पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चचत्वारिंशी।
अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सᳪशिते ।
गच्छा॒मित्रा॒न् प्र प॑द्यस्व॒ माऽमीषां॒ कं च॒नोच्छि॑षः ।। ४५ ।।
उ० पृथग्विनियोगमन्त्राः । अवसृष्टा इषुदेवत्यानुष्टुप् । परावसृष्टा निक्षिप्ता परापत परागच्छ । हे शरव्ये शरमयी इषुः शरव्या । हे ब्रह्मसंशिते ब्रह्मणाभिमन्त्रिते अभिमन्त्र्य अतितरां तीक्ष्णीकृते, गच्छ परापत । गच्छेत्यतिशयार्थं एकार्थयोराख्यातयोर्द्विवचनम् । अमित्रान्प्रपद्यस्व । माच अमीषाममित्राणां कंचन उच्छिषः उच्छेषय । उद्धृतमूलान्कुर्वित्यभिप्रायः ॥ ४५ ॥
म० इत ऋक्चतुष्टयस्य विनियोगः कात्यायनेनोक्तः । इयमिषुदेवत्यानुष्टुप् । हिंसिका शरमयी हेतिः शरव्या ब्रह्मणा मन्त्रेण संशिता तीक्ष्णीकृता ब्रह्मसंशिता तादृशि हे शरव्ये, त्वमवसृष्टास्माभिर्मुक्ता सती परापत सहसा परसैन्ये पतिता भव । पतित्वा चामित्रान् शत्रून् गच्छ प्राप्नुहि । प्राप्य च प्रपद्यस्व शत्रुशरीरेषु प्रविश । प्रविश्य चामीषां शत्रूणां मध्ये कंचन पुरुषं मा उच्छिषः अवशिष्टं मा कुरु । सर्वानपि जहीत्यर्थः । 'शिष्लृ विशेषणे' 'पुषादि-' (पा० ३ । १।५५) इत्यादिना च्लेरङ् ॥ ४५॥

षट्चत्वारिंशी।।
प्रेता॒ जय॑ता नर॒ इन्द्रो॑ व॒: शर्म॑ यच्छतु ।
उ॒ग्रा व॑: सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथाऽस॑थ ।। ४६ ।।
उ० प्रेत अनुष्टुप् । योद्धॄन्स्तौति । हे नरः मनुष्याः, प्रेत गच्छत जयत च । इन्द्रश्च वः शर्म शरणं परित्राणम् यच्छतु ददातु । उग्रा उद्गूर्णायुधाः वः युष्माकम् सन्तु बाहवः । अनाधृष्याः अप्रधृष्याः यथा यूयम् असथ भवथ तथा उग्रा वः सन्तु बाहव इत्यनुषङ्गः ॥ ४६॥
म० योद्धृदेवत्यानुष्टुप् योद्धॄन स्तौति । हे नरोऽस्मदीया योद्धारः, यूयं प्रेत परसैन्यं प्रति प्रकर्षेण गच्छत । ततो जयत विजयं प्राप्नुत । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति प्रेतेत्यत्र दीर्घः । 'अन्येषामपि दृश्यते' ( पा० ६ । ३ । १३७ ) इति जयतेत्यत्र दीर्घः । इन्द्रो वा युष्मभ्यं शर्म जयोत्थं सुखं यच्छतु ददातु 'दाण् दाने' 'पाघ्रा-' (पा० ७।३। ७८) इत्यादिना यच्छादेशः । किंच यथा यूयमनाधृष्या असथ केनाप्यतिरस्कार्या भवथ । तथा वो युष्माकं बाहवो भुजदण्डा उग्रा उद्गूर्णायुधाः सन्तु । असथेत्यत्र 'लेटोऽडाटौ' (पा० ३ । ३ । ९४ ) इत्यडागमः ॥ ४६ ॥

