पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रजाः संहरन्तं सृजन्तं विश्वकर्माणं पश्यन्नृषिः कथयति । यो विश्वकर्मा इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि जुह्वत् संहरन्सन् न्यसीदत् निषण्णः स्वयं स्थितवान् । कीदृशः । ऋषिः अतीन्द्रियद्रष्टा सर्वज्ञः । होता संहाररूपस्य होमस्य कर्ता । नोऽस्माकं प्राणिनां पिता जनकः । प्रलयकाले सर्वलोकान् संहृत्य यः परमेश्वरः स्वयमेक एवासीदित्यर्थः । तथा चोपनिषदः 'आत्मा वा इदमेक एवासीदित्यर्थः। तथा चोपनिषदः आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' इत्याद्याः । स तादृशः परमेश्वरः आशिषाभिलाषेण 'बहुः स्यां प्रजायेय' इत्येवंरूपेण पुनःसिसृक्षारूपेण द्रविणमिच्छमानः जगद्रूपं धनमपेक्षमाणः अवरानभिव्यक्तोपाधीनाविवेश जीवरूपेण प्रविष्टः । कीदृशः । प्रथमच्छत् प्रथममेकमद्वितीयं स्वरूपं छादयतीति प्रथमच्छत् । छादयतेः क्विपि ह्रस्वः । उत्कृष्टं रूपमावृण्वन्सन् प्रविष्टः । इच्छमान इतीषेरात्मनेपदमार्षम् । ‘सोऽकामयत बहुःस्यां प्रजायेय स तपोऽतप्यत स तपस्तप्त्वा इदᳪ सर्वमसृजत यदिदं किंच तत्सृष्ट्वा तदेवानुप्राविशत्' इत्यादिश्रुतेः ॥ १७ ॥

अष्टादशी।
किᳪ स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थाऽऽसी॑त् ।
यतो॒ भूमिं॑ ज॒नय॑न् वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ।। १८ ।।
उ० एवं विश्वकर्माद्वैतमुक्त्वा अथेदानीं यथा जगत्सृजति तत्प्रश्नप्रतिप्रश्नाभ्यामाह । किᳪस्वित् । स्वित् वितर्के। किं पुनरासीत् अधिष्ठानम् । अधितिष्ठन्त्यस्मिन्नित्यधिष्ठानमधिकरणं विश्वकर्मणा द्यावापृथिव्यौ सृष्टे । अधिष्ठानरहिता इदानीं जनाः कर्तारो न किंचिदपि कुर्वाणा दृश्यन्ते । आरम्भणं कतमत्स्वित् आरभ्यते अस्मात् इत्यारम्भणं प्रकृतिद्रव्यम् मृद्द्रव्यमिव घटादीनां कथमासीत् । कथासीत् कथंभूता च तत्र क्रिया आसीत् । चक्रसूत्रसलिलादिभिर्हि घटादयो निष्पाद्यन्ते । यतो भूमिं जनयन्विश्वकर्मा यतो यदेत्यर्थः । यथा भूमिं द्यां च जनयन् विश्वकर्मा विद्यामौर्णोत् । 'ऊर्गुञ् आच्छादने' आच्छादितवान् । द्यां पृथिवीं चेत्यध्याहारः । महिना महाभाग्येन ऐश्वर्येण । विश्वचक्षाः सर्वतोदर्शनः अतीतानागतवर्तमानकालानां युगपत् ज्ञाता ॥ १८॥
म० अथेश्वरो यथा जगत्सृजति तत्प्रश्नोत्तराभ्यामाह । लोके हि घटादिचिकीर्षुः कुलालो गृहादिकं स्थानमधिष्ठाय मृद्रूपेणारम्भकद्रव्येण च चक्राद्युपकरणैर्घटादि निष्पादयति ईश्वरस्य तदाक्षिप्यते । स्विदिति वितर्के । द्यावाभूमी सृजतो विश्वकर्मणोऽधिष्ठानं किमासीत् । अधितिष्ठत्यस्मिन्नित्यधिष्ठानं निवासस्थानम् । अद्यतना निरधिष्ठानाः किमपि न कुर्वन्ति । स्विदिति वितर्के । आरम्भणं कतमत् किमासीत् । आरभ्यतेऽनेनेत्यारम्भणमुपादानकारणं मृदिव घटानाम् । कथा क्रिया च किंप्रकारासीत् निमित्तकारणमपि किमासीदित्यर्थः । 'था हेतौ च छन्दसि' (पा० ५। ३ । २६) इति किमः थाप्रत्ययः । दण्डचक्रसलिलसूत्रादिभिर्घटादयो निष्पद्यन्ते तत्स्थानीयं किमासीत् । यतो यस्मिन् काले विश्वकर्मा भूमिं द्यां स्वर्गं च जनयन् सन् महिना महिम्ना स्वसामर्थ्येन वि और्णोत् सृष्टे द्यावापृथिवी आच्छादितवान् । 'ऊर्णुञ् आच्छादने' लङ् उपसर्गव्यवधानमार्षम् 'व्यवहिताश्च' (पा. १।४ । ८२) इति वचनात् । कीदृशः। विश्वचक्षाः विश्वं चष्टे स विश्वचक्षाः सर्वद्रष्टा अतीतानागतवर्तमानकालानां युगपद्द्रष्टा अनन्यशक्तिरित्यर्थः ॥ १८॥

