पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पर्णशब्दः पतितपर्णावस्थानवान् । नम उद्गुरमाणाय चाभिनते च । उद्गुरमाण उद्यमनशीलः । अभिघ्नते अभिहननं कुर्वते । नम आखिदते च 'खिद दैन्ये' दैन्यभावं कुरुते । अभक्तानां प्रकर्षेण दैन्यभावं कुरुते निषिद्धसेविनाम् । नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमः । इषून्ये कुर्वन्ति ते इषुकृतः तेभ्यो नमः । ये यूयं धनुष्कृतः तेभ्यो युष्मभ्यो नमः। युष्मदादेशयोगात्प्रत्यक्षा एते रुद्राः। समाप्तास्तिस्रोऽशीतयः । इदानीं रुद्राणां हृदयभूतानामग्निवायुसूर्याणां संबन्धीनि यजूंषि उच्यन्ते । नमो वः किरिकेभ्यः । नमो वः युग्मभ्यं ये यूयं किरिकाः कुर्वन्तीदं जगत् वृष्ट्याद्युपकारेण किरिकाः अग्निवायुसूर्याः देवानाᳪ हृदयेभ्यः रुद्राणां हृदयभूताः । नमो विचिन्वत्केभ्यः । विचिन्वन्ति पृथक्कुर्वन्ति धर्मकारिणं पापकारिणं च ते विचिन्वत्काः । नमो विक्षिणत्केभ्यः । विविधं क्षिण्वन्ति हिंसन्ति ये ते विक्षिणत्काः । नम आनिर्हतेभ्यः हन्तिर्गत्यर्थः । एते ह्यग्निवायुसूर्याः सर्गादावाभिमुख्येनैतेभ्यो लोकेभ्यो निर्गताः ॥ ४६॥
म० तरूणां पत्ररूपाय नमः । 'शद्लृ शातने' शदनं शदः शातनम् । यद्वा पर्णानि शीर्यन्ते शात्यन्ते पक्वानि पतन्ति यत्र स पर्णशदः पतितपर्णस्थितिदेशस्तद्रूपाय नमः । 'गुरी उद्यमे' 'तुदादिभ्यः शः' । उद्गुरते उद्यमं करोति उद्गुरमाण उद्यमी तम्मै । अभिहन्ति शत्रूनित्यभिग्नन् तस्मै । आ समन्तात् खिद्यते दैन्यं करोत्यभक्तानामित्याखिदन् तस्मै । प्रकर्षेण खेदयति पापिन इति प्रखिदन् तस्मै । इषून् बाणान् कुर्वन्ति ते इषुकृतस्तेभ्यो रुद्रेभ्यो नमः । धनूंषि चापानि कुर्वन्ति ते धनुष्कृतः तेभ्यो वो युष्मभ्यं नमः । युप्मदादेशयोगात्प्रत्यक्षा एते रुद्राः । तिस्रोऽशीतयो रुद्राणां समाप्ताः । एवं चत्वारिंशदधिकशतद्वयमन्त्रैः रुद्रस्य सर्वात्मलमुक्तम् । अथ रुद्रेषु प्रधानभूतानामग्निवायुसूर्याणां संबन्धीनि चत्वारि यजूंष्युच्यन्ते । चतुर्णामादौ नमःशब्दाच्चवार्यव यजूंपि आद्यं चतुर्दशाक्षरं त्रीणि सप्ताक्षराणि तानि व्याहृतिसंज्ञानि । नमो व इति । देवानां हृदयेभ्यो रुद्राणां हृदयवत्प्रधानभूतेभ्योऽग्निवायुसूर्यभ्यो वो युष्मभ्यं नमः । 'देवानां हृदयेभ्य इत्यनिर्वायुरादित्य एतानि ह तानि देवाना हृदयानि' ( ९ । १।१ । २३ ) इति श्रुतेः । हृदयानीव हृदयानि यथागानां हृदयं प्रधानमेवमेते रुद्राणां प्रधाना इत्यर्थः । कीदृशेभ्यस्तेभ्यः । किरिकेभ्यः । वृष्ट्यादिद्वारा जगत् कुर्वन्ति किरिकास्तेभ्यः । एते हीद, सर्वं कुर्वन्ति' ( ९ । १।१।२३) इति श्रुतेः । विचिन्वन्ति पृथक् कुर्वन्ति धर्मिष्ठं पापिष्ठं चेति विचिन्वत्कास्तेभ्योऽग्न्यादिभ्यो नमः । विविधं क्षिण्वन्ति हिंसन्ति पापमिति विक्षिणत्कास्तेभ्योऽझ्यादिभ्यो नमः । आ समन्तान्निर्हता निर्गताः सर्गादौ लोकेभ्य इत्यानिर्हतास्तेभ्यो रुद्रावतारेभ्योऽग्निवायुसूर्येभ्यो नमः । हन्तिर्गत्यर्थः । 'तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीᳪष्यजायन्ताग्निर्योऽयं पवते सूर्यः' इति श्रुतेः॥४६॥

