पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पक्षस्यापरसन्धिः कक्षस्तस्य समीपं निकक्षं दक्षिणपक्षापरसन्धिसमीप आत्मभागेऽश्मानं निधायोदकुम्भमादायाद्रेरारभ्य सपक्षपुच्छमग्निं प्रदक्षिणं जलधारया समन्तादग्नीत्सिञ्चतीत्यर्थः । यजुर्मरुद्देवत्यम् आर्षी त्रिष्टुप् । हे मरुतः, तां प्रसिद्धामिषमन्नमूर्जं रसं च नोऽस्मभ्यं धत्त दत्त यूयम् । किंभूता यूयम् । संरराणाः सम्यक् रान्ति ददति ते संरराणाः सम्यग्दातारः । ‘रा दाने' 'बहुलं छन्दसि' ( पा० २ । ४ । ७६ ) इति जुहोत्यादिभ्यः श्लुः द्वित्वं च शानचि परे । कीदृशीमिषमूर्जम् । अश्मन् अश्मनि पाषाणे पर्वते विन्ध्यहिमवदादौ शिश्रियाणां श्रयतीति शिश्रियाणा ताम् । श्रयतेः शानचि जुहोत्यादित्वाद्द्वित्वम् । तथा ऊर्ज सारभूतां बलहेतुम् । यद्वा पर्वाणि विद्यन्ते यस्मिन् स पर्वतः पर्वमरुद्भ्यां तप्प्रत्ययः । अश्नातीत्यश्मा 'अन्येभ्योऽपि दृश्यते' ( पा० ३ । २ । ७५) इति अश्नातेर्मनिन् अशनवति पर्ववति मेघे ऊर्जं जलं शिश्रियाणामाश्रितां वृष्टिसंपाद्यामित्यर्थः । तथा अद्भ्यः जलेभ्य ओषधिभ्यो यवादिभ्यो वनस्पतिभ्योऽश्वत्थादिभ्यः सकाशादधिसंभृतमधिकं संपादितं गोद्वारेण पयो दुग्धं च शिश्रियाणाम् गौरपः पीत्वौषधिवनस्पतीन् भक्षयित्वा पयो दोग्धि । तां द्विरूपां मेघोत्थजलरूपां गोसमुत्थां पयोरूपां चेषमूर्जं दत्तेत्यर्थः । 'मरुतो वै वर्षस्येशते' ( ९।१।२ । ५) इति श्रुतेः । 'अश्मंस्ते क्षुदित्यद्रौ कुम्भं कृत्वा मयि त ऊर्गित्यादायैवं द्विरपरम्' ( का० १८ । २ । २।)। सेकान्तेऽश्मनि कुम्भमश्मंस्ते क्षुदिति निधाय मयि त इति पुनरादाय पुनर्द्विवारं परिषिञ्चेदित्यर्थः । अश्मा देवता दैवी बृहती । अश्नातीत्यश्मा । हे अश्मन् सर्वभक्षक अग्ने, ते तव क्षुत् क्षुधा अस्तु बहुहविषां भोज्यत्वात् ( का० १८ । २ । ३ ) । कुम्भमादत्ते । आशीर्दवता दैवी बृहती । हे अश्मन् , ते तव ऊर्क् सारभागो मयि अस्त्विति शेषः । 'कुम्भेऽद्रिं कृला दक्षिणस्यां वेदिश्रोणौ प्राङ् तिष्ठन् दक्षिणस्यां निरस्यति यं द्विष्म इति' ( का० १८ । २ । ४ ) । तं पाषाणं कुम्भे कृत्वा दक्षिणवेदिश्रोणौ पूर्वामुखस्तिष्ठन् दक्षिणस्यां दिशि साश्मानं घटं निरस्यतीत्यर्थः । यजुर्बृहती शुक् देवता । हे अग्ने, ते तव शुक् शोकस्तं नरमृच्छतु गच्छतु । तं कम् । वयं यं नरं द्विष्मः अस्मद्द्वेषविषयं तव शोको गच्छतु ॥ १ ॥

द्वितीया ।
इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नव॑: स॒न्त्वेका॑ च॒ दश॑ च॒ दश॑ च श॒तं च॑ श॒तं च॑ स॒हस्रं॑ च स॒हस्रं॑ चा॒युतं॑ चा॒युतं॑ च नि॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्चै॒ता मे॑ अग्न॒ इष्ट॑का धे॒नव॑: सन्त्व॒मुत्रा॒मुष्मिँ॑ल्लो॒के ।। २ ।।
