पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृष्यतीति ततृषाणः 'ञितृषा पिपासायाम्' 'बहुलं छन्दसि' (पा० २ । ४ । ७६ ) इति ह्वादित्वाच्छानचि श्लुद्वित्वे पूर्णाहुतिं पिपासुः । अजरः जरारहितः । य ईदृशोऽग्निस्तं कृषाम इत्यर्थः ॥ १० ॥

एकादशी।
नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ ।
अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व ।। ११ ।।
उ० नमस्ते । चित्यारोहिणी बृहत्याग्नेयी । नमः तव हरसे च शोचिषे च । नमः ते अस्तु अर्चिषे च । हरतेर्हरः। शोचते शोचिः । अन्यांस्त इति व्याख्यातम् ॥ ११ ॥
म. 'उभयमादाय चित्यारोहणं नमस्त इति' ( का. १८।३ । ५)। हिरण्यशकलसहितं स्रुक्स्थमाज्यं दधिमधुघृतकुशमुष्टियुता पात्री एतद्द्वयमादायाध्वर्युश्चित्याग्निमारोहति । ब्रह्मयजमानौ तु अग्नेर्दक्षिणत उपविशत इत्यर्थः । आग्नेयी बृहती लोपामुद्रादृष्टा । हे अग्ने, ते तव शोचिषे शोचनहेतवे तेजसे नमोऽस्तु । कीदृशाय शोचिषे । हरसे हरति सर्वरसानिति हरः तस्मै । हरतेरसुन्प्रत्ययः । ते तव अर्चिषे पदार्थप्रकाशकाय तेजसे नमोस्तु । अन्यदुक्तम् ॥ ११ ॥

द्वादशी।
नृ॒षदे॒ वेड॑प्सु॒षदे॒ वेड् ब॑र्हि॒षदे॒ वेड् व॑न॒सदे॒ वेट् स्व॒र्विदे॒ वेट् ।। १२ ।।
उ० स्वयमातृण्णाया जुहोति पञ्चभिर्यजुर्भिराग्नेयैः ।। नृषदे वेट् । नृषु मनुष्येषु सीदतीति नृषत् तस्मै नृषदे। वेडिति परोक्षं वषट्कारः । अप्सु उदके सीदतीत्यप्सुषत् तस्मै अप्सुषदे । बर्हिषदे। 'ओषधयो वै बर्हिः' । वनसदे वनं वृक्षसमूहः । स्वर्विदे । स्वःशब्दोऽव्ययमिहादित्यवचनः । विद्यतेरत्र ग्रहणं सीदतिनार्थसंनिकर्षात् । स्वरादित्ये विद्यते योऽग्निः तस्मै स्वर्विदे ॥ १२ ॥
म०. 'स्वयमातृण्णायां पञ्चगृहीतं जुहोति नाभिवद्धिरण्यादर्शनं च नृषदेवेडिति प्रतिमन्त्रम्' ( का० १८ । ३ । ६।)। आरुह्य स्वयमातृण्णायां पञ्चगृहीतं जुहोति पञ्चमन्त्रैः नाभिवदिति दक्षिणांसश्रोणिद्वयोत्तरांसमध्येषु तत्र हिरण्यं पश्यन्निस्यस्ति तदत्र नेत्यर्थः । पञ्चाग्नेयानि यजूंषि दैवी बृहती दैव्यः पङ्क्तयः अन्त्या दैवी बृहती । नृषु मनुष्येषु जठराग्निरूपेण तिष्ठतीति नृषत् प्राणस्तस्मै वेट् हविर्दत्तम् । वेट्शब्दः स्वाहाकारार्थः । 'प्रत्यक्षं वै तद्यत् स्वाहाकारः प्रत्यक्षᳪ सोत्तरवेदिर्वेट्कारेणेमां परोक्षं वै तद्यद्वेट्कारः' (९।२। १ । ७) इति श्रुतेः । तथा नृषदे वेडिति । 'प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं मनुष्येषु प्राणोऽग्निस्तमेतत्प्रीणाति' (९ । २ । १ । ८) इति । अप्सु उदकेषु और्वरूपेण सीदतीत्यप्सुषत् । 'योऽप्स्वग्निस्तमेतत्प्रीणाति' (८) इति श्रुतेः । बर्हिषि यज्ञे आहवनीयादिरूपेण सीदतीति बर्हिषत् , बर्हिःषु ओषधीषु तिष्ठतीति वा तस्मै वेडस्तु । 'बर्हिषदे वेडिति य ओषधीष्वग्निस्तमेतत् प्रीणाति' (८) इति श्रुतेः । वनं वृक्षसमूहस्तत्र दावाग्निरूपेण सीदतीति वनसत्तस्मै वेट् । 'वनसदे वेडिति यो वनस्पतिष्वग्निस्तमे०' (८) स्वः स्वर्गे आदित्यरूपेण विद्यते स्वर्वित् विद्यतिः सीदत्यर्थः । यद्वा स्वरादित्यं विन्दते स्वर्वित्तस्मै वषडस्तु ॥ १२ ॥

