्रदेशः तस्य पृष्ठादुपरिभागात् स्वः ज्योतिः स्वर्गलोकस्थं ज्योतिरादित्यमण्डलमहमगां गतोऽस्मि प्राप्स्यामीत्यर्थः । 'इणो गा लुङि' (पा० २।४ । ४५ ) इति गादेशः ॥ ६७ ॥

अष्टषष्टी।
स्व॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्याᳪ रो॑हन्ति॒ रोद॑सी ।
य॒ज्ञं ये वि॒श्वतो॑धार॒ᳪ सुवि॑द्वाᳪसो वितेनि॒रे ।। ६८ ।।
उ०. स्वर्यन्तः अनुष्टुप् । अत्र द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते यच्छब्दयोगात् । यज्ञं ये यजमानाः । विश्वतोधारं सर्वतोधारम् । आहुति दक्षिणान्नानि यज्ञस्य धाराः । ताभिर्ह्येष वर्षति । यद्वा विश्वस्य जगतो धारयितारम् । वैश्वानरमारुतवसोर्धारा । वाजस्य प्रसवीयानि धारा वा यज्ञस्य । सुविद्वांसः ज्ञानकर्मसमुच्चयकारिणः वितेनिरे वितन्वन्ति । स्वर्यन्तः स्वर्लोकं गच्छन्तः नापेक्षन्ते पुत्रपश्वादिकृतकृत्यत्वात् । आरोहन्ति हि द्यां रोदसी । दिव एतद्विशेषणम् नतु द्यावापृथिव्योरभिधानं दिव इति । स्वःशब्दोपादानसामर्थ्यात् । कथंभूतां द्यामारोहन्ति । रोदसी रोध्री जरामृत्युशोकादीनाम् ॥ ६८ ॥
म०. आग्नेयी अनुष्टुप् । सुष्ठु विदन्ति जानन्ति ते सुविद्वांसः ज्ञानकर्मसमुच्चयकारिणः ये सुविद्वांसो यज्ञं वितेनिरे वितन्वन्ति अनुतिष्ठन्ति । कीदृशं यज्ञम् । विश्वतोधारं विश्वतो धारा यस्य तम् । आहुतिदक्षिणान्नानि यज्ञस्य धाराः वैश्वानरमारुतपूर्णाहुतिवसोर्धारावाजप्रसवीयानि वा यज्ञस्य धाराः । यद्वा विश्वस्य जगतो धारयितारम् । ते यज्ञकर्तारः स्वः स्वर्गं यन्तो गच्छन्तो नापेक्षन्ते पुत्रपश्वाद्यपेक्षां न कुर्वते कृतकृत्यत्वात् । द्यां स्वर्गं चारोहन्ति । कीदृशी द्याम् । रोदसी रुणद्धि जरामृत्युशोकादीन् सा रोदसी ताम् । धस्य दादेशश्छान्दसः । पूर्वंसवर्णदीर्घः दिवो विशेषणं न तु द्यावापृथिव्योरभिधानं दिव इत्युपादानात् । यद्वा ये यजमानाः सुविद्वांसः सुष्ठु कर्मप्रकारं जानन्तः विश्वतोधारं जगद्धरणहेतुं यज्ञं वितन्वन्ति विशेषेण कुर्वन्ति ते यजमाना द्यामन्तरिक्षमारोहन्ति तथा रोदसी द्यावाभूमी आरोहन्ति । ततः स्वर्यन्तः स्वर्गस्थमादित्यमण्डलं प्राप्नुवन्तोऽन्यत्किमपि स्थानं नापेक्षन्ते ॥ ६८ ॥

