पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शब्देन वा धातवो लक्ष्यन्ते । त्वग्लोहितमज्जादिविमुक्तेत्यर्थः। तेषामित्युक्तम् ॥ ५८ ॥
म० ये रुद्रा वृक्षेषु अश्वत्थादिषु स्थिताः । कीदृशाः । शष्पिञ्जराः शष्पं बालतृणं तद्वत्पिञ्जरा हरितवर्णाः । नीलग्रीवाः नीला ग्रीवा येषां ते कण्ठे नीलवर्णाः । तथा केचन विलोहिताः विशेषेण रक्तवर्णाः । यद्वा विगतं लोहितं रुधिरं येषां ते । लोहितपदं मांसादीनामुपलक्षणम् । विगतलोहितादिधातवस्तेजोमयशरीरा इत्यर्थः । तेषामित्याद्युक्तम् ॥ ५८ ॥

एकोनषष्टी।
ये भू॒ताना॒मधि॑पतयो विशि॒खास॑: कप॒र्दिन॑: । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५९ ।।
उ० ये भूतानां प्राणिनामधिपतय ईश्वराः । विशिखासः विशिखा एव विशिखासः । सर्वमुण्डा इत्यर्थः । कपर्दिनः जटिलाः तेषामित्युक्तम् ॥ ५९॥
म०. ये ईदृशा रुद्रास्तेषां धन्वानीति पूर्ववत् । कीदृशाः । भूतानां देव विशेषाणामधिपतयः अन्तर्हितशरीराः सन्तो मनुष्योपद्रवकरा भूतास्तेषां पालकाः । तत्र केचिद्विशिखासः विगता शिखा येषां ते । शिखाशब्दः केशोपलक्षकः । मुण्डितमुण्डा इत्यर्थः । अन्ये कदर्पिनः जटाजूटयुताः ॥ ५९ ॥

षष्टी।
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा आ॑यु॒र्युध॑: । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६० ।।
उ० ये पथाम् ये रुद्राः पथां मार्गाणाम् अधिपतय इति शेषः । ये च पथिरक्षयः पन्थानं ये रक्षन्ति । ऐलबृदाः इलानामन्नानां समूह ऐलम् तत् ये बिभ्रति ते ऐलभृतः सन्तोपि परोक्षवृत्तिना शब्देन ऐलबृदा इत्युच्यन्ते । आयुर्युधः आयुर्जीवनं पणीकृत्य ये युध्यन्ति ते आयुर्युधः चौरादयो वा रुद्रा वा तेषामित्युक्तम् ॥ ६० ॥
म० ये चेदृशा रुद्रास्तेषामित्युक्तम् । कीदृशाः । पथां लौकिकवैदिकमार्गाणामधिपतय इति पूर्वर्चोनुषङ्गः । तथा पथिरक्षसः पथो मार्गास्तानेवान्यानपि रक्षन्ति पालयन्ति ते पथिरक्षसः । ऐलबृदाः इलानामन्नानां समूह ऐलमन्नसमूहः । यद्वा इला पृथ्वी तस्या इदमैलमन्नं तद्बिभ्रति ते ऐलभृतः त एव परोक्षवृत्त्या ऐलबृदा उच्यन्ते । अन्नैर्जन्तूनां पोषका इत्यर्थः । आयुयुधः आयुषा जीवनेन युध्यन्ते ते यावज्जीवयुद्धकराः । यद्वा आयुर्जीवनं पणीकृत्य युध्यन्ते ते आयुर्युधः ॥ ६०॥

एकषष्टी।
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काह॑स्ता निष॒ङ्गिण॑: । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६१ ।।
उ०. ये तीर्थानि । ये रुद्राः तीर्थानि प्रयागप्रभृतीनि । प्रचरन्ति सृकाहस्ताः सृका इत्यायुधनाम । आयुधहस्ता निषङ्गिणः खड्गिनः । तेषामित्युक्तम् ॥ ६१ ॥
म० ये रुद्रास्तीर्थानि प्रयागकाश्यादीनि प्रचरन्ति गच्छन्ति । कीदृशाः । सृकाहस्ताः सृकेत्यायुधनाम । सृका आयुधानि हस्ते येषां ते । निषङ्गिणः निषङ्गाः खड्गा विद्यन्ते येषां ते । सृकाहस्तत्वेऽपि निषङ्गित्वोक्तिः खड्गप्राधान्याय ॥ ६१ ॥

द्विषष्टी।
येऽन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न् । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६२ ।।
उ० येऽन्नेषु ये अन्नेषु अवस्थिताः विविध्यन्ति अतिशयेन विध्यन्ति ताडयन्ति । येषामयमधिकारः अन्नस्य भक्षयितारो व्याधिभिर्गृहीतव्या इति । पात्रेषु व्यवस्थिताः पिबतो जनान् ये विविध्यन्ति तेषामित्युक्तम् ॥ ६२ ॥ |
म० ये रुद्रा अन्नेषु भुज्यमानेषु स्थिताः सन्तो जनान् विविध्यन्ति विशेषेण ताडयन्ति । धातुवैषम्यं कृत्वा रोगानुत्पादयन्तीत्यर्थः । तथा पात्रेषु पात्रस्थक्षीरोदकादिषु स्थिताः सन्तः पिबतः क्षीरादिपानं कुर्वतो जनान् विविध्यन्ति । अन्नोदकभोक्तरो व्याधिभिः पीडनीया इति तेषामधिकार इति भावः । तेषामिति पूर्ववत् ॥ ६२ ॥

त्रिषष्टी।
य ए॒ताव॑न्तश्च॒ भूया॑ᳪसश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ६३ ।।
उ० य एतावन्तश्च ये रुद्रा एतावन्तश्च भूयांसश्च बहुतराश्चोक्तेभ्यः । दिशः रुद्राः वितस्थिरे विष्टभ्य स्थिताः तेषामित्युक्तम् ॥ ६३॥
म० ये रुद्रा एतावन्तः एतत्प्रमाणं येषां ते अतिशयेन बहवो भूयांसः उक्तेभ्योऽतिबहवश्व ये रुद्राः दिशो दश वितस्थिरे आश्रिताः दश दिशो व्याप्य स्थिताः तेषां धनूंषि अवतन्मसीति पूर्ववत् ॥ ६३ ॥

चतुःषष्टी।
नमो॑ऽस्तु रु॒द्रेभ्यो॒ ये दि॒वि येषां॑ व॒र्षमिष॑वः । तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वाः ।
तेभ्यो॒ नमो॑ अस्तु॒ ते नो॑ऽवन्तु॒ ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जम्भे॑ दध्मः ।। ६४ ।।
उ० इत उत्तरं त्रीणि यजूंषि त्रिस्थानाश्च रुद्राः स्तूयन्ते। नमोऽस्तु । नमः अस्तु रुद्रेभ्यः ये दिवि द्युलोके स्थिताः येषां रुद्राणां वर्षं वृष्टिः इषवः आयुधस्थानीयम् तेभ्यो रुद्रेभ्यः दश प्राचीः अङ्गुलीः करोमि नमस्कारार्थम्