एकोनविंशी।
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न् दे॒व एक॑: ।। १९ ।।
उ०. अत्रोत्तरं ददाति । विश्वतश्चक्षुः सर्वतश्चक्षुः । उत विश्वतोमुखः अपिच सर्वतोमुखः । विश्वतोबाहुः | उत विश्वतस्पात् अपिच सर्वतः पादः । संधमति बाहुभ्याम् । धमतिर्गत्यर्थः । संगमयति बाहुभ्यां संगच्छेत् वा । संपतत्रैः संगच्छते पतत्रैः पद्भिः । ऐश्वर्ययोगाद्बहवोऽपि पादाः संभवन्ति । द्यावाभूमी जनयन्देव एक अद्वितीयः ॥ १९॥
म० उत्तरमाह । एकोऽसहायो देवः विश्वकर्मा द्यावाभूमी जनयन्सन् बाहुभ्यां बाहुस्थानीयाभ्यां धर्माधर्माभ्यां संधमति । धमतिर्गत्यर्थः । संगच्छते संयोगं प्राप्नोति पतत्रैः पतनशीलैः अनित्यैः पञ्चभूतैश्च संगच्छते धर्माधर्मरूपैर्निमित्तैः पञ्चभूतरूपैरुपादानैश्च । साधनान्तरं विनैव सर्वं सृजतीत्यर्थः । यद्वा धर्माधर्माभ्यां भूतैश्च संधमति संगमयति जीवान् । णिजन्तत्वं ज्ञेयम् । कीदृशः । विश्वतश्चक्षुः विश्वतः सर्वतश्चक्षूंषि यस्य सः । विश्वतोमुखः विश्वतो मुखानि यस्य । विश्वतोबाहुः विश्वतो बाहवो भुजा यस्य । उतापि च विश्वतः पादा यस्य सः। ‘पादस्य लोपोऽहस्त्यादिभ्यः' (पा० ५। ४ । १३८ ) इति पादस्यान्त्यलोपः । परमेश्वरस्य सर्वप्राण्यात्मकवाद्यस्य यस्य प्राणिनो ये चक्षुरादयस्ते तदुपाधिकस्य परमेश्वरस्यैवेति सर्वत्र चक्षुरादयः संपद्यन्त इत्यर्थः ॥ १९॥

विंशी।
किᳪस्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ।। २० ।।
उ० किᳪ स्वित् । अयमपि मन्त्रः प्रश्नरूपेण । किं पुनस्तद्वनं कश्च स वृक्षः आस अभूत् । यतः द्यावापृथिवी निः ततक्षुः।