पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कीदृश इन्द्रः । आशुः अश्नुते व्याप्नोति आशुः शीघ्रगामी उण्प्रत्ययः । शिशानः 'शो तनूकरणे' 'बहुलं छन्दसि' (पा० २। ४ । ७६) इति जुहोत्यादित्वाच्छानचि द्वित्वम् । श्यति वज्रं तीक्ष्णीकरोति शिशानः । वृषभो न वृषभ इव भीमः भयंकरः । घनाघनः शत्रूणामतिशयेन घातकः हन हनेति वक्ता वा वृष्टिकर्तृमेघरूपो वा । 'वर्षुकाब्दो घनाघनः' इत्यभिधानात् । चर्षणीनां मनुष्याणां क्षोभणः क्षोभयतीति क्षोभणः क्षोभहेतुः चातकः । संक्रन्दनः सम्यक् क्रन्दनं परभयहेतुर्ध्वनिर्यस्य । यद्वा समाह्वाता शत्रूणाम् । अनिमिषः नास्ति निमेषो यस्य सः देवत्वात् । यद्वा कदाचिदपि निमेषं न करोति । अत्यन्तसावधान इत्यर्थः । एकवीरः एकश्चासौ वीरश्च अन्यनिरपेक्षं शत्रूनेक एव जेतुं समर्थः ॥ ३३ ॥

चतुस्त्रिंशी।
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ।। ३४ ।।
उ० संक्रन्दनेन शब्दकारिणा अनिमिषेण एकचित्तेन अप्रमाद्यता वा । जिष्णुना जयनशीलेन । युत्कारेण 'युध संप्रहारे' अस्य क्विपि युत् । संप्रहारकारिणा दुश्च्यवनेन अप्रच्याव्येन अप्रच्युतस्वभावेन वा । धृष्णुना प्रसहनशीलेन । तदिन्द्रेण जयत । ईदृग्गुणविशिष्टेनेन्द्रेण तज्जयत । दुर्जयमिति शेषः । तच्च सहध्वम् तच्चाभिभवत । हे युधः, 'युध संप्रहारे' इत्यस्यैतत्क्विपि बहुवचनम् । हे योद्धारः । 'पादादावभिमन्त्रितस्य च' इत्यादिरुदात्तः । हे नरः मनुष्याः, इषुहस्तेनेन्द्रेण । वृष्णा सेक्त्रा वर्षणशीलेन वा ॥ ३४ ॥
म० युध्यन्ते ते युधः क्विप् पादादावामन्त्रितस्येति आद्युदात्तः । हे युधो नरो योद्धारो मनुष्याः, इन्द्रेण कृत्वा यूयं तत् परबलं जयत वशीकुरुत । वशीकृत्य च तत् सहध्वम् अभिभवत । विनाशयतेत्यर्थः । कीदृशेनेन्द्रेण । संक्रन्दनेन शब्दकारिणा । अनिमिषेण एकचित्तेन । जिष्णुना जयनशीलेन । युत्कारेण युधं करोतीति युत्कारस्तेन । कर्मण्यण् युद्धकारिणा । दुश्चयवनेन दुःखेन च्यावयितुं शक्यः दुश्चयवनस्तेन अजय्येन धृष्णुना प्रगल्भेन भीतिरहितेन इषुहस्तेन इषवो हस्ते यस्य तेन वारुणाद्यायुधोपेतेन । वृष्णा वर्षतीति वृषा तेन कामानां वर्षकेण ॥ ३४ ॥

