पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्यतीत्यर्थः । विश्वं हविरञ्चितं स्थापितं यस्यामिति विश्वाची वेदिः । घृतमञ्चितं यस्यामिति घृताची स्रुक् । तथाच श्रुतिः 'स विश्वाचीरभिचष्टे घृताचीरिति स्रुचश्चैतद्वेदीश्चाहेति' (९। २। ३ । १७) । तथा पूर्वमिमं लोकमपरममुं लोकं च अन्तरा मध्ये स्थितानां जनानां केतुं चित्तं चाभिचष्टे सर्वजनाभिप्रायज्ञ इत्यर्थः । यद्वा विश्वाचीर्विश्वव्यापिनीर्दिशोऽभिचष्टे सर्वतः प्रकाशयति । यथा घृताचीर्घृतप्राप्तिहेतुभूता धेनूश्चाभिचष्टे । तथान्तरा ब्रह्माण्डमध्ये पूर्वमपरं च केतुमुदयास्तमयमध्यवर्तिनं बोधमभिचष्टे ॥ ५९॥

षष्टी।
उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश ।
मध्ये॑ दि॒वो निहि॑त॒: पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ।। ६० ।।
उ० उक्षा समुद्रः । य उदयकाले उक्षा सेचनः समुद्रः समुन्दनो भवति तस्मिन्काले अवश्याया अतितरां पतन्ति तदभिप्रायमेतत् । अरुणः वर्णतो निर्देशः । सुपर्णः सुपतनः । यश्च पूर्वस्य द्युलोकस्य । योनिं स्थानम् पितुः पितृभूतस्य । ततो हि जायमान उपलभ्यत आदित्य इति पिता द्युलोकः। आविवेश आविशति । उदितमात्रः यश्च मध्ये द्युलोकस्य निहितः अवस्थितः । पृश्निः समस्तरश्मिसंकुलो विचित्रः । अश्मा अशनो व्यापकः स्यात् स विचक्रमे चंक्रममाणः । रजसः रञ्जनस्य लोकत्रयस्य पाति गोपायति । अन्तौ अन्तान् यो ह्यन्तान्पाति स मध्यं पात्येव ॥ ६० ॥
म० अप्रतिरथदृष्टादित्यदेवत्या त्रिष्टुप् । य आदित्यः पूर्वस्य पूर्वदिशि स्थितस्य पितुर्द्युलोकस्य योनिं स्थानमाविवेश आविशति द्यौः पितेत्युक्तेः पितुःशब्देन द्युलोकः उदयसमये द्युलोकाज्जायमान उपलभ्यते सूर्य इति द्युलोकपूर्वभागः सूर्यस्य पितृभूत उच्यते । किंभूतः यः । उक्षा वृष्टिद्वारा सेक्ता । समुद्रः समुनत्ति क्लेदयति समुद्रः उदयकालेऽवश्यायपतनेन क्लेदनकर्ता । अरुणः उदयकाले अरुणवर्णः। सुपर्णः शोभनं पर्णं पतनं गमनं यस्य स सुपर्णः । यश्च दिवो मध्ये निहितोऽवस्थितः । पृश्निर्विचित्रवर्णः नानारश्मिसंकुलः । अश्मा अश्नुते व्याप्नोति नभ इत्यश्मा व्यापकः । एवंविधः सन् विचक्रमे विक्रमते नभः । यश्च विक्रममाणो रजसः रञ्जनस्य लोकत्रयस्य अन्तौ । वचनव्यत्ययः । अन्तान् पर्यन्तान् पाति रक्षति । यो ह्यन्तान् पाति स मध्यं पात्येवेत्यर्थः । अथाश्मपक्षे व्याख्यानम् । अयं पृश्निर्विचित्रवर्णोऽश्मा पाषाणः पितुः कर्मपालकस्य पूर्वस्य पूर्वदिग्वर्तिन आहवनीयस्य योनिं कारणभूतमाग्नीध्रमाविवेश प्रविष्टवान् यदाहवनीयमुद्वपेदाग्नीध्रादुद्धरेदित्याहवनीययोनित्वमाग्नीध्रस्याम्नातमन्यत्र । अयमश्मा दिवो मध्ये आग्नीध्रस्थानीयस्यान्तरिक्षस्य मध्ये निहितः स्थापितः सन् रजसो रञ्जनीयस्य जगतः अन्तौ उत्पत्तिप्रलयरूपकोटिद्वयं विचक्रमे पाति रक्षति च परमेश्वररूपेण । कीदृशोऽश्मा । उक्षा सेक्ता । यागद्वारेण फलाभिवर्षक इत्यर्थः । समुद्रः बहुफलप्रदत्वात्समुद्रसदृश इत्यर्थः । अरुणः पूर्वमन्त्रे सूर्यसाम्यात् सूर्यसदृशः । सुपर्णः स्वर्गं प्रत्युद्गमनहेतुत्वात् पक्षिसदृशः ॥ ६० ॥

