पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति सर्वत्र संबध्यते । दश दक्षिणा दश प्रतीचीः दश उदीचीः दश ऊर्ध्वाः तेभ्यः नमः अस्तु ते नः अस्मान् अवन्तु रक्षन्तु ते नः अस्मान् मृडयन्तु सुखयन्तु । ते च संतर्पिताः सन्तः। यं पुरुषं द्विष्मः यश्च नः अस्मान् द्वेष्टि । तं तेषां रुद्राणां जम्भे मुखे दध्मः । यद्वा ते रुद्रा वयं च यं द्विष्मः यश्च नः द्वेष्टि । तमेषां रुद्राणां जम्भे दध्मः । समञ्जसमेव सर्वम् ॥ ६४ ॥
म० कण्डिकात्रयात्मिकानि त्रीणि यजूंषि प्रत्यवरोहसंज्ञानि धृतिच्छन्दस्कानि बहुरुद्रदेवत्यानि । त्रिलोकस्था रुद्रा उच्यन्ते । दिवि द्युलोके ये रुद्राः वर्तन्ते येषां च रुद्राणां वर्षं वृष्टिरेव इषवः बाणाः । आयुधस्थानीया वृष्टिः । अतिवृष्ट्यादीतिभिः प्राणिनो घ्नन्ति तेभ्यो रुद्रेभ्यो नमो नमस्कारोऽस्तु । तेभ्यो रुद्रेभ्यो दशसंख्याकाः प्राचीः प्रागभिमुखा अङ्गुलीः कुर्वे इति शेषः । प्राङ्मुखाञ्जलिकरणे प्राच्यो दशाङ्गुलयो भवन्ति । दक्षिणाः दक्षिणाभिमुखाः दशाङ्गुलीः कुर्वे । प्रतीचीः प्रत्यङ्मुखाः दशाङ्गुलीः कुर्वे । उदीचीरुदङ्मुखाः दशाङ्गुलीः कुर्वे । ऊर्ध्वाः उपरि दशाङ्गुलीः कुर्वे । अञ्जलिं बद्ध्वा सर्वदिक्षु नमस्करोमीत्यर्थः । तेभ्यो रुद्रेभ्यो नमोऽस्तु अञ्जलिपूर्वनतिरस्तु । 'दश वा अञ्जलेरङ्गुलयो दिशि दिश्येवैभ्य एतदञ्जलिं करोति' (९ । १ । १ । ३९ ) इति श्रुतेः । ते रुद्रा नोऽस्मानवन्तु रक्षन्तु । ते रुद्रा नोऽस्मान् मृडयन्तु सुखयन्तु । किंच ते रुद्रा यं पुरुषं द्विषन्तीति शेषः । वयं च यं द्विष्मो यस्य द्वेषं कुर्मः च । पुनर्यो नरो नोऽस्मान् द्वेष्टि तं पुरुषमेषां पूर्वोक्तानां रुद्राणां जम्भे दंष्ट्राकराले मुखे दध्मः स्थापयामः । अस्मद्विषमस्मद्द्वेष्यं च नरं रुद्राः पूर्वोक्ता भक्षयन्त्वित्यर्थः । अस्मांश्चावन्तु च ॥ ६४ ॥

पञ्चषष्टी ।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ येऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६५ ।।
म० ये अन्तरिक्षे रुद्रा वर्तन्ते तेभ्यो रुद्रेभ्यो नमोऽस्तु । येषां रुद्राणां वात इषवः वायुरायुधस्थानीयः कुवातेनान्नं विनाश्य वातरोगं वोत्पाद्य जनान्घ्नन्ति । तेभ्योऽन्तरिक्षस्थेभ्यो वातेभ्यो रुद्रेभ्यो नमोऽस्तु । शिष्टं व्याख्यातम् ॥ ६५॥

षट्षष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६६ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां षोडशोऽध्यायः ॥ १६ ॥

उ० द्वे कण्डिके उक्तार्थे ॥ ६५ ॥ ६६ ॥ ।
इति उवटकृतौ मन्त्रभाष्ये षोडशोऽध्यायः ॥ १६ ॥
म० ये पृथिव्यां रुद्रा वर्तन्ते येषामन्नमिषवः । अन्नमदनीयं वस्तु आयुधम् अयथान्नभक्षणे कदन्नभक्षणे चौर्ये वा प्रवर्त्य रोगमुत्पाद्य जनान् घ्नन्ति तेभ्यः पृथिवीस्थेभ्योऽन्नायुधेभ्यो रुद्रेभ्यो नमोऽस्तु । तेऽस्मानवन्त्वित्यादि पूर्ववत् । एते प्रत्यवरोहमन्त्राः । 'अथ प्रत्यवरोहान् जुहोति' ( ९ । १। ३२ ) इति व्यवहाराय संज्ञाकरणम् ॥ ६६ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
शतरुद्रियहोमोऽयं षोडशोऽध्याय ईरितः ॥ १६ ॥

सप्तदशोऽध्यायः।
तत्र प्रथमा।
अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णाम॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पतिभ्यो॒ अधि॒ सम्भृ॑तं॒ पय॑: ।
तां न॒ इष॒मूर्जं॑ धत्त मरुतः सᳪररा॒णाः अश्मँ॑स्ते॒ क्षुन्मयि॑ त॒ ऊर्क् यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। १ ।।
उ० अग्निं परिषिञ्चति । अश्मन्नूर्जम् । यजुर्मारुतम् । 'तान्न इषमूर्जं धत्तेति तदःश्रवणाद्यदोऽत्राध्याहारः कर्तव्यः । या अस्मन् अशनवति मेघे ऊर्जम् उदकलक्षणम् शिश्रियाणाम् आश्रिताम् । या च पर्वते पर्वतवति मेघे । शिश्रियाणामाश्रिताम् उदकलक्षणो वा । या च अद्भ्यः अधि सकाशात् ओषधीभ्यः अधि सकाशात् वनस्पतिभ्यः अधि सकाशात् । संभृतं पयः संभृता पयोलक्षणा गोद्वारेण । गौर्हि अपः पिबति ओषधिवनस्पत्यादीन्खादति अथ पयो जायते । ता न इषमूर्जं धत्त तामेतामुभयरूपां मेघसंभवामुदकलक्षणां गोप्रभवां च पयोलक्षणां नः अस्मभ्यम् इषम् ऊर्जम् धत्त दत्त हे मरुतः, 'मरुतो ह वै वर्षस्येशते' । संरराणाः संरममाणाः । अश्मनि कुम्भं स्थापयति अश्मंस्ते क्षुत् अश्मन् ते तव क्षुत् अशनाया अस्तु । आदत्ते कुम्भम् मयि त उर्क् तव संबन्धिनी ऊर्क् मयि अस्त्विति शेषः । कुम्भं प्रक्षिपति । य द्विष्मस्तं ते शुगृच्छतु यं पुरुषं द्विष्मः तं तव संबन्धिनी शुक् शोकः ऋच्छतु गच्छतु ॥ १ ॥
म० षोडशेऽध्याये शतरुद्रियहोम उक्तः । सप्तदशे चित्यपरिषेकादिमन्त्रा उच्यन्ते 'चित्यं परिषिञ्चत्यग्नीद्दक्षिणे निकक्षेऽद्रिं कृत्वाश्मन्नूर्जमित्यद्रेरधि' ( का० १८ । २।१) ।