पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमी।
अ॒पामि॒दं न्यय॑नᳪ समु॒द्रस्य॑ नि॒वेश॑नम् ।
अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व ।। ७ ।।
उ० अपामिदम् । बृहती । अपाम् इदम् । न्ययनम् नितरामयनम् । यदेतन्मण्डूक्यवकावेतसशाखालक्षणम् समुद्रस्य उदकनिधेः निवेशनम् निविशन्ते अस्मिन्निति निवेशनम् । यतएवम् अतो ब्रवीमि अन्यान्पुरुषान् ते तव अस्मत्तः । तपन्तु दहन्तु । हेतयः अस्त्राणि अचींषि । त्वं च पावकः पावयिता स नः अस्मभ्यं शिवो भव ॥ ७ ॥
म० उत्तरांसाद्दक्षिणांसं कृषति । आग्नेयी बृहती । इदं चित्याग्निस्थानं मण्डूक्यवकावेतसलक्षणं वा अपां न्ययनम् । नितरामीयते प्राप्यते येन तन्न्ययनम् उदकप्राप्तिसाधनम् । यागद्वारा ह्यापः प्राप्यन्ते । अपां बाहुल्यात्समुद्रस्य निवेशनम् निविशन्त्यस्मिन्निति निवेशनं गृहस्थानीयम् तद्रूप हे अग्ने, ते तव हेतयो ज्वाला अस्मत्सकाशादन्यान् अस्मद्विरोधिनः पुरुषान् तपन्तु क्लेशयन्तु । अस्मभ्यमस्मदर्थं पावकः शोधकः शिवः शान्तश्च भव ॥७॥

अष्टमी।
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान् व॑क्षि॒ यक्षि॑ च ।। ८ ।।
उ० अग्ने पावक द्वे गायत्र्यौ । हे अग्ने, पावक पावयितः, रोचिषा रोचनेन ज्वालासमूहेन । आहवनीयात्मना स्थिता इति शेषः । मन्द्रया च मदनीयया च देवजिह्वया होतृत्वेनावस्थित इति शेषः । आदेवान्वक्षि यक्षि च देवान् वक्षि च । आवह देवान् यज चेति । द्वौ ह्यग्नेराकारौ हौत्रं च आहवनीयरूपेण हविर्वहणं च अतएवं स्तूयते ॥ ८ ॥
म० 'पक्षपुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति' ( का. १८ । २ । ११)। पक्षपुच्छानि प्रान्तादारभ्याभ्यात्ममात्मसंमुखं सन्धिपर्यन्तं कर्षति प्रत्यृचमग्ने इति दक्षिणं पक्षं स न इति पुच्छं पावकयेत्युत्तरं पक्षमित्यर्थः । आग्नेयी गायत्री वसूयुदृष्टा । हे अग्ने, हे पावक शोधक, हे देव, रोचिषा रोचनेन ज्वालासमूहेनाहवनीयात्मना स्थित इति शेषः । मन्द्रया मदनीयया जिह्वया होतृवाग्रूपेणावस्थित इति शेषः । देवानावक्षि आवह यक्षि यज च । द्वावग्नेरधिकारौ हौत्रमाहवनीयरूपेण हविर्ग्रहणं चात एव स्तूयते। वहतेर्यजेश्च लोण्मध्यमैकवचने शपि लुप्ते ढत्वगत्वादिके कृते वक्षि यक्षीति रूपम् ॥८॥

नवमी।
स न॑: पावक दीदि॒वोऽग्ने॑ दे॒वाँ२ इ॒हा व॑ह ।
उप॑ य॒ज्ञᳪ ह॒विश्च॑ नः ।। ९ ।।
उ० स नः पावक । यस्त्वमुक्ताधिकारः स नः अस्माकं हे पावक पावयितः । दीदिवः दीप्तिमन् हे अग्ने, देवान् इह आवह । उप यज्ञम् यज्ञस्य समीपम् । ततोऽनन्तरं हविश्व नः संबन्धि । देवान्प्रापयेति शेषः ॥ ९॥
म० गायत्र्याग्नेयी मेधातिथिदृष्टा । हे पावक पावयितः, हे दीदिवः, दिदेवेति दीदिवान् तत्संबुद्धौ हे दीदिवः दीप्तिमन् , 'दिवु क्रीडादिषु' क्वसुप्रत्ययः द्वित्वम् 'तुजादीनाम्' (पा. ६।१।७) इत्यभ्यासदीर्घः 'लोपो व्योर्वलि' ( पा० ६ । १।६६) इति वलोपः । हे अग्ने, देवानिह नोंऽस्माकं यज्ञे आवह आनय । यज्ञमुप यज्ञसमीपे नोऽस्माकं हविश्च देवानावह प्रापय ॥९॥

दशमी।
पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।
तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जर॑: ।। १० ।।
उ० पावकया । जगती । पावकया पावयित्र्या योऽग्निः चितयन्त्या परिदृढकारिण्या कृपा समर्थया । 'कृपू सामर्थ्ये' अस्य क्विपि तृतीया । क्षामन् पृथिव्याम् । क्षामेति पृथिवीनाम । रुरुचे दीप्यते । उषसो न भानुना उषस इव ज्योतिषा । यश्च । तूर्वन यामन् त्वरमाण इव आधानकर्मणि । यामशब्दः कर्मवचनः । एतशस्य आज्यस्य । नू अनर्थकः । रणे रमणीये पदे । आधीयते । अध्वर्युणा आहितश्च यः घृणेन । घृणिरिति दीप्तिनाम । न इत्यनर्थकः । ततृषाणः तृष्यम् पिपासुः पूर्णाहुतिम् पूर्णाहुत्यादि तं तत्र शमयन्ति । पीत्वा च अजरः संपाद्यते । तमवकादिभिः शमयाम इति शेषः ॥ १०॥
म० जगती भरद्वाजदृष्टा । योऽग्निः क्षामन् क्षाम्णि पृथिव्यां रुरुचे रोचते शोभते । कया कृपा 'कृपू सामर्थ्ये' कल्पनं कृप् क्विप् । तया कल्पनया सामर्थ्येन दीप्त्या वा । क्षामेति पृथिवीनाम । किंभूतया कृपा । पावकया पावयतीति पावका तया पावयित्र्या । चितयन्त्या चेतयन्त्या । यद्वा चितं करोति चितयन्ती तया दृढचयकारिण्या । रोचने दृष्टान्तः। उषसो न भानुना । न इवार्थे । यथा उषसः कालाः भानुना स्वप्रकाशेन रोचन्ते तद्वत् । किंच यश्चाग्निः घृणिः । घृणिरिति दीप्तिनाम । 'सुपां सुलुक्' (पा० ८।१।३९) इति विभक्तेः शे आदेशः । घृणिना दीप्त्या आ समन्तात् । नु निश्चितं रुरुचे इत्यनुषङ्गो नकारश्चार्थः । किं कुर्वन् । एतशस्य एतीत्येतशः गमनकुशलस्याश्वस्य यामन् यामनि नियामके रणे युद्धे तूर्वन् 'तूर्व हिंसायां' परबलानि हिंसन् । न इवार्थे । शत्रून् हिंसन्निव रोचते । यद्वा यामन्शब्दः कर्मवाचकः । नु अनर्थकम् । यामनि कर्मणि तूर्वन्न त्वरमाण इव एतशस्याश्वस्य रणे रमणीये पदे आहितोऽध्वर्युणा । तथा ततृषाणः