पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इत्यर्थः । हृग्रहोर्भः । कीदृशाय । तवसे महते बलवते वा। उभयत्र तवःशब्दः पठितः । कपर्दिने जटिलाय । क्षयद्वीराय क्षयन्तो निवसन्तो वीराः शूराः यत्र स क्षयद्वीरः तस्मै । शूरायेत्यर्थः । क्षयन्तो नश्यन्तो वीरा रिपवो यस्मादिति वा। द्विपदे पुत्रादये चतुष्पदे गवादिपशवे । सप्तमी वा द्विपदचतुष्पदविषये। यथा येन प्रकारेण शं सुखमसत् भवति अस्मिन् ग्रामे अस्मिन् वासस्थाने विश्वं सर्वं प्राणिजातं पुष्टं समृद्धमनातुरं निरुपद्रवं स्वस्थं च यथा असत् तथा मतिं हरे समर्पयाम इत्यर्थः ॥४८॥

एकोनपञ्चाशी।
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाहा॑ भेष॒जी । शि॒वा रु॒तस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॑ ।। ४९ ।।
उ० या ते रुद्र । अनुष्टुप् । हे रुद्र, या तव शिवा शान्ता तनूः शरीरम् । शिवा । अतिशयार्थं पुनर्वचनम् । विश्वाहा भेषजी सर्वदा भिषक्त्वेन वर्तते । शिवा रुतस्य व्याधेः भेषजी । रुतशब्दो व्याधिवचनः । यद्वा शिवारुतस्य शिवाफेत्कृतस्य शब्दस्य भेषजी। अपशकुनहन्त्रीत्यर्थः । तया तन्वा नः अस्मान् मृड सुखय । जीवसे जीवनाय ॥ ४९॥
म० अनुष्टुप् । हे रुद्र, या ते तव ईदृशी तनूः शरीरं तया तन्वा नोऽस्मान् जीवसे जीवितुं मृड सुखय । कीदृशी । शिवा शान्ता अघोरा । विश्वाहा विश्वानि च तान्यहानि च विश्वाहा 'कालाध्वनोरत्यन्तसंयोगे' (पा० २ । ३ । ५) इति द्वितीया । तस्या आकारः । सर्वेष्वहःसु सर्वदा शिवा कल्याणकारणी भेषजी औषधरूपा संसारव्याधिनिवर्तिका । रुतस्य शारीरव्याधेः शिवा समीचीना भेषजी निवर्तकौषधिः ॥ ४९ ॥

