पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनपञ्चाशी।
मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॒नानु॑वस्ताम् ।
उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वाऽनु॑ दे॒वा म॑दन्तु ।। ४९ ।।
उ० मर्माणि ते । लिङ्गोक्तदेवता त्रिष्टुप् । कवचं प्रयच्छति मर्माणि ते तव । वर्मणा कवचेन छादयामि । सोमश्च राजा त्वाम् अमृतेन अनुवस्ताम् आच्छादयतु । किंच उरोर्वरीयो वरुणस्ते कृणोतु पृथोरपि प्रथीयः वरुणः तव कवचं करोतु । किंच जयन्तं त्वाम् अनुमदन्तु उत्साहयन्तु देवाः ॥ ४९ ॥
म०. 'मर्माणि त इति कवचं प्रयच्छति' (का० १३ । ३ । १०)। महाव्रते यागेऽध्वर्युः क्षत्रियाय सन्नाहं परिधानाय प्रयच्छतीत्यर्थः । सोमवरुणदेवत्या त्रिष्टुप् । हे यजमान, ते तव मर्माणि जीवस्थानानि वर्मणा कवचेनाहं छादयामि आवृणोमि । राजा विप्रादीनामधिपः सोमोऽमृतेन नास्ति मृतं मरणं येन तेन मरणनिवारकेणानेन वर्मणा त्वा त्वामनुवस्तामन्वाच्छादयतु । 'वस आच्छादने' अदादिः लोट् । तथा वरुणः ते तव वर्म उरोः पृथोरपि वरीयः उरुतरं प्रथीयः कृणोतु । अत्यन्तमुरु वरीयः। ईयसुनि 'प्रस्थस्फ-(पा० ६। ४। १५७ ) इत्यादिना उरोर्वरादेशः । किंच देवाः जयन्तं विजयं प्राप्नुवन्तं त्वा त्वामनुमदन्तु अनुकूला भूत्वा हृष्यन्तु उत्साहयन्तु वा ॥ ४९ ॥

पञ्चाशी।
उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ सᳪसृ॑ज प्र॒जया॑ च ब॒हुं कृ॑धि ।। ५० ।।
उ० उदेनम् । समिधमादधाति तिसृभिरनुष्टुब्भिः । तत्र प्रथमाग्नेयी द्वितीयैन्द्री तृतीया लिङ्गोक्तदेवता । उदेनमुत्तरां नय । एनं यजमानम् उद्गततराम् हे अग्ने, घृतेन आहुतिसंबन्धेन आहुत अभिहुत । जुहोतेरेतद्रूपं नतु ह्वयतेः । रायस्पोषेण च धनस्य पुष्ट्या संसृज । प्रजया च बहुं पुत्रपौत्रसंकुलं कृधि कुरु ॥ ५० ॥
म०. 'आद्रौदुम्बरीर्घृतोषितास्तिस्र उदेनमित्यादधाति प्रत्यृचम्' (का० १८ । ३ । १४) । अशुष्का उदुम्बरतरूत्था रात्रौ घृते स्थिताः प्रादेशमात्रास्तिस्रः समिध ऋक्त्रयेण शालाद्वार्ये जुहोति ततोऽग्निप्रणयनमित्यर्थः । तिस्रोऽनुष्टुभः प्रथमाग्निदेवत्या द्वितीयेन्द्रदेवत्या तृतीया लिङ्गोक्तदेवता । हे घृतेनाहुत आज्येन सर्वतो हूयमान हे अग्ने, एनं यजमानमुत्तरां नय अतिशयेन उत् उत्तराम् तरबन्तादाम्प्रत्ययः । उत्कृष्टत्वमैश्वर्यं प्रापय । ऐश्वर्यमेवाह । रायस्पोषेण धनसमृद्ध्या संसृज संयोजय । प्रजया संतत्या पुत्रपौत्रादिकया च बहुं कृधि भूयांसं कुरु । बहुकुटुम्बं कुर्वित्यर्थः ॥ ५० ॥

एकपञ्चाशी।
इन्द्रे॒मं प्र॑त॒रां न॑य सजा॒ताना॑मसद्व॒शी । समे॑नं॒ वर्च॑सा सृज दे॒वानां॑ भाग॒दा अ॑सत् ।। ५१ ।।
उ०. इन्द्रेमम् हे इन्द्र, एनं यजमानम् प्रतरां नय । सजातानां च समानजन्मनां च । असत् भवतु । वशी कान्तः ईश्वरो वा । किंच समेनं वर्चसा सृज संसृज च एनं यजमानं । वर्चसा स्वेन स्वेन कर्मणा । वर्णानामुत्कर्षो वर्चः । देवानां च भागदाः असत् भवतु । यज्ञसमाप्तिं त्वत्प्रसादात्प्राप्नोत्वित्यर्थः ॥ ५१ ॥
म० हे इन्द्र परमैश्वर्ययुक्त, इमं यजमानं प्रतरां नय अतिप्रकर्षः प्रतराम् प्रकृष्टमैश्वर्यं प्रापय । तदेव दर्शयति । सजातानां समानजातीयानां वशी वशयतीति वशी नियमनसमर्थो असत् भवतु । किंच एनं यजमानं वर्चसा संसृज तेजस्विनं कुरु । अयं यजमानो देवानां भागदा असत् भागं ददाति भागदाः यज्ञेषु देवानां भागप्रदाता भवतु ॥५१॥

द्विपञ्चाशी।
यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रुवन्न॒यं च॒ ब्रह्म॑ण॒स्पति॑: ।। ५२ ।।
उ० यस्य कुर्मः। यस्य यजमानस्य कुर्मः गृहे हविः तं हे अग्ने, वर्धय त्वं प्रजया पशुभिश्च । तस्मै देवा अधिब्रुवन् । उपरिभावेन यत्प्रशस्तं कल्याणं तत् ब्रुवन्तु । अयं ब्रह्मणस्पतिरग्निः ॥ ५२ ।।
म० वयमृत्विजो यस्य यजमानस्य गृहे हविः कुर्मः पुरोडाशप्रधानं कर्म कुर्मः । हे अग्ने, तं यजमानं त्वं वर्धय । देवास्तस्मै तं यजमानमधिब्रुवन् अधिकं ब्रुवन्तु सर्वेभ्योऽधिकोऽयमिति । अयं यजमानश्च ब्रह्मणो वैदिककर्मणः पतिः पालको भवतु । यद्वा देवा अयं ब्रह्मणस्पतिरग्निश्च इममधिब्रुवन् तस्मै । द्वितीयार्थे चतुर्थी ॥ ५२ ॥

त्रिपञ्चाशी।
उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॑ भरन्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वस्त्वᳪ सु॒प्रती॑को वि॒भाव॑सुः ।। ५३ ।।

उ० अग्निमुद्यच्छति । उदुत्वेति व्याख्यातम् ॥ ५३ ॥
म० 'त्रिरुक्तायामुद्यम्योदुत्वेति' (का० १८।३ । १८)। होत्रा प्रथमायामृचि त्रिःपठितायां सत्यां प्रतिप्रस्थाता उदुत्वेति मन्त्रेण प्रदीप्तमिध्मं शालाद्वार्यादूर्ध्वमुत्पादयतीत्यर्थः । व्याख्याता (अ० १२ । क० ३१)॥ ५३ ॥

चतुःपञ्चाशी।
पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिं॒ दुर्म॑तिं॒ बाध॑मानाः ।
रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्थात् ।। ५४ ।।