एकषष्टी।
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: ।
र॒थीत॑मᳪ र॒थीनां॒ वाजा॑ना॒ᳪ सत्प॑तिं॒ पति॑म् ।। ६१ ।।
उ०. निधायैनमतिक्रामन्ति चतसृभिः । इन्द्रं विश्वा इति व्याख्यातम् ॥ ६१ ॥
म० निधायैनमतिक्रामन्तीन्द्रं विश्वा इति' (का० १८ । ३ । २१)। एनं पृश्न्यश्मानं क्वचिद् गुप्ते देशे स्थापयित्वा सर्वे चयनं प्रति गच्छन्ति इन्द्रं विश्वा इत्याद्यृक्चतुष्टयेनेत्यर्थः । व्याख्याता (अ० १२ । क० ५६ ) ॥ ६१॥

द्विषष्टी।
दे॒व॒हूर्य॒ज्ञ आ च॑ वक्षत्सुम्न॒हूर्य॒ज्ञ आ च॑ वक्षत् । यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ२ आ च॑ वक्षत् ।। ६२ ।।
उ० देवहूर्यज्ञः । तिस्रोऽनुष्टुभः । आद्ये द्वे उष्णिहौ वा। यो देवहूः देवान् आह्वयति यज्ञः । सच अवक्षत् आवहतु च देवान् । यजतु चेति चकारः समुच्चयार्थीयः। यश्च सुम्नहूः। | सुम्नमिति सुखनाम । सुखमाह्वयति यज्ञः स आवहतु च देवान् यजतु । किंच यक्षन् यजतु च अग्निः देवः देवान् आचवक्षत् आवहतु च ॥ ६२ ॥
म० विधृतिदृष्टा यज्ञदेवत्यानुष्टुप् । देवानाह्वयतीति देवहूः देवानामाह्वाता यज्ञो देवानावक्षत् आवहतु । चकारः समुच्चये । यजतु च । सुम्नं सुखं धनपुत्रकलत्राद्युत्थमाह्वयति सुम्नहूः सुखकरो यज्ञो देवानावक्षत् आवहतु । अग्निर्देवश्च देवानावक्षत् आवहतु यक्षत् यजतु च । वक्षत् यक्षत् वहतेर्यजेश्व | 'सिब्बहुलं लेटि' (पा. ३ । १। ३४ ) सिप्प्रत्ययः 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमः 'इतश्च लोपः' । (पा० ३ । ४ । ९७ ) इति तिप इकारलोपः ॥ ६२॥

त्रिषष्टी।
वाज॑स्य मा प्रस॒व उ॑द्ग्रा॒भेणोद॑ग्रभीत् । अधा॑ स॒पत्ना॒निन्द्रो॑ मे निग्रा॒भेणाध॑राँ२ अकः ।। ६३ ।।
उ० वाजस्य मा वाजस्यान्नस्य । मा माम् । प्रसवः प्रसूतिरुत्पत्तिः अभ्यनुज्ञा वा । उद्ग्राभेण उद्ग्रहणेन । ऊर्ध्वं हि गृह्य दीयत इति उद्ग्रहणं दानं तेनेत्यर्थः । उदग्रहीत् उद्गृह्णीयात् । 'हृग्रहोर्भश्छन्दसि' हस्येति हकारस्य भकारः। | अध अथ समनन्तरमेव सपत्नान् इन्द्रः मे मम निग्राभेण नीचैर्ग्रहणेन । नीचैर्हि हस्तं कृत्वा भिक्षादिर्गृह्यते याचिष्णुतया अनन्नतया च । अधरान् अधोगमनान् अक: करोतु ॥ ६३ ॥