पञ्चाशी।
परि॑ नो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृड ।। ५०।।
उ० परि नः अनुष्टुप् । परिवृणक्तु परिवर्जयतु नः अस्मान् रुद्रस्य हेतिः आयुधं परित्वेषस्य दुर्मतिरघायोः परिवृणक्तु त्वेषस्य क्रोधिनो ज्वलितस्य दुर्मतिः दुष्टा मतिः । अघायोः अघं पापं यः कामयते परस्मै कर्तुं स अघायुः तस्य अघायोः । उत्तरोऽर्धर्चः प्रत्यक्षकृतो द्वितीयं वाक्यम् । अवस्थिरा मघवद्भ्यस्तनुष्व अवतनुष्व अवतारय शिथिलीकुरु । स्थिरा स्थिराणि धनूंषि । केभ्योऽर्थाय अवतनुष्व । मघवद्भ्यः मघं धनं हविर्लक्षणं येषामस्ति ते मघवन्तः तेभ्यो मघवद्भ्यो यजमानेभ्योऽर्थाय । नतु अयागशीलेभ्यः प्रतिषिद्धसेविभ्यः। किंच । हे मीढ्वः 'मिह सेचने' सेक्तः । मध्यस्थानो वा वृष्टिकर्मणा स्तूयते । युवा वा कृत्वा अपरिणामित्वेन स्तूयते । तोकाय तनयाय मृड । तोकाय पुत्राय तनयाय पौत्राय । मृड सुखय ॥ ५० ॥
म० त्रिष्टुप् । रुद्रस्य शिवस्य हेतिरायुधं नोऽस्मान् परिवृणक्तु परितो वर्जयतु । अस्मान्मा हन्त्वित्यर्थः । त्वेषस्य क्रुद्धस्य अघायोः द्रोग्धुर्दुर्मतिर्दुष्टमतिर्द्रोहबुद्धिश्चास्मान्परिवृणक्तु । त्वेषति क्रोधेन ज्वलति त्वेषस्तस्य पचाद्यच् । अघं पापं परस्येच्छति अघायुः 'सुप आत्मनः क्यच्' (पा० ३ । १ । ८) इत्यत्र परेच्छायामपि वाच्यमिति क्यच् । 'क्यचि च' (पा० ७ । ४ । ३३) इतीत्वे प्राप्ते 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः 'क्याच्छन्दसि' (पा० ३ । २ । १७० ) इत्युप्रत्ययः । मेहति सिञ्चतीति मीढ्वान् हे मीढ्वः कामाभिवर्षुक, स्थिरा स्थिराणि दृढानि धनूंषि त्वमवतनुष्व अवतारय ज्यारहितानि कुरु । किमर्थं । मघवद्भ्यः । मघमिति धननाम । मघं हविर्लक्षणं धनं विद्यते येषां ते मघवन्तो यजमानास्तदर्थम् । यजमानानां भयनिवृत्तये इत्यर्थः । किंच तोकाय पुत्राय तनयाय पौत्राय च मृड पुत्रं पौत्रं च सुखय । कर्मणि चतुर्थ्यौ ॥ ५० ॥

एकपञ्चाशी।
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि ।। ५१ ।।
उ० मीढुष्टम । यवमध्या त्रिष्टुप् । हे मीढुष्टम सेक्तृतम । हे शिवतम, शिवो नः अस्माकं सुमनाः शोभनमनस्कश्च भव । किंच । परमे वृक्षे दूरदेशावस्थायिनि आयुधं निधाय स्थापयित्वा । कृत्तिं चर्मं वसानः । आचर आचरणमनुष्ठानम् । पिनाकं बिभ्रत् पिनाकं कोदण्डः तं धारयन् आगहि आगच्छ ॥ ५१ ॥
म० इयमेकोना यवमध्या त्रिष्टुप् तृतीय एकादशार्णः चत्वारोऽन्येष्टार्णाः पञ्चपादा । अतिशयेन मीढ्वान् मीढुष्टमः । अत्यन्तं शिवः शिवतमः । हे मीढुष्टम अतिशयेन कामसेक्तः, हे शिवतम अत्यन्तं कल्याणकर्तः, नोऽस्मान् प्रति शिवः शान्तः सुमनाः हृष्टचित्तश्च भव । किंच परमे दूरस्थे उन्नते वा वृक्षे वटादौ आयुधं त्रिशूलादिकं निधाय संस्थाप्य कृत्तिं चर्म वसानः परिदधानः सन् आचर आगच्छ तपश्चरेति वा । आगच्छन्नपि पिनाकं धनुर्बिभ्रत् धारयन्सन् आगहि आगच्छ । ज्याशरहीनं धनुर्मात्रं शोधार्थं धारयन्नागच्छेत्यर्थः ॥ ५१ ॥

द्विपञ्चाशी।
विकि॑रिद्र॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्र॑ᳪ हे॒तयो॒ऽन्यम॒स्मन्नि व॑पन्तु॒ ताः ।। ५२ ।।
उ० विकिरिद्र । द्वे वनुष्टभौ। हे विकिरिद्र विकिरन्निषून्द्रावयतीति विकिरिद्रः विलोहित विगतकल्मषभाव । नमस्ते अस्तु हे भगवन् । एवमभिष्टुत्य अथ याचते । यास्तव सहस्रं