सप्तचत्वारिंशी।
असौ॒ या सेना॑ मरुत॒: परे॑षाम॒भ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना ।
तां गू॑हत॒ तम॒साऽप॑व्रतेन॒ यथा॒ऽमी अ॒न्यो अ॒न्यं न जा॒नन् ।। ४७ ।।
उ० असौ या। मारुती त्रिष्टुप् । असौ या सेना हे मरुतः, परेषां शत्रूणाम् अभि ऐति अभ्यागच्छति नः अस्मान्प्रति ओजसा बलेन स्पर्धमाना । तां सेनां गूहत व्याप्नुत । तमसा अपव्रतेन । व्रतमिति कर्मनाम । अपगतकर्मणा । येन तमसार्धव्याप्तानां नश्यन्ति कर्माणि तदपव्रतं तमः तेनापव्रतेन तमसा वा गूहत । यथामी अन्यो अन्यं न जानन् यथा अमी सैनिकाः अन्योन्यं परस्परं न जानीयुः ॥ ४७ ॥
म० मरुद्देवत्या त्रिष्टुप् । हे मरुतः, या प्रसिद्धा असौ परेषां शत्रूणां सेना नोऽस्मानभि आ एति अभ्यागच्छति । कीदृशी । ओजसा बलेन स्पर्धमाना स्पर्धां कुर्वाणा तां सेनां तमसा अन्धकारेण यूयं गूहत संवृतां कुरुत । तथा गूहत यथा अमी सैनिका अन्योन्यं न जानन् परस्परं न जानीयुस्तथा गूहत । कीदृशेन तमसा । अपव्रतेन अपगतं व्रतं कर्म यस्मात् तेन । येन व्याप्तानां कर्म नश्यति तादृशेन तमसा गूहतेत्यर्थः ॥४७॥

अष्टचत्वारिंशी।
यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
तन्न॒ इन्द्रो॒ बृह॒स्पति॒रदि॑ति॒: शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ।। ४८ ।।
उ० यत्र बाणाः । लिङ्गोक्तदेवता पङ्क्तिः । यत्र बाणा इषवः संपतन्ति अनिर्मर्यादम् । कथमिव । कुमारा विशिखा इव । यथा कुमारा अदृष्टपरिकारिणः विगतशिखाः सर्वमुण्डाः तं तमर्थं संनिपतेयुरेवं संपतन्ति तत्रेत्यर्थः । नः अस्माकम् इन्द्रः शर्म शरणम् यच्छतु ददातु । बृहस्पतिः शर्म यच्छतु । अदितिः शर्म यच्छतु । विश्वाहा सदाकालं च शर्म यच्छतु । इन्द्रः बृहस्पतिः अदितिः ॥ ४८ ॥
म० इन्द्रबृहस्पत्यदितिदेवत्या पङ्क्तिरष्टाक्षरपञ्चपादा । यत्र यस्मिन् युद्धे बाणाः शत्रुप्रयुक्ताः संपतन्ति इतश्चेतश्च संभूय पतन्ति । तत्र दृष्टान्तः । कुमारा विशिखा इव विगता शिखा येषां ते विशिखाः शिखारहिता मुण्डितमुण्डा विकीर्णकवचा वा अतिबालाश्चपलाः सन्तो यथा इतस्ततो गच्छन्ति तद्वत् । तत् तत्र युद्धे इन्द्रः नोऽस्मभ्यं शर्म विजयोत्थं सुखं यच्छतु ददातु । कीदृश इन्द्रः । बृहस्पतिः बृहतां मन्त्राणां पतिः पालकः विजयोचितमन्त्रज्ञः । अदितिः नास्ति दितिः खण्डनं यस्य अखण्डितशक्तिः । विश्वाहा विश्वान्सर्वान् शत्रून् आ समन्ताद्धन्तीति विश्वाहा । स शर्म यच्छतु इति पुनरुक्तिरादरार्था । यद्वा तत्र इन्द्रः बृहस्पतिरिन्द्रगुरुः अदितिरिन्द्रमाता च विश्वाहा सर्वाण्यहानि सर्वदा शर्म यच्छतु । विश्वानि च तान्यहानि च विश्वाहा विभक्तेराकारः । अत्यन्तसंयोगे द्वितीया ॥४८॥