पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तक्षतिः करोतिकर्मा । बहुवचनं पूजार्थम् । यस्मात् वृक्षात् द्यां च पृथिवीं च निष्कृष्य चकार । यदि हि वनं वृक्षो वा भवेत् तदा एवमप्याशङ्केत । तक्षाणो हि वृक्षाच्चमसादीन्निष्कर्षयन्ति अयं त्वात्मारम्भण ऊर्णनाभिवदित्यभिप्रायः । विस्मित ऋषिर्द्वितीयं प्रश्नं करोति । हे मनीषिणो मेधाविनः, मनसा पर्यालोच्य पृच्छत । इत् उ तत् एतदपीति पदत्रयस्यार्थः । यदत्र यद्यर्थः । यदि अध्यतिष्ठत् यत् भुवनानि भूतजातानि सह द्यावापृथिवीभ्यां धारयन् उपरिष्टादास्ते २०
म० पुनरपि प्रश्नः । स्विदिति वितर्के । तद्वनं किमास बभूव । उ अपिच स वृक्षः कः आस । यतो वनाद्वृक्षाच्च विश्वकर्मा द्यावापृथिवी निष्टतक्षुः निस्ततक्ष निस्तक्ष्यालंकृतवान् । वचनव्यत्ययः । नहि तादृशं वनं वृक्षो वा संभवति । लोके हि गृहादिनिर्माणमिच्छन् कस्मिंश्चिद्वने कंचिद्वृक्षं छित्त्वा तक्षणादिना स्तम्भादिकं करोति इह तन्नास्तीत्यर्थः । किंच हे मनीषिणः विद्वांसः, मनसा पर्यालोच्य तत् इत् उ तदपि यूयं पृच्छत । तत्किम् । भुवनानि धारयन् सन् विश्वकर्मा यदध्यतिष्ठत् यत् स्थानमधिष्ठितवान् तदपि पृच्छत । कुम्भकारादिर्गृहादिकमधिष्ठाय घटादि करोति तदधिष्ठानमपि पृच्छत ऊर्णनाभिवदयमात्मारम्भण इति भावः ॥२०॥

एकविंशी।
या ते॒ धामा॑नि पर॒माणि॒ याऽव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।
शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॒ वृधा॒नः ।। २१।।
उ० या ते यानि ते तव धामानि स्थानानि परमाणि उत्कृष्टानि । यावमा यानि चावमानि कनीयांसि । या मध्यमा यानि च मध्यमानि । हे विश्वकर्मन् , उतेमा अपिच इमानि यानि प्रत्यक्षत उपलभ्यन्ते तेभ्यो द्रव्यमुपादाय शिक्षा सखिभ्यो देहि । समानख्यानेभ्यो यजमानेभ्यः हविषि अभ्युद्यति हे स्वधावः अन्नवन् , क उपकार इति चेत् । नोत्सहे वक्तुमहं त्वां यज इति । को हि नाम मनुष्यस्त्वां यष्टुं समर्थोऽत एवं ब्रवीमि । स्वयं यजस्व तन्वं शरीरं वावृधानः वर्धयमानः ॥ २१ ॥
म० हे विश्वकर्मन्, हे स्वधावः, स्वधान्नमस्यास्तीति स्वधावान् तत्संबुद्धौ हे स्वधावः, 'मतुवसो रुः संबुद्धौ छन्दसि' (८।३।१) इति रुः । हे हविर्लक्षणान्नवन् , ते तव यानि परमाणि उत्कृष्टानि धामानि, या यानि अवमा अवमानि कनीयांसि धामानि, उतापि च या यानि मध्यमा धामानि इमा इमानि पूर्वोक्तानि त्रिविधानि धामानि सखिभ्यो यजमानेभ्यः शिक्ष देहि । 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां शिक्षपदस्य दीर्घः । क उपकार इति चेत् हविषि यजमानसंबन्धिन्युपस्थिते सति तन्वं स्वशरीरं वृधानः वर्धयन् सन् स्वयं यजस्व । वयं यजाम इति कथं वक्तुं शक्यम् । मनुष्यः कस्त्वां यष्टुं समर्थोऽत एवं ब्रवीमि स्वयं यजस्व । वर्धतेः शानचि व्यत्ययेन शपो लुक् । वृधानः तन्वमित्यत्र ‘वा छन्दसि' (पा० ६ । १ । १०६) इति पूर्वरूपाभावे यणादेशः ॥२१॥

द्वाविंशी।
विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।
मुह्य॑न्त्व॒न्ये अ॒भित॑: स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ।। २२ ।।
उ० विश्वकर्मन् हे विश्वकर्मन् , मदीयेन हविषा वावृधानः वर्धयमानः उपसंजातहर्षः सन् मदीये यज्ञे । स्वयमेव यजस्व मदनुग्रहाय पृथिवीम् । पृथिव्याश्रयाणि भूतानि । उत द्याम् अपिच द्युलोकाश्रयाणि भूतानि । किंच त्वत्प्रसादादिनास्माकं मुह्यन्तु मोहमुपगच्छन्तु । अन्ये अभितः अवस्थिताः सन्तः सपत्नाः परिपन्थिनः । किं त्वत्प्रसादादेव इह अस्माकं मघवा धनवानिन्द्रः । सूरिः पण्डितः अस्तु । आत्मज्ञानोपदेशकः ॥ २२॥
म० हे विश्वकर्मन् , हविषा मद्दत्तेन वावृधानः वर्धमानो जातहर्षः सन् मम यज्ञे पृथिवीं पृथिव्याश्रितानि भूतानि उतापि च द्यां द्युलोकाश्रितानि भूतानि स्वयं यजस्व मदनुग्रहाय । किंच त्वत्प्रसादादन्येऽभितः स्थिताः सपत्नाः शत्रवो मुह्यन्तु मोहं प्राप्नुवन्तु । किंच इह यज्ञे मघवा इन्द्रोऽस्माकं सूरिः पण्डित आत्मज्ञानोपदेशकोऽस्तु ॥ २२ ॥

त्रयोविंशी।
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।। २३ ।।
उ० वाचस्पतिम् व्याख्यातम् ॥ २३ ॥
म०. द्वे ऋचौ व्याख्याते (अध्या० ८ क० ४५ । ४६) ॥ २३ ॥ २४ ॥

चतुर्विंशी।
विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् ।
तस्मै॒ विश॒: सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथाऽस॑त् ।। २४ ।।
उ० विश्वकर्मन्हविषेत्यपि व्याख्यातम् ॥ २४ ॥

पञ्चविंशी।।
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नम्न॑माने ।
य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद् द्यावा॑पृथि॒वी अ॑प्रथेताम् ।। २५ ।।