पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० ये देवा देवेषु अधि उपरि अधिष्ठातृत्वेन । देवत्वं देवभावम् उपायन् उपगताः । ये ब्रह्मणः पुरएतारो अस्य ये च ब्रह्मणः 'अयमग्निर्ब्रह्म तस्यैते पुरएतारः' इति श्रुतिः । प्राणा हि प्राणिनः पुरएतार एव । येभ्यश्च प्राणेभ्यः नऋते वियोगे। पवते वर्तते । धाम स्थानं जन्म वा । किंचन न किंचिदपीत्यभिप्रायः । य इत्थंभूताः प्राणा देवाः क्व पुनस्त आसते । न ते दिवः द्युलोकस्याश्रयणीयेषु प्रदेशेषु । नच पृथिव्या आश्रयणीयेषु प्रदेशेषूपलभ्यन्ते । अधिस्नुषु 'स्नु प्रक्षरणे' । प्रस्रावीणि स्रोतांसि चक्षुरादीनि प्राणायतनानि तेषूपलभ्यन्ते । स हि तेषां विशिष्टः प्रदेशः ॥ १४ ॥
म० ये देवाः प्राणा देवेष्विन्द्रादिषु अधिष्ठातृत्वेन देवत्वमायन् प्राप्ताः इन्द्रादीनामपि प्राणा देवाः । ये अस्य ब्रह्मणः जीवस्य पुरएतारः पुरोऽग्रे यन्तीति पुरएतारः 'इण् गतौ' इत्यस्मात् ‘ण्वुल्तृचौ' (पा. ३ । १ । १३३ ) इति तृच्प्रत्ययः । 'प्राणा हि प्राणिनां पुरःसराः अयमग्निर्ब्रह्म तस्मै ते पुरएतारः' ( ९ । २ । १५) इति श्रुतेः । प्राणैर्विना चीयमानोऽग्निर्निर्वोढुं न शक्यते । किंच येभ्य ऋते यान् प्राणान् विना किंचन धाम किमपि शरीरं न पवते 'पवङ् गतौ' न चेष्टते । इत्थंभूता ये प्राणा देवास्ते पुनः क्वासते तत्राह । न त इति । ते प्राणरूपा देवाः न दिवः । षष्ठ्यौ सप्तम्यर्थे । दिवि स्वर्गे न सन्ति । पृथिव्याः पृथिव्यां भूमावपि न नैव । 'ते दिवि न पृथिव्यां यदेव प्राणभृत्तस्मिंस्ते' (९ । २ । १।१।१५) इति श्रुतेः । यद्वा दिवः प्रदेशेषु न पृथिव्याः प्रदेशेषु न किं तर्हि स्नुषु अधि 'स्नु प्रक्षरणे' नुवन्ति क्षरन्ति स्नूनि स्रोतांसि चक्षुरादीनि प्राणायतनानि तेषु अधिश्रित्य वर्तन्ते तेषूपलभ्यन्ते तेषां स विशिष्टः प्रदेशः ॥ १४ ॥

पञ्चदशी।
प्रा॒ण॒दा अ॑पान॒दा व्या॑न॒दा व॑र्चो॒दा व॑रिवो॒दाः ।
अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व ।। १५ ।।
उ० अवरोहति । प्राणदाः आग्नेयी बृहती पङ्क्तिर्वा । यस्त्वं प्राणदाः अपानदाः व्यानदा वर्चोदाः अन्नस्य दातासि। वरिवोदाः वरिवो धनं तस्य दातासि तं त्वां ब्रवीमि । अन्यांस्ते अस्मदिति व्याख्यातम् ॥ १५ ॥
म० 'प्राणदा इत्यवरोहति' ( का० १८ । ३ । ८) । प्रोक्षणानन्तरमग्नेरवतरतीत्यर्थः । अग्निदेवत्या बृहती पतिर्वा ; अष्टत्रिंशदक्षरत्वाद्विकल्पः । हे अग्ने, ते तव हेतयो ज्वाला अस्मदन्यान् तपन्तु । त्वं चास्माकं पावकः शिवश्च भव । कीदृशस्त्वं । प्राणदाः प्राणान् यजमानाय ददातीति प्राणदाः । अपानं ददातीत्यपानदाः । व्यानं सर्वशरीरसंचारिवायुं ददातीति व्यानदाः । वर्चो बलं ददातीति वर्चोदाः । वरिवो धनं ददातीति वरिवोदाः ॥ १५॥

