पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अवारे भवः अवार्यः । नमः प्रतरणाय चोत्तरणाय च । प्रतरन्ति येन तत्प्रतरणम् उदकमुच्यते । उत्तरन्ति येन तदुत्तरणम् नौरुच्यते । नमस्तीर्थ्याय च कूल्याय च । तीर्थे भवस्तीर्थ्यः । कूले भवः कूल्यः । नमः शष्प्याय च फेन्याय च । प्ररूढानि तृणानि शष्पमुच्यन्ते तत्र भवः शष्प्यः । फेने भवः फेन्यः ॥ ४२॥
म०. पारे संसाराब्धेः परतीरे जीवन्मुक्तरूपेण भवः पार्यः तस्मै । अवारे अर्वाक्तीरे संसारमध्ये संसारित्वेन भवोऽवार्यः तस्मै । 'पारावारे परार्वाची तीरे पात्रं यदन्तरम्' इति कोषः । प्रकर्षेण मन्त्रजपादिना पापतरणहेतुः प्रतरणः तस्मै । उत्कृष्टेन तत्त्वज्ञानेन संसारोत्तरणहेतुरुत्तरणः तस्मै । तीर्थे प्रयागादौ भवः तीर्थ्यः तस्मै । कूले तटे भवः कूल्यः तस्मै । शष्पं बालतृणं गङ्गातीरोत्पन्नं कुशाङ्कुरादि तत्र भवः शष्प्यः तस्मै । फेने डिण्डीरे भवः फेन्यः तस्मै ॥ ४२ ॥

त्रिचत्वारिंशी।
नम॑: सिक॒त्या॒य च प्रवा॒ह्या॒य च॒ नम॑: किᳪशि॒लाय॑ च क्षय॒णाय॑ च॒ नम॑: कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नम॑ इरि॒ण्या॒य च प्रप॒थ्या॒य च ।।४३।।
उ० नमः सिकत्याय च प्रवाह्याय च । सिकतासु भवः सिकत्यः । प्रवाहे भवः प्रवाह्यः । किᳪशिलाय च क्षयणाय च किमेतदुदकं हिमीभूतमुत शिलेति यत्र वितर्कः स किंशिलः । यद्वा किंशिलो उत कर्करः । क्षयन्त्यस्मिन्नाप इति क्षयणः । नमः कपर्दिने च पुलस्तये च । कपर्दी जटामुकुटधारी । पुरस्तिष्ठतीति पुलस्तिः शुभाशुभदिदृक्षया । नम इरिण्याय च प्रपथ्याय । इरिणे भव इरिण्यः। निरुदकप्रदेश इरिणम् । प्रपथे भवः प्रपथ्यः ॥ ४३ ॥
म० सिकतासु भवः सिकत्यः तस्मै । प्रवाहे स्रोतसि भवः प्रवाह्यः तस्मै । कुत्सिताः क्षुद्राः शिलाः शर्करारूपाः पाषाणा यत्र प्रदेशे स किंशिलः तद्रूपाय नमः । क्षियन्ति निवसन्त्यापो यत्र स क्षयणः स्थिरजलप्रदेशः तस्मै । कपर्दो जटाजूटोऽस्यास्तीति कपर्दी तस्मै । पुरोऽग्रे तिष्ठति पुलस्तिः । थस्य तत्वं रस्य लत्वं च छान्दसम् । यद्वा पूर्षु शरीरेषु अस्तिः सत्ता यस्य स पुलस्तिः सर्वान्तर्यामी तस्मै । इरिणमूषरं वितृणदेशस्तत्र भव इरिण्यः तस्मै । प्रकृष्टः पन्थाः प्रपथो बहुसेवितो मार्गस्तत्र भवः प्रपथ्यः तस्मै ॥ ४३ ॥

