पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कलिङ्गयुक्तावात्मानः सूर्ते सुष्ठुसमीरिते रजस्यन्तरिक्षलोके । निषत्ते निर्गतसत्ताके निरालम्बने । 'नसत्तनिषत्तानुत्त-' इत्यादिना निपातनम् । यत्र स्थिताः सन्तः ये भूतानि समकृण्वन् कृतवन्तः । इमानि ते आयजन्त । यजतिर्दानार्थः । आभिमुख्येन दत्तवन्तो द्रविणं धनमुदकलक्षणं जीवनाय । सम् अस्मै संगत्य अस्मै भूतग्रामाय । ऋषयः पूर्वे वसिष्ठप्रभृतयः। जरितारः स्तोतारः । नभूना नात्यन्तं बहुयुक्त्या कामवर्षित्वेनेत्यर्थः । ये वसिष्ठादयो भूतानि सृजन्ति त एवोदकदानेन जीवन्तीति समस्तार्थः ॥ २८ ॥
म० ते पूर्वे ऋषयो विश्वकर्मसृष्टा वसिष्ठाद्या अस्मै भूतग्रामाय द्रविणं धनं जललक्षणं समायजन्त सम्यक् आभिमुख्येन ददुः द्रविणं भोगजातं वा । यजतिर्दानार्थः । कथं दुदुः। न भूना न भूम्ना न बाहुल्येन । मलोपश्छान्दसः । किंतु युक्त्या कामवर्षित्वेनेत्यर्थः । कीदृशाः । जरितारः स्तोतारः । ते के । ये ऋषय इमानि भूतानि समकृण्वन् । स्वादेः करोतेर्लङ् । ये वसिष्ठादयस्तानि सृजन्ति त एव उदकदानेन जीवयन्तीत्यर्थः । कीदृशाः । असूर्ते असुभिः सप्तदशावयवैर्लिङ्गशरीरैरीरिता असूर्ताः । असुपूर्वस्य 'ईर गतौ' इत्यस्य छान्दस इडभावो निष्ठायाम् ईकारस्य पूर्वसवर्णदीर्घः जस एकारः । तथा रजसि अन्तरिक्षलोके निषत्ते निषत्ताः निषण्णाः स्थिताः जस एकारः । 'लोका रजांस्युच्यन्ते' (निरु० ४ । १९) इति यास्कः । कीदृशे रजसि । सूर्ते सुष्ठु ईरिते प्रेरिते विस्तीर्णे । सुपूर्वस्य ईरधातोर्निष्ठायां पूर्ववत् । 'नसत्तनिषत्त-' (पा० ८ । २।६१) इत्यादिना निपातः ॥ २८ ॥

