पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

णात् युष्माकं च तस्य च पुरुषस्य । अन्यत् महत् अन्तरं बभूव । पुरुषो जनको यूयं जन्याः । पुरुषो भ्रामको यूयं भ्राम्याः । यदि तु ज्ञात्वात्मत्वेनोपास्यध्वं न संसृतिः स्यादित्यभिप्रायः । एवं प्रत्यक्षानुक्त्वा अथेदानीं परोक्षानभिनयेन दर्शयन्नाह । ये चैते । नीहारेण अविद्यया प्रावृता अवगुण्ठिताः । ये जल्प्या प्रावृताः । पक्षहेतुदृष्टान्तैरात्मज्ञानं जल्पिः । कुतार्किकाभिप्रायमेतत् । ये च असुतृपः असून्प्राणान्तर्पयन्ति असुतृपः अलंकरिष्णवः तैरपि सह महदेवान्तरं बभूव । ये उक्थशासः उक्थानां शंसितारः । उक्थानि च यज्ञे शस्यन्ते अतो यज्वानो गृह्यन्ते । ये यज्ञशीलास्ते पुरुषं प्रति विचरन्ति । ये तु पुरुषविदः ते पुरुष एव भवन्ति । नीहारप्रावृतास्तु नरकयायिनः ॥ ३१ ॥
म० इदानीमुपदिशति । यो विश्वकर्मा इमा इमानि भूतजातानि जजान उत्पादितवान् तं विश्वकर्माणं हे जीवाः, यूयं न विदाथ न जानीथ । 'लेटोऽडाटो' (पा० ३ । ४ । ९४) इत्याडागमः । ननु देवदत्तोऽहं यज्ञदत्तोऽहमिति वयमात्मानं जानीम इति चेत् न । न ह्यहंप्रत्ययगम्यं जैवं रूपं परमेश्वरतत्त्वं किंतु युष्माकमहंप्रत्ययगम्यानां जीवानामन्तरमभ्यन्तरं वास्तवस्वरूपमन्यत् अहंप्रत्ययादतिरिक्तं सर्वावदानं वेद्यमीश्वरतत्त्वं बभूव भवति विद्यते । जीवरूपवत्तदपि कुतो न विद्म इति चेत् भवन्त ईदृशाः चरन्ति प्रवर्तन्तेऽतो न जानीथ । कीदृशाः । नीहारेण प्रावृताः नीहारसदृशेनाज्ञानेनावृतत्वान्न जानीथ यथा नीहारो नात्यन्तमसन् दृष्टेरावरकत्वात् नाप्यत्यन्तं सन् काष्ठाश्मादिवद्रोधयितुमयोग्यत्वात् एवमज्ञानमपि नात्यन्तमसत् ईश्वरतत्त्वावरकत्वात् नापि सत् बोधमात्रनिवर्त्यत्वात् ईदृशेनानिर्वचनीयेनाज्ञानेन भवन्तः सर्वे जीवाः प्रावृताः। न केवलं नीहारेण जल्प्या च प्रावृताः । जल्पनं जल्पिस्तया देवोऽहं नरोऽहं ममेदं गृहं क्षेत्रमित्याद्यनृतजल्पनेन व्याप्ताश्च । किंच असुतृपः असुषु असून् वा तृप्यन्ति असुतृपः केनापि प्रकारेण प्राणान् भूत्वा तावतैव तृप्यन्ति नतु परमेश्वरतत्त्वं विचारयितुं प्रवर्तन्ते । न केवलमैहिकभोगेन तृप्तिः किंतु उक्थशासः परलोकभोगान् संपादयितुं यज्ञेषु उक्थानि शंसन्ति उक्थशासः शस्त्रस्तोतारः । शसेः क्विपि 'अनिदिताम्' (पा० ६ । ४ । २४) इति नलोपः । संहितायां दीर्घः । ऐहिकामुष्मिकभोगप्रवृत्तानामज्ञानमिथ्याज्ञानपराधीनानां भवतां नास्ति तत्त्वज्ञानमित्यर्थः ॥ ३१ ॥

