पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हेतयः। हेतिरायुधम् । सहस्रशब्दोऽनन्तवचनः । अन्यस्मिनिवपन्तु ताः अस्मत्तोऽन्यं पुरुषं निवपन्तु ताः ॥ ५२ ॥
म० द्वे अनुष्टुभौ । विविधं किरिं घाताद्युपद्रवं द्रावयति नाशयति विकिरिद्रः हे विकिरिद्र, हे विलोहित, विगतं लोहितं कल्मषं यस्मात् स विलोहितः हे शुद्धस्वरूप, भगवः भगवन् , ते तुभ्यं नमोऽस्तु । हे रुद्र, ते तव याः सहस्रं हेतयोऽसंख्यान्यायुधानि ता हेतयोऽस्मदन्यमस्मद्व्यतिरिक्तं निवपन्तु घ्नन्तु ॥ ५२ ॥

त्रिपञ्चाशी।
स॒हस्रा॑णि सहस्र॒शो बा॒ह्वोस्तव॑ हे॒तय॑: । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ।। ५३ ।।
उ० सहस्राणि बहूनि सहस्रशः । 'संख्यैकवचनाच्च वीप्सायाम्' इति शस् । असंख्यातानि सहस्राणि । अनन्तत्वप्रतिपादनार्थम् । बाह्वोस्तव हेतयः आयुधानि तासां हेतीनाम् ईशानः सन् हे भगवः, 'मतुवसोरुः संबुद्धौ छन्दसि' इति विसर्जनीयः । हे भगवन् । पराचीनानि पराञ्चितानि पराङ्मुखानि मुखा मुखानि कृधि कुरु ॥ ५३ ॥
म० हे भगवः भगवन् , षड्गुणैश्वर्यसंपन्न, तव बाह्वोर्हस्तयोः याः सहस्राणि सहस्रशः हेतयः सन्ति तासां हेतीनां मुखा मुखानि शल्यानि पराचीना अस्मत्तः पराङ्मुखानि त्वं कृधि कुरु । करोतेः शपि लुप्ते 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः । कीदृशस्त्वम् । ईशानः ईष्ट इतीशानः जगन्नाथः । सहस्राणि सहस्रसंख्यानि धनुः खड्गः शूलं वर्मेत्यादिभेदेन सहस्रसंख्यत्वम् । सहस्रं सहस्रमिति सहस्रशः 'संख्यैकवचनाच्च वीप्सायाम्' (पा० ५। ४ । ४३ ) इति शस्प्रत्ययः । धनुरादीनां प्रत्येकं सहस्रसंख्यत्वमित्यर्थः ॥ ५३॥

चतुःपञ्चाशी।
असं॑ख्याता स॒हस्रा॑णि॒ ये रु॒द्रा अधि॒ भूम्या॑म् । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५४ ।।
उ० असंख्याता । बहुरुद्रदेवत्या दशानुष्टुभः । पृथिवीस्थानां नमस्कारः । असंख्यातानि सहस्राणि ये रुद्रा अधिभूम्याम् भूम्यामुपरि स्थिताः । तेषां सहस्रयोजनेऽध्वनि अवस्थितानामनेन हविषा अवधन्वानि तन्मसि अवतन्मसि अवतनुमः अवतारयामः । धन्वानि धनूंषि ॥ ५४ ॥
म०. बहुरुद्रदेवत्या दशानुष्टुभोऽवतानसंज्ञाः । भूमिस्था रुद्रा उच्यन्ते । असंख्याता असंख्यातानि सहस्राणि अमिता ये रुद्रा भूम्यामधि भूमेरुपरि स्थिताः । तेषां रुद्राणां धन्वानि धनूंषि सहस्रयोजने सहस्रं योजनानि यस्मिंस्तादृशे पथि सहस्रयोजनव्यवहिते मार्गे वयमवतन्मसि अवतन्मः अवतारयामः ।। अपज्यानि कृत्वास्मत्तो दूरं क्षिपाम इत्यर्थः ॥ ५४ ॥

पञ्चपञ्चाशी।
अ॒स्मिन् म॑ह॒त्य॒र्ण॒वे ऽन्तरि॑क्षे भ॒वा अधि॑ । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५५ ।।
उ० अस्मिन्महति मध्यस्थानाः । अस्मिन्महति अर्णवे । अर्णः उदकनामसु पठितम् वो मत्वर्थीयः । अर्णवति अन्तरिक्षे भवा रुद्राः । अधि उपरि स्थिताः ये तेषामिति कृतव्याख्यानम् ॥ ५५॥
म० अन्तरिक्षस्था रुद्रा उच्यन्ते । अस्मिन्नन्तरिक्षे अधिश्रित्य ये भवा रुद्राः स्थिताः तेषां धन्वान्यवतन्मसीति पूर्ववत् । कीदृशेऽन्तरिक्षे । महति विशाले । अर्णवे अर्णांसि जलानि विद्यन्ते यत्र तदर्णवम् मेघाधारत्वात् । 'अर्णसो लोपश्च' (पा० ५। २ । १०९-२) इति वप्रत्ययोऽन्तलोपश्च ॥ ५५॥

षट्पञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ᳪ रु॒द्रा उप॑श्रिताः । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५६ ।।
उ०. नीलग्रीवाः । द्युस्थाना उच्यन्ते । नीलग्रीवाः । कृष्णवचनो नीलशब्दः। शितिकण्ठाः शितिशब्दः श्वेतवचनः। दिवं द्युलोकं रुद्रा उपश्रिताः अधिष्ठिताः अध्याश्रिताः ये तेषामित्युक्तम् ॥ ५६ ॥
म० द्युस्था रुद्रा उच्यन्ते । ये रुद्रा दिवं द्युलोकमुपश्रिताः स्वर्गस्थास्तेषामिति पूर्ववत् । कीदृशाः । नीलग्रीवाः नीला श्यामा ग्रीवा येषां ते । शितिः श्वेतः कण्ठो येषां ते । विषग्रासात्कियान्कण्ठभागः कृष्णः कियान्श्वेत इत्यर्थः ॥ ५६ ॥

सप्तपञ्चाशी।
नील॑ग्रीवाः शिति॒कण्ठा॑: श॒र्वा अ॒धः क्ष॑माच॒राः । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५७ ।।
उ० नीलग्रीवाः । पृथिव्या अधो ये रुद्रास्त उच्यन्ते । नीलग्रीवाः शितिकण्ठाः शर्वाः रुद्रा अधः क्षमाचराः अधः पृथिव्यां संचरन्ति ये तेषामिति कृतव्याख्यानम् ॥ ५७ ॥
म० पातालस्था रुद्रा उच्यन्ते । अधोभागे ये शर्वा रुद्राः क्षमाचराः क्षमाया भुवोऽधोभागे चरन्ति गच्छन्ति ते क्षमाचराः पाताले वर्तमानाः तेषामित्युक्तम् । नीलग्रीवाः शितिकण्ठा इति पूर्ववद्विशेषणे ॥ ५७ ॥

अष्टपञ्चाशी ।
ये वृ॒क्षेषु॑ श॒ष्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः । तेषा॑ᳪ सहस्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि ।। ५८ ।।
उ०. ये वृक्षेषु आसते शष्पिञ्जराः शष्पिञ्जरवर्णाः । नवप्ररूढानि तृणानि शष्पशब्देनोच्यन्ते । नीलग्रीवाः विलोहिताः विगतकलुषभावाः । विविधं वा लोहिताः । लोहित