एकोनसप्ततितमी।
अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् ।
इय॑क्षमाणा॒ भृगु॑भिः स॒जोषा॒: स्व॒र्यन्तु॒ यज॑मानाः स्व॒स्ति ।। ६९ ।।
उ० अग्ने प्रेहि प्रयाहि । प्रथमः देवयताम् देवान्यष्टुमिच्छताम् । यस्त्वं चक्षुः देवानामुतापि च मर्त्यानां मनुष्याणाम् । ततस्त्वयि प्रथमं प्राप्ते सति । इयक्षमाणाः भृगुभिः यागं कुर्वाणाः । भृगुग्रहणमार्षेयानूचानब्राह्मणोपलक्षणार्थम् । सजोषाः समानजोषणाश्च देवैः सन्तः । स्वर्लोकं यन्तु यजमानाः । स्वस्ति अविनाशेन ॥ ६९॥
म० आग्नेयी त्रिष्टुप् । हे अग्ने, त्वं देवयतां देवानिच्छतां यजमानानां प्रथमः प्रेहि पुरतः प्रकर्षेण गच्छ । देवानिच्छन्ति देवयन्ति देवयन्तीति देवयन्तः तेषाम् 'सुप आत्मनः क्यच' (पा० ३ । १।८) इति क्यजन्ताच्छतृप्रत्ययः 'क्यचि च' (पा. ७ । ४ । ३३) इतीत्वे प्राप्ते 'न छन्दस्यपुत्रस्य' (पा० ७ । ४ । ३५ ) इति तदभावः । कथं मयाग्रतो गन्तव्यं तत्राह । यतस्त्वं देवानामुतापि च मर्त्यानां मनुष्याणां चक्षुःस्थानीयः । लोकेऽपि गच्छतः पुरुषस्य दृष्टिः पुरतो याति । | किंच यष्टुमिच्छन्ति इयक्षमाणाः । अभ्यासे यलोपश्छान्दसः । इयक्षमाणा यष्टुमिच्छन्तो यजमानाः स्वस्ति यथा तथा अविनाशेन स्वः स्वर्गं यन्तु प्राप्नुवन्तु । कीदृशाः । भृगुभिः भृगुगोत्रविप्रैः सजोषाः समानो जोषः प्रीतिर्येषां ते । भृगुग्रहणमनूचानब्राह्मणोपलक्षणम् । उत्तमविप्रैः प्रीतिमन्तः ॥ ६९॥

सप्ततितमी।
नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ᳪ समी॒ची ।
द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः ।। ७० ।।
उ० पयसाभिजुहोति । नक्तोषासा व्याख्यातम् ॥७०॥
म०. 'स्वयमातृण्णामध्यग्निं धारयंच्छुक्लवत्सापयसाभिजुहोति कृष्णाया दोहनेन स्वयमातृण्णामवसिञ्चन्नक्तोषासेति' ( का. १८ । ४ । २ ) । अध्वर्युः स्वयमातृण्णेष्टकोपरि समीपे प्रतिप्रस्थात्रा तमग्निं धारयन् कृष्णवर्णायाः श्वेतवत्साया गोर्दुग्धेन दोहनेन मृण्मयदोहनपात्रेण जुहूस्थानीयेन स्वयमातृण्णां सिञ्चनिध्मस्थेऽग्नौ जुहोति नक्तोषासेत्यृग्द्वयेनेत्यर्थः । व्याख्याता द्वादशे ( अ० १२ । क० २)॥ ७० ॥

एकसप्ततितमी।
अग्ने॑ सहस्राक्ष शतमूर्धञ्छ॒तं ते॑ प्रा॒णाः स॒हस्रं॑ व्या॒नाः ।
त्वᳪ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ।। ७१ ।।
उ० अग्ने सहस्राक्ष । आग्नेयीविराट् । हे अग्ने सहस्राक्ष, हिरण्यशकलैर्वा एष सहस्राक्षः । शतमूर्धन् । यददः शतशीर्षा रुद्रोऽसृजत । यस्य च तव शतं प्राणाः सहस्रं व्यानाः । यश्च त्वं साहस्रस्य रायो धनस्य हविर्लक्षणस्य ईशिषे । तस्मै ते तुभ्यम् विधेम । विधतिर्दानकर्मा । दद्मः । वाजाय वाजमिति विभक्तिव्यत्ययः । वाजमन्नं हविर्लक्षणम् । स्वाहा सुहुतमस्तु ॥ ७१ ॥