सप्तचत्वारिंशी
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒ नील॑लोहित ।
आ॒सां प्र॒जाना॑मे॒षां प॑शू॒नां मा भे॒र्मा रो॒ङ्मो च॑ न॒: किंच॒नाम॑मत् ।। ४७ ।।
उ०. द्रापे अन्धसस्पते । सप्तकण्डिका एकरुद्रस्तुतिः । । उपरिष्टाद्बृहती । हे द्रापे । 'द्रा कुत्सायांगतौ' । द्रापयतीति द्रापिः । अयथोक्तकारिणं कुत्सितां गतिं नयति । हे अन्धसस्पते सोमस्य पते । हे दरिद्र हे निष्परिग्रह । हे नीललोहित । 'नीलानि चास्यैतानि रूपाणि च' इति श्रुतिः । । एवं संबोध्य रुद्रं अथेदानीमभयं याचते । आसां प्रजानाम् अस्मदीयानाम् एषां पशूनां मा त्वं भैषीः। मारोक् अबिभ्यश्च । मा त्वं रुजः मा भाङ्क्षीः । मो च नः किंचनाममत् । मा च नः अस्माकं किंचन अपत्यादिकम् । आममत् 'अम रोगे'। मा चास्माकमपत्यादिकं रोगसंयुक्तं कृथा इत्यर्थः ॥ ४७ ॥
म० सप्त ऋच एकरुद्रदेवत्याः आद्योपरिष्टाद्बृहती सप्ताष्टदशद्वादशार्णपादा । हे द्रापे, 'द्रा कुत्सायां गतौ' द्रापयति कुत्सितां गतिं पापिनः प्रापयतीति द्रापिः । हे अन्धसः सोमस्य पते पालक, 'अन्धसस्पत इति सोमस्य पत इत्येतत्' ( ९।१।१ । २४ ) इति श्रुतेः । हे दरिद्र निष्परिग्रह, -अद्वितीयत्वादिति भावः । हे नीललोहित, कण्ठे नीलोऽन्यत्र लोहितः हे शिव, नोऽस्माकमासां प्रजानां पुत्रादीनामेषां पशूनां गवादीनां त्वं मा भेः भयं मा कुरु । 'बहुलं छन्दसि'(पा० २ । ४ । ७३ ) इति शपो लुक् । मा रोक् 'रुजो भङ्गे' प्रजापशूनां भङ्गं मा कार्षीः । कर्मणि षष्ठ्यौ । च पुनर्नोऽस्माकं किंचन किमपि द्विपदचतुप्पदादिकं मो मा आममत् रुग्णं मा कार्षीत् । यद्वा रुग्णं मास्तु । 'अम् रोगे' लङि धातोरमागम आर्षः ॥ ४७ ॥

अष्टचत्वारिंशी ।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।। ४८ ।।
उ० इमा रुद्राय । जगती । इमाः मतीः याभिः स्तूयते ता रुद्राय । तवसे महसे बलवते वा । उभयत्र हि तवः शब्दः पठ्यते । कपर्दिने जटामुकुटधारिणे । क्षयद्वीराय क्षयन्ति वसन्त्यस्मिन्वीरा इति क्षयद्वीरस्तस्मै क्षयद्वीराय । प्रभरामहे प्रेरयामः । तथा वयं प्रेरयामः । यथा येन प्रकारेण । शमसत् द्विपदे चतुष्पदे । शं सुखम् असत् भवति द्विपदां चतुष्पदां । यथा विश्वं सर्वं पुष्टं समृद्धं ग्रामे अस्मिन् अनातुरम् आपद्रहितं स्वस्थं भवति ॥ ४८॥
म०. कुत्सदृष्टा जगती । वयमिमा अस्मदीया मतीः बुद्धीः रुद्राय शंकराय प्रभरामहे प्रहरामहे समर्पयामः । रुद्रं स्मराम