षोडशी।
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्यत्रिण॑म् । अ॒ग्निर्नो॑ वनते र॒यिम् ।। १६ ।।
उ० पञ्चगृहीतं जुहोति । अग्निस्तिग्मेन । आग्नेयी गायत्री । अग्निः तिग्मेन । तिग्मं तेजतेरुत्साहकर्मणः । | उत्साहवता शोचिषा दीप्त्या यासत् । 'यस उपक्षये' उप क्षयति । विश्वं सर्वं न्यत्रिणम् नितरामत्रिणमत्तारं खादकम् उपद्रवकारिणम् । अग्निश्च नः अस्मभ्यं वनते । वनतिर्दानार्थः । ददाति रयिं धनम् ॥ १६ ॥ ।
म० 'पञ्चगृहीतं जुहोत्यग्निस्तिग्मेनेत्यृचा' ( का० १८ । ३ । १२ )। शालायामागत्य पञ्चगृहीतमाज्यं शालाद्वार्येऽग्नौ जुहोति । आग्नेयी गायत्री भरद्वाजदृष्टा । अग्निः विश्वं सर्वमत्त्रिणं राक्षसं नियासत् नितरां क्षीणं करोतु 'यास उपक्षये' लेट् 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७ ) इतीकारलोपः । अत्र अदनं भक्षणमस्यास्तीत्यत्त्री भक्षकस्तम् । केन तिग्मेन शोचिषा तीक्ष्णेन तेजसा 'तिग्मं तेजतेरुत्साहकर्मणः' ! ( निरु० १० । ६ ) इति यास्कः । किंच अग्निर्नोऽस्मभ्यं रयिं धनं वनते ददातु । वनतिर्दानार्थः ॥ १६ ॥

सप्तदशी।
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत् पि॒ता न॑: ।
स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒२ आ वि॑वेश ।। १७ ।।
उ० षोडशगृहीतं जुहोति । य इमा विश्वा । पञ्चदशभिर्वैश्वकर्मणीभिस्त्रिष्टुब्भिः । कल्पान्तरीणं यजमानं ज्ञानकर्मसमुच्चयकारिणं विश्वकर्मभावमात्मत्वेनोपासकं तदुपासकत्वेनैवापक्षपितकल्मषं कल्पादावभिव्यज्यमानं धर्मज्ञानवैराग्यैश्वर्ययुक्तं सुप्तप्रतिबुद्धन्यायेनापरोक्षज्ञानमात्मत्वेनापगतः प्रजासृजमानमृषिः पश्यन्नाचष्टे य इमा विश्वा भुवनानि जुह्वदिति । यः इमानि विश्वानि भुवनानि भूतजातानि । आत्मनि जुह्वत् आत्मत्वेन पश्यन् । ऋषिः साक्षात्कृतधर्मा । होता आह्वाता देवानां कल्पादौ न्यसीदत् निषण्णः । पिता पाता नः अस्मत्प्रभृतीनाम् । स एव ऋषिर्मनुष्यादिभावमुपगतः सन् । यज्ञसंबन्धिन्या आशिषा द्रविणं यज्ञफलम् इच्छमानः । प्रथमच्छत् प्रथमच्छादकः । प्रथमो मूर्तशरीरग्राही अवरान् द्विपदचतुष्पदस्थावरादीन् । आविवेश आविष्टो विपरिणामतः ॥ १७ ॥
म० 'षोडशगृहीतार्धमनुवाकशेषेण' ( का० १८ । ३ । १२ ) । पञ्चगृहीतहोमानन्तरं षोडशगृहीतमाज्यं जुह्वां कृत्वा तस्यार्धमनुवाकशेषेण शालाद्वार्ये एव जुहोति । अनुवाकशेषश्च य इमा विश्वेत्यारभ्य विहव्यो यथासदित्यन्तोऽष्टर्च इत्यर्थः । भुवनपुत्र विश्वकर्मदृष्टा विश्वकर्मदेवत्याः षोडश त्रिष्टुभः ।