एकोनत्रिंशी।
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ ।
किᳪस्वि॒द् गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ पूर्वे॑ ।। २९ ।।
उ० परो दिवा । प्रश्नप्रतिप्रश्नरूपा मन्त्राः । परब्रह्मविषयोऽत्र प्रश्नः विभक्तिव्यत्ययबहुलो मन्त्रः । परः सूक्ष्मः दिवा दिवः । परश्च एना अस्याः पृथिव्याः । परश्च देवेभ्यः परश्च असुरेभ्यः यदस्ति । यच्च सदाकालमस्ति तत्परं ब्रह्मेति शेषः । किᳪ स्वित् स्विच्छन्दो वितर्के । कं पुनर्गर्भं दध्रे धारितवत्य आपः । यत्र गर्भे देवाः संगताः प्रजापतिना अपश्यन्त दृष्टवन्तो जगदिदम् पूर्वे प्रथमजाः । तदुक्तम् 'आपो हवा इदमग्रे सलिलमेवास' इत्यादिना ॥ २९ ॥
म० प्रश्नोत्तररूपा मन्त्राः । ब्रह्मविषयप्रश्नः । विभक्तिव्यत्ययबाहुल्यमत्र मन्त्रे । यत् अस्ति हृदीति शेषः । यदीश्वरतत्त्वं हृत्पुण्डरीके अस्ति तत् दिवा परः द्युलोकादपि दूरे तिष्ठति दिवो दुर्ज्ञेयत्वात् । परस्शब्दः सान्तो दूरवाची । एना पृथिव्या अस्याः पृथिव्याः परः पृथिव्या अपि दूरे । देवेभिरसुरैः देवेभ्योऽसुरेभ्यश्च परो दूरे । दूरत्वं विलक्षणत्वम् । सर्वजगद्विलक्षणत्वाद्गुरुशास्त्रविमुखैर्न ज्ञायत इत्यर्थः । किंच स्विदिति वितर्के । आपः प्रथमं कं गर्भं दध्रे दधिरे अधारयन् । धाञो लिटि तङि प्रथमबहुवचनस्य 'लिटस्तझयोरे शिरेच्' इति (पा० ३ । ४ । ८१) इतीरेचि कृते तस्य 'इरयो रे' (पा० ६ । ४ । ७६) इति रे आदेशे तस्य स्थानिवत्त्वात् 'आतो लोप इटि च' (पा० ६ । ४ । ६४) | इत्यालोपे दध्रे इति रूपम् । पूर्वे देवाः प्रथमोत्पन्ना देवाः वसिष्ठादयो यत्र गर्भे समपश्यन्त ददृशुः जगदिति शेषः । यदा स्थूलोऽप्ययं जगदाधारो गर्भरूपो न ज्ञायते तदात्यन्तसूक्ष्मं तत्त्वं न ज्ञायत इति किमु वक्तव्यमिति भावः ॥ २९ ॥

त्रिंशी।
तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ ।
अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः ।। ३० ।।
उ० तमित् प्रतिप्रश्नः तमिद्गर्भम् । इच्छब्दो निपात आश्चर्यवचनः । तमाश्चर्यभूतं प्रथमं गर्भं दध्रे आपः । यत्र देवाः समगच्छन्त संगताः विश्वे सर्वे । नन्वस्याण्डस्याद्भिः सहितस्य क आधार इत्याशङ्क्याह । अजस्य न जायत इत्यजः। नाभौ मध्ये अधि उपरि । एकमविभक्तमनन्यभूतम् अर्पितं समर्पितम् । यस्मिन्नजे ब्रह्मणि । विश्वानि भुवनानि सर्वाणि भूतजातानि । तस्थुः स्थितवन्ति ब्रह्माण्डाश्रितानि । नतु तस्याप्यन्य आधार इति । स्वप्रतिष्ठं हि परब्रह्म ॥ ३०॥
म. प्रत्युत्तरमाह । आपः प्रथमं तमित् तमेव गर्भं दध्रे | दधिरे । यत्र कारणभूते गर्भे विश्वे सर्वे देवाः समगच्छन्त सङ्गताः संभूय वर्तन्ते । ननु तस्य गर्भस्य को वाधारस्तत्राह । | अजस्य जन्मरहितस्य परमेश्वरस्य नाभावधि नाभिस्थानीयस्य स्वरूपस्य मध्ये एकमविभक्तमनन्यभूतं किंचिद्बीजं गर्भरूपमर्पितं स्थापितं । यस्मिन् बीजे विश्वानि सर्वाणि भुवनानि भूतजातानि तस्थुः स्थितानि तद्बीजमर्पितम् । तथाच स्मृतिः 'अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सूर्यकोटिसमप्रभम्' ( मनु० १।८।९) इति । स एव सर्वाश्रयो न तु तस्याप्यन्य आश्रय इति भावः ॥ ३० ॥

एकत्रिंशी।
न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव ।
नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ।। ३१ ।।
उ० इदानीं विश्वकर्मा मनुष्याणामुपदेशं ददाति । न तं विदाथ न विदाथ न जानीथ तं परं पुरुषम् । य इमानि भूतजातानि जजान जनयति उपसंहरति च । अतः करा