पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तम् । शमितम् सुसंस्कृतं मन्त्रैः । शमिता शमितेति व्यत्ययो वाक्यशेषात् । यजध्यै यागाय । तुरीयश्चात्र यज्ञो भवति । यत्र इत्थंभूतं हव्यं हविरेति । अध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चादृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयश्चतुर्थो यज्ञः । ततः तस्मात्तत्त्वज्ञादुत्थिताः वाकाः वचनानि ऋग्यजुःसामलक्षणानि । आशिषश्च नोऽस्मान् जुषन्तां सेवन्ताम् । यज्ञफलमस्मानालिङ्गयत्वित्यर्थः ॥५७॥
म० हविर्यज्ञदेवत्या बृहती । यज्ञो यत्र यस्मिन् काले हव्यं होतुं योग्यं हविः एति प्राप्नोति ततो यज्ञादुत्थिता वाका वाक्यानि ऋग्यजुःसामलक्षणानि आशिषोऽभीष्टार्थशंसनानि च नोऽस्मान् जुषन्ताम् सेवन्ताम् । यज्ञफलान्यस्मानालिङ्गन्त्वित्यर्थः । कीदृशं हविः । वीतं देवानामिष्टम् । 'इष्टᳪ स्विष्टमित्येतत्' (९।२ । ३ । ११) इति श्रुतेः । तथा शमिता 'सुपां सु-' (पा० ७।१।३९) इति तृतीयैकवचनस्य सु आदेशः । शमित्रा यजध्यै यष्टुं शमितं संस्कृतम् 'तुमर्थे से-' (पा० ३ । ४ । ९) इत्यादिना यजेस्तुमर्थे शध्यैप्रत्ययः । कीदृशो यज्ञः । तुरीयः चतुर्थः आदौ यजुर्जपः ततो होत्रा ऋचां पठनम् ततो ब्रह्मणोऽप्रतिरथजपः एवंच तुरीयो होमः । तथाच श्रुतिः 'अध्वर्युः पुरस्ताद्यजूᳪषि जपति होता पश्चादृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयो यज्ञः' ( ९ । २ । ३ । ११) इति । यद्वा आदावध्वर्युणा श्रावणम् तत् आग्नीध्रेण प्रत्याश्रावणम् यजेति ततोऽध्वर्योः प्रैषः ततो होतुर्वषट्कारः इति यज्ञश्चतुर्धा कल्प्यते ॥ ५७ ॥

अष्टपञ्चाशी।
सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒२ अज॑स्रम् ।
तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ।। ५८ ।।
उ० सूर्यरश्मिर्हरिकेशः । त्रिष्टुप् 'असौ वा आदित्य एषोऽग्निः' इति श्रुतिः । यः सूर्यरश्मिः सूर्यसदृशरश्मिः हरिकेशः। हरितवर्णकेशः सः पुरस्तात् सवितृरूपेण ज्योतिः। उदयान् उद्गच्छति । अजस्रमनुपक्षीणम् । तस्य चाग्नेः पूषा प्रसवे याति विद्वान् । स्वमधिकारं जानानः । 'पशवो वै पूषा' इति श्रुतिः । लक्षणया सचाग्निर्याति । प्रणीयमानः । संपश्यन् विश्वा विश्वानि भुवनानि भूतजातानि । गोपाः गोपायिता सर्वस्य जगतः ॥ ५८॥
म० अग्निदेवत्या त्रिष्टुप् । ज्योतिर्ज्योतीरूपोऽग्निः अजस्रं निरन्तरं प्रत्यहं पुरस्तात् पूर्वस्यां दिशि आहवनीयरूपेण होमार्थमुदयान् उद्गच्छति । उत्पूर्वस्य यातेर्लङि प्रथमाबहुवचनेनोरु आदेशाभावे रूपम् वचनव्यत्ययः 'छदसि लुङ्लङ्लिटः' (पा० ३।४।