चतुश्चत्वारिंशी।
नमो॒ व्रज्या॑य च॒ गोष्ठ्या॑य च॒ नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमो॑ हृद॒य्या॒य च निवे॒ष्प्या॒य च॒ नम॒: काट्या॑य च गह्वरे॒ष्ठाय॑ च ।। ४४ ।।
उ० नमो व्रज्याय च गोष्ठ्याय च व्रजे भवो व्रज्यः । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठः तत्र भवो गोष्ठ्यः । नमस्तल्प्याय च गेह्याय च । तल्पः शयनम् । गेहं गर्भगृहम् 'तत्र भवः' इति तद्धितः । नमो हृदय्याय च निवेष्प्याय च । हृदये भवो हृदय्यः । निवेष्पे भवो निवेष्प्यः । निवेष्प आवर्तः। भ्रमः । नमः काट्याय च गह्वरेष्ठाय च । काटे भवः काट्यः काटः कूपः । गह्वरे तिष्ठति गह्वरेष्ठः । गह्वरं महदुदकम् ॥ ४४ ॥
म० व्रजे गोसमूहे भवो व्रज्यः तस्मै । ‘गोष्ठाध्वनिवहा व्रजाः' । गावस्तिष्ठन्ति यत्रेति तद्गोष्ठं तत्र भवो गोष्ठ्यस्तस्मै । तल्पं शय्या तत्र भवस्तल्प्यस्तस्मै । गेहे गृहे भवो गेह्यस्तस्मै । हृदये भवो हृदय्यो जीवस्तस्मै । निवेष्प आवर्तो नीहारजलं वा तत्र भवो निवेष्प्यः तस्मै । कुत्सितमटन्ति गच्छन्ति जना यत्र स काटो दुर्गारण्यदेशः काटः कूपो वा तत्र भवः काट्यः तस्मै । गह्वरे विषमे गिरिगुहादौ गम्भीरे जले वा तिष्ठति गह्वरेष्ठः तस्मै । 'गह्वरं बिलदम्भयोः ॥ ४४ ॥

पञ्चचत्वारिंशी।
नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪस॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च ।। ४५ ।।
उ०. नमः शुष्क्याय च हरित्याय च । शुष्के भवः शुष्क्यः। हरिते भवो हरित्यः हरितमार्द्रम् । नमः पाᳪसव्याय च रजस्याय च पांसुषु भवः पांसव्यः । रजसि भवो रजस्यः। नमो लोप्याय चोलप्याय च । लोपे भवो लोप्यः । लुप्यत इति लोपः । उलपे भव उलप्यः । ऊर्ध्वं लप्यते उच्चार्यते नतु लोप इवाश्रवणमुपैति उलप्यः । नम ऊर्व्याय च । ऊर्वे भव ऊर्व्यः । ऊर्वो वडवाग्निः । स एव शोभन: सूर्वः तत्र भवः सूर्व्यः ॥१५॥
म० शुष्के काष्ठादौ भवः शुष्क्यः तस्मै । हरिते आर्द्रे काष्ठादौ भवः हरित्यः तस्मै । पांसुषु धूलिषु भवः पांसव्यः तस्मै । ओर्गुणः । रजसि गुणे परागे वा भवो रजस्यः तस्मै । 'रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च' । लुप्यते नश्यति गमनादि यत्रेति लोपोऽगम्यप्रदेशस्तत्र भवो लोप्यः तस्मै । लोपः संहारो वा । उलपा बल्वजादितृणविशेषास्तत्र भव उलप्यः तस्मै । 'उलपस्तु गुल्मिनीतृणभेदयोः' । उर्व्या भूमौ भव उर्व्यः तस्मै । दीर्घ आर्षः । ऊर्वो वडवानलो वा । शोभन ऊर्वः कल्पानलस्तत्र भवः सूर्व्यः तस्मै ॥ ४५ ॥

षट्चत्वारिंशी।
नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑: ।। ४६ ।।
उ० नमः पर्णाय च पर्णशदाय च । पर्ण प्रसिद्धम् ।