पञ्चविंशी।
स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सᳪस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
स॒ᳪसृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्युग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ।। ३५ ।।
उ० स इषुहस्तैः स इन्द्रः इषुहस्तैः योद्धृभिः संसृजति स इषुहस्तानेव योद्धृन् । स निषङ्गिभिः । स एवेन्द्रो निषङ्गिभिः खड्गिभिः संसृजति निषङ्गिण एव योद्धृन् स्वान् । किंच । वशी कान्तः सर्वजनप्रियो वा स्वतन्त्रो वा निगृहीतादिषड्वर्गो वा ईश्वरो वा । स एवेन्द्रो युधः योद्धृन्स्वान् शत्रुगणेन संसृष्टा । किंच संसृष्टजित् संसृष्टाञ्जयति शत्रून् । सोमपाश्च बाहुशर्धी च बाहुबलः संयोगिबलनिरपेक्षः। शर्ध इति बलनाम । उग्रधन्वा उद्यतधनुः । प्रतिहिताभिरस्ता । शत्रुशरीरेषु प्रतिनिहिताभिरिषुभिः इन्द्रः अस्ता क्षेप्तेत्यनुमीयते । लघुसंप्रधानो लक्षपाती चेत्यभिप्रायः ॥ ३५ ॥
म० स इन्द्रोऽस्मानवत्विति शेषः । संस्रष्टा ‘ण्वुल्तृचौ-' (पा. ३ । १ । १३३) इति तृच्प्रत्ययः । युद्धाय संसर्गकर्ता । वशी वशयति रिपूनिति वशी। यद्वा कान्तः जनप्रियः स्वतन्त्रो वा निगृहीतारिषड्वर्गो वा ईश्वरो वा । गणेन रिपुसमूहेनापि सह युधः युध्यतेऽसौ युधः युद्धकर्ता 'इगुपधज्ञा' (पा० ३। १ । १३५) इति कप्रत्ययः । संसृष्टजित् संसृष्टान् युद्धाय सङ्गतान् रिपून् जयति संसृष्टजित् । सोमपाः । सोमं पिबतीति यजमानानां यागेषु सोमपानकर्ता । बाहुशर्धी बाह्वोः शर्धो बलमस्यास्तीति बाहुशर्धी बाहुबलोपेतः । संयोगिनिरपेक्ष इत्यर्थः । शर्ध इति बलनाम । उग्रधन्वा | उग्रमुत्कृष्टं धनुर्यस्य सः । 'धनुषश्च' (पा० ५। ४ । १३१) इत्यनङादेशः । प्रतिहिताभिरस्ता स्वेन धनुषा प्रेरिताभिरिषुभिरस्ता क्षेप्ता 'असु क्षेपणे' तृन् आद्युदात्तत्वात् अस्यतीत्येवंशीलः रिपुनाशयितेत्यर्थः । सशब्दावृत्तिः पादपूरणार्था ॥३५॥

षट्त्रिंशी।
बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हाऽमित्राँ॑२ अप॒बाध॑मानः ।
प्र॒भ॒ञ्जन्त्सेना॑: प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ।। ३६ ।।
उ० बृहस्पते । हे बृहस्पते, परिदीया। दीयतिर्गतिकर्मा । परियाहि रथेन । रक्षोहा रक्षसां हन्ता । अमित्रान् शत्रून् । अपबाधमानः । किंच प्रभञ्जन्प्रमर्दयन् सेनाः । प्रमृणो युधा जयन् । मृणातिर्हिँसार्थः । तस्य क्विपि द्वितीयाबहुवचनम् । प्रमृणः हिंसकान् युधा युद्धेन जयन् अस्माकम् एधि भव । अविता गोप्ता रथानाम् । बृहस्पतिरपीन्द्रस्य पुरोहित इतीन्द्रसंबन्धेनैव स्तूयते ॥ ३६ ॥
म० बृहस्पतिरिन्द्रः वाग्वै बृहती तस्या एष पतिः व्याकरणकर्तृत्वादिन्द्रस्य वाक्पतित्वमिन्द्रस्य पुरोहितत्वेन वा बृहस्पतिरेव स्तूयते । हे बृहस्पते, त्वं रथेन परिदीय सर्वतो गच्छ । दीयतिर्गत्यर्थः । गत्वा चास्माकं रथानामस्मदीयस्यन्दनानामविता रक्षक एधि भव । कीदृशस्त्वम् । रक्षोहा रक्षांसि हन्तीति रक्षोहा क्विप् रक्षसां हन्ता । अमित्रान् शत्रूनपबाधमानः पीडयन् । सेनाः परकीयाः प्रभञ्जन् प्रकर्षेण भग्नाः कुर्वन् । युधा युद्धेन प्रमृणो जयन् । मृणतिर्हिँसाकर्मा । तस्य क्विपि - द्वितीयाबहुवचनम् । प्रमृणो हिंसकान् जयन् पराभवन् ॥३६॥