त्रयोदशी।
ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाᳪ संवत्स॒रीण॒मुप॑ भा॒गमास॑ते ।
अ॑हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्त्स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑ ।। १३ ।।
उ० दधिमधुघृतेनाग्निं प्रोक्षति । द्वाभ्यां दैवीभ्यां जगतीभ्याम् । ये देवाः प्राणाः देवानामुत्कृष्टाः । यज्ञिया यज्ञियानाम् यज्ञार्हाः यज्ञियानाम् । अतिशयार्थं पुनर्वचनम् । संवत्सरीणम् संवत्सरेण प्राप्यत इति संवत्सरीणो भागः । संवत्सरं हि भृत्त्वाग्निश्चीयते । उप भागमासते उपासते भागम् । अहुतादः अन्ये देवा अग्निप्राप्तामाहुतिमदन्ति प्राणास्तु साक्षादन्नमदन्ति । हविषः स्वमंशम् यज्ञे अस्मिन्स्वयं पिबन्तु । मधुनो घृतस्य दध्नश्चेति शेषः ॥ १३ ॥
म० 'समासिक्तान् कुशैः प्रोक्षति सपरिश्रित्कं बाह्येन च ये देवा इति' (का० १८ । ३ । ७)। पात्र्यां सिक्तान् दधिमधुघृतान् कुशैः परिश्रित्सहितं सपक्षपुच्छमग्निं मध्ये बहिश्च प्रोक्षति ऋग्द्वयेनेत्यर्थः । जगत्यौ प्राणदेवत्ये । ते प्राणरूपा देवाः, अस्मिन् यज्ञे चयनलक्षणे मधुनो घृतस्य अर्थाद्दध्नश्च हविषो मधुघृतदधिरूपस्य हविषो भागं स्वयं पिबन्तु । स्वाहाकारसमर्पणेन विना स्वयमेव स्वीकुर्वन्त्वित्यर्थः । कीदृशास्ते । अहुतादः अहुतमदन्ति ते अहुतादः । अन्ये देवा अग्निहुतामाहुतिमदन्ति प्राणास्तु साक्षादन्नमदन्ति अत एवाहुतादः । ते के । संवत्सरीणं भागमुपासते संवत्सरेण निर्वृत्तः संवत्सरीणः 'संपरिपूर्वात् ख च' ( पा० ५। १ । ९२ ) इति संपूर्वाद्वत्सरान्निवृत्तार्थे खप्रत्ययः । संवत्सरं हि भूत्वाग्निश्चीयते इत्यभिप्रायः । कीदृशाः । यज्ञियानां यज्ञार्हाणां देवानां मध्ये यज्ञियाः यज्ञयोग्याः देवाः दीप्यमानाः । द्विविधा देवाः हविर्भुज इन्द्रवरुणादयः शरीरनिर्वाहकाः प्राणापानादयश्च । दीव्यन्तीति व्युत्पत्त्या उभयेऽप्येते यज्ञियाः तत्रेन्द्रादयो यज्ञे पूज्यवाद् यज्ञियाः प्राणादयस्तु यज्ञेन पूजकत्वाद्यज्ञियाः ॥१३॥

चतुर्दशी।
ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न् ये ब्रह्म॑णः पुर ए॒तारो॑ अ॒स्य ।
येभ्यो॒ न ऋ॒ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ।। १४ ।।