द्वात्रिंशी।
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद् द्वि॒तीय॑: ।
तृ॒तीय॑: पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्य॒दधात् पुरु॒त्रा ।। ३२ ।।
उ० विश्वकर्मा हि विश्वकर्मा आदित्यान्तरः पुरुषः अजनिष्ट जातः । देवः दानादिगुणयुक्तः । आत् इत् निपातौ ।। अथानन्तरम् । गन्धर्वः गौर्वाचो धारयिता पृथिव्या वा धारयिता गन्धर्वोऽग्निः गानाद्वा गन्धर्वोऽग्निः । 'अथो आहुः गन्धर्वो अग्निरेवास्यै पृष्ठे सर्वकृत्स्नो मन्यमानोऽगायत् ।' इत्यादिश्रुतिः । अभवत् द्वितीयः सहायाय । तृतीयः पिता पालयिता जनयिता च ओषधीनाम् । पर्जन्यः अभवत् । सचोत्पन्नः सन् अपामाहुतिपरिणामभूतानाम् गर्भं विअदधात् धारयति पुरुत्रा बहूनां त्राता । यद्वा अपां गर्भं विदधाति पृथिव्यां बहुप्रकारम् ॥ ३२ ॥

म०. ब्रह्माण्डमध्यगतानामुत्पत्तिरुच्यते । ब्रह्माण्डमध्ये प्रथमं विश्वकर्मा देवतिर्यगादिजगद्भेदकर्ता सत्यलोकवासी चतुर्मुखो देवः अजनिष्ट आदित्यान्तरपुरुषरूपेण जातः । आत् इत् अनन्तरमेव तदपेक्षया द्वितीयो गन्धर्वः अभवत् उत्पन्नः। गां वाचं पृथिवीं वा धरति गन्धर्वोऽग्निः । गानाद्वा गन्धर्वः 'अथो एवाहुरग्निरेवास्यै पृथिव्यै पृष्ठे सर्वः कृत्स्नो मन्यमानोऽगायत्' इत्यादिश्रुतेः । पिता पालयिता ओषधीनां जनिता उत्पादकः पर्जन्यः । पूर्वोक्तद्वयापेक्षया तृतीयोऽभवत् । स पर्जन्य उत्पन्नः सन्नपामाहुतिपरिणामभूतानां गर्भं व्यदधात् धारयति करोति वा । कीदृशं गर्भं । पुरुत्रा पुरून् बहून् त्रायते रक्षति पुरुत्राः बहूनां रक्षकम् । विभक्तराकारः। बहुप्रकारं वा। वैश्वकर्मणहोमः समाप्तः ॥ ३२ ॥

त्रयस्त्रिंशी।
आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् ।
सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तᳪ सेना॑ अजयत् सा॒कमिन्द्र॑: ।। ३३ ।।
उ० आशुः शिशानः अनुवाकः । अप्रतिरथऋषिः । ऐन्द्रोऽप्रतिरथोऽपश्यत् । मर्माणि त इत्यन्तः । आदितो द्वादशैन्द्र्यस्त्रिष्टुभो ब्रह्मा दक्षिणतो जपति । आशुः शीघ्रः। शिशानः। 'शो तनूकरणे' । शिशानो वज्रम् । वृषभो न भीमः वृषभ इव भीमः भीमो बिभ्यत्यस्मादिति । घनाघनः हनहनेत्येव वक्ता । यद्वा घनशरीरः । क्षोभणश्चर्षणीनाम् संचालकः चर्षणीनां मनुष्याणाम् । संक्रन्दनः समाह्वाता संग्रामकारिणाम् । आहूय चानिमिषः अप्रमादी । यद्वा अनिमिषो देवः। एकवीरः एक एवासहायो विक्रान्तः । य ईदृग्गुणविशिष्टः सः स तं बह्व्यः सेनाः अजयत् जयति । साकं सहैव । इन्द्रः ॥ ३३ ॥
म० 'आहवनीये प्रणीयमानेऽप्रतिरथस्स द्वादश ब्रुवन्नग्नौ सर्वत्रैके' (का० ११ । १।९। १०)। अग्नौ चयने इध्ममादीप्याहवनीये चित्यां प्रति नीयमाने ब्रह्माप्रतिरथसूक्तस्य द्वादश ऋचो जपन् दक्षिणतोऽनुगच्छतीति सूत्रार्थः । अप्रतिरथदृष्टा इन्द्रदेवत्या द्वादश त्रिष्टुभः । इन्द्रः शतं सेनाः शतसंख्याकाः शत्रुसेनाः साकं सहैव एकप्रयत्नेनैवाजयत् जयति ।