उ० इमा मे । द्वाभ्यां कण्डिकाभ्यामग्निमभिमृश्येष्टकाः धेनूः कुरुते । तत्र प्रथमं यजुः। द्वितीया बृहती वा पङ्क्तिर्वा, अग्निस्त्वासां धेनुकरणस्येष्ट इत्यग्निरुच्यते । इमाः मे मम हे अग्ने, इष्टका धेनवः धेनुरिवोपजीवनीयाः सन्तु । अस्मिंल्लोक इति शेषः । किंसंख्याकाः । एका च दश च दश च शतं च शतं च सहस्रं च सहस्रं चायुतं च अयुतं च नियुतं च नियुतं च प्रयुतं च अर्बुदं च न्यर्बुदं च । समुद्रश्च मध्यं च अन्तश्च परार्धश्च । एवमेकाप्रभृति दशसंख्यागुणितं परार्धपर्यन्तं पूर्वोत्तरसंख्याविशेषसमुच्चितं वर्धमानसंख्येयनिष्ठं संख्याजातमभिधाय अग्निमाह । एता मे मम हे अग्ने, इष्टकाः धेनवः सन्तु । अमुत्र अमुष्मिन् लोके । अमुत्रेति जन्मान्तरनिर्देशः । अमुष्मिन् लोक इतीष्टलोकनिर्देशः ॥ २ ॥
म० 'अनपेक्षमेत्योदङ् प्राङ् तिष्ठन्नात्मन उपरि प्रापणान्ते जपतीमा म इति' ( का० १८ । २ । ९)। कुम्भनिरसनानन्तरमपश्यन्नेत्य दक्षिणवेदिश्रोणिसमीपे ईशानाभिमुखस्तिष्ठन्नात्मन उपरि हस्तौ प्रसार्य यावत्स्प्रष्टुं शक्नोति तावत् स्पृष्ट्वेमा म इति कण्डिकाद्वयं स्वरेण जपतीत्यर्थः । विकृतिरग्निदेवत्या । हे अग्ने, या इष्टकाः पञ्चसु चितिषूपहिताः इमा इष्टकाः मे मह्यं मदर्थं धेनवोऽभिमतफलदोग्ध्र्यः सन्तु त्वत्प्रसादात् । अस्मिन् लोके इति शेषः । तासां संख्यामाह-एकेत्यादि । अत्रैकादिपरार्धपर्यन्तैः शब्दैरुत्तरोत्तरं दशदशगुणिता संख्योच्यते । एका एकत्वसंख्याविशिष्टा सा दशगुणिता । दशसंख्यामापद्यते । सा दशगुणिता शतं भवति । | पूर्वसंख्यासहितोत्तरसंख्याग्रहणमाधिक्याय । शतं दशगुणितं सहस्रं भवति सहस्रं दशगुणितमयुतं भवति अयुतं दशगुणितं नियुतं भवति नियुतं लक्षम् नियुतं दशगुणितं प्रयुतं भवति प्रयुतं लक्षदशकं । प्रयुतग्रहणं कोटेरुपलक्षकम् । प्रयुतं दशगुणं कोटिः । कोटिर्दशगुण अर्बुदम् । अर्बुदं दशगुणं न्यर्बुदम् । न्यर्बुदशब्देनाब्जसंख्या ज्ञेया । एतेषां ग्रहणमब्जसमुद्रान्तर्वर्तिनीनां खर्व निखर्वमहापद्मशङ्कुसंज्ञानां संख्यानामुपलक्षकम् । तेनाब्जं दशगुणं खर्व । खर्व दशगुणं निखर्वं । निखर्वं दशगुणं महापद्मं । महापद्मं दशगुणं शङ्कुः । शङ्कुर्दशगुणः समुद्रः। समुद्रो दशगुणो मध्यं मध्यं दशगुणमन्तः अन्तः दशगुणः परार्धः । चकारा इतरेतरसमुच्चयार्थाः । एवमेकाद्यष्टादशसंख्यासंज्ञासंमिता इटका एता हे अग्ने, मे धेनवः सन्त्विति पूर्वोक्तस्य निगमनम् । एतद्धेनुभवनं कुत्रार्थ्यते तदाह । अमुत्र अन्यजन्मनि तथान्यस्मिन् लोके स्वर्गे सर्वत्र इष्टदाः सन्त्वित्यर्थः । यद्यपि नियतसंख्ययेष्टकाश्चीयन्ते तथापि मन्त्रसामर्थ्याद्वर्धमाना एकादिपरार्धान्तसंख्या भवन्तीति भावः ॥ २॥

तृतीया।
ऋ॒तव॑ स्थ ऋता॒वृध॑ ऋतु॒ष्ठाः स्थ॑ ऋता॒वृध॑: ।
घृ॒त॒श्च्युतो॑ मधु॒श्च्युतो॑ वि॒राजो॒ नाम॑ काम॒दुघा॒ अक्षी॑यमाणाः ।। ३ ।।