६) इति लङ् । कीदृशोऽग्निः । सूर्यरश्मिः सूर्यस्येव रश्मयः किरणा यस्य सः । यद्वा सूर्यश्चासौ रश्मिश्च । सूर्यरूपस्तद्रश्मिरूपश्चेत्यर्थः । हरिकेशः हरति दारिद्र्यमिति हरि हिरण्यम् । हिरण्यवर्णाः केशाः केशस्थानीया ज्वाला यस्य सः । सविता सौति सविता प्राणिनां तत्तद्व्यापारेषु प्रेरकः । तस्येदृशस्याग्नेः प्रसवे आज्ञायां पूषा पोषकः सूर्यः याति उदयास्तमयद्वारेणाटति । कीदृशः पूषा । विद्वान् स्वाधिकारमहोरात्रिवर्तनात्मकं जानन् । विश्वा विश्वानि भुवनानि भूतजातानि संपश्यन् सर्वान् लोकान् सम्यगवलोकयन् । गोपाः गोपायतीति गोपाः रक्षकः धर्मस्य ॥ ५८ ॥

एकोनषष्टी।
वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान् रोद॑सी अ॒न्तरि॑क्षम् ।
स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ।। ५९ ।।
उ० आग्नीध्रे अश्मानं पृश्निमुपदधाति विमान एष इति द्वाभ्यां त्रिष्टुब्भ्यामादित्यदेवत्याभ्याम् । य एष आदित्यो विमानो निर्माता भूतग्रामस्य दिवो मध्ये आस्ते द्युलोकस्य मध्ये आस्ते । आपप्रिवान् । 'प्रा पूरणे' । आपूरयन् रोदसी द्यावापृथिव्यौ अन्तरिक्षं च । स्वकीयेन प्रकाशेनापहृत्य | शार्वरं तमः । स विश्वाचीरभिचष्टे घृताचीरभिचष्टे । विश्वं हविरञ्चितमस्यामिति विश्वाची वेदिः । घृतमस्यामञ्चनमिति घृताची स्रुक् वेदीश्च स्रुचश्चाभिचष्टेऽभिपश्यति । यज्ञं कर्तुं नेतुं गृहीतुं पश्यतीत्यर्थः । अन्तरा पूर्वमपरं च केतुम् । । अन्तरा अन्तरेण । पूर्वमिमं लोकम् अपरं चामुं लोकम् । किंच । केतुम् चितं जनानाम् तच्च सर्वमभिचष्टेऽभिपश्यति । अथो यच्चेदमेतर्हि चीयते यच्चादः पूर्वमपि चीयते ॥ ५९ ॥
म० 'आग्नीध्रदेशाद्दक्षिणं पृष्ट्यासहितं पृश्न्यश्मानमुपदधाति विमान इति' ( का० १८ । ३ १९ )। अध्वर्युराग्नीध्रगृहाद्दक्षिणदिशि पृष्ट्यासंलग्नं पृश्निं तनुं वृत्तं चित्रवर्णं वा पाषाणं विमान इति ऋग्द्वयेनोपदध्यादित्यर्थः । विश्वावसुदृष्टा आदित्यदेवत्या त्रिष्टुप् । आदित्याध्यासेनाश्मा स्तूयते । एषोऽश्मादित्यरूपेण दिवोऽन्तरिक्षस्य मध्ये आस्ते तिष्ठति 'असौ वा आदित्योऽश्मा पृश्निरमुमेवैतदादित्यमुपदधाति' (९ । २ । | ३ । ३४ ) इति श्रुतेः । आहवनीयो द्युलोकः गार्हपत्यो भूलोकः तयोर्मध्ये आग्नीध्रमन्तरिक्षस्थानीयं तत्र स्थितत्वाद्दिवो मध्ये आस्ते । तथाच श्रुतिः ‘अन्तरेणाहवनीयं च गार्हपत्यं चोपदधात्ययं वै लोको गार्हपत्यो द्यौराहवनीय एतं तदिमौ लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण तपति' (९ । २ । ३ । १४ । १५) इति | ॥ १४ ॥ आग्नीध्रवेलायामन्तरिक्षं वा आग्नीध्रमेतं तदन्तरिक्षे दधातीति । कीदृश एषः । विमानः विविधं मिमीत इति विमानः जगन्निर्माणसमर्थः । तथा रोदसी द्यावापृथिव्यौ अन्तरिक्षमापप्रिवान् तेजसा सर्वतः पूरितवान् 'प्रा पूरणे' क्वसु प्रत्ययः । स तथा स्तूयमान आदित्यरूपोऽश्मा विश्वाचीः वेदीः घृताचीः स्रुचश्चाभिचष्टे पश्यति यज्ञकर्तॄननुगृहीतुं कर्म