पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उच्यते । कृष्णमृगो यज्ञस्त्वमसि । यज्ञसाधनत्वाद्यज्ञ इत्युच्यते । आखरेष्ठः । आङध्यर्थे । आहवनीयाख्ये खरे खं स्वर्गं राति ददाति तत्र अधि उपरि तिष्ठतीत्याखरेष्ठः । एतदुक्तं भवति । आहवनीयाख्ये खरे स्थितस्त्वं कृष्णमृगो यज्ञो भवसि । अतोऽग्नये त्वा जुष्टमभिप्रेतमभिरुचितं प्रोक्षामि । वेदिं प्रोक्षति । 'वेदिरसि तद्यदेतेनेमा सर्वं समविन्दत तस्माद्वेदिर्नाम' इति । तां व्युत्पत्तिमङ्गीकृत्याह वेदिस्त्वमसि । अतो बर्हिषे त्वामभिरुचितं प्रोक्षामि । बर्हिः प्रोक्षति । बर्हिरसि बर्हिस्त्वमसि । अतः सुग्भ्यस्त्वामभिरुचितं प्रोक्षामि ॥ १ ॥
म० 'इध्मं प्रोक्षति विस्रᳪस्य वेदिं च बर्हिः प्रतिगृह्य वेद्यां कृत्वा पुरस्ताद्ग्रन्थि कृष्णोऽसीति प्रतिमन्त्रम्' (का० २।७।१९) इति ॥ इध्मं विस्रस्य प्रोक्षेत् । वेदिं च प्रोक्षेत् । बर्हिरादाय वेद्यां पूर्वग्रन्थि कृत्वा प्रोक्षेत्क्रमान्मन्त्रत्रयेणेति सूत्रार्थः ॥ कृष्णोऽसि । हे इध्म, त्वं कृष्णोऽसि कृष्णमृगरूपो यज्ञोऽसि । इध्मपूलकस्य यज्ञसाधनत्वाद्यज्ञत्वोपचारः । किंभूतः। आखरेष्ठः । आ समन्तात् खरे कठिने वृक्षे तिष्ठतीति आखरेष्ठः। यद्वा खं स्वर्गं राति ददातीति खरः आहवनीयस्तत्रासमन्तात्तिष्ठतीत्याखरेष्ठः । अन्तोदात्तः कृष्णशब्दो वर्णवाची, अयं तु कृष्णशब्द आद्युदात्तत्वान्मृगवाची ॥ यज्ञः कदाचिद्देवेभ्योऽपक्रान्तः स्वगोपनाय कृष्णमृगो भूत्वा वने यज्ञियतरुमध्ये प्रविश्य कुत्रचित्कठिने वृक्षे तस्थौ । तदेतदभिप्रेत्य कृष्ण आखरेष्ठ इति द्वयमुच्यते । 'यज्ञो ह देवेभ्योऽपचक्राम स कृष्णो भूत्वा चचार' (१।१।४।१) इत्यादि श्रुतेः । 'स्थे च भाषायाम्' (पा० ६ । ३ । २० ) इति स्थे परपदे भाषायां सप्तम्यां अलुग्निषेधाद्वेदेऽलुक् । 'पूर्वपदात्-' (पा० ८ । ३ । १०६ ) इति षत्वम् । अतोऽग्नये जुष्टं प्रियं त्वां प्रोक्षामि । शुद्ध्यर्थं जलेनेति शेषः । 'वेदिरसीति वेदिं प्रोक्षति' । त्वं वेदिरसि । विद्यते लभ्यत इति वेदिः । 'विद्लृ लाभे' । देवैरसुरेभ्यो लब्धत्वाद्वेदिः । अतो बर्हिर्जुष्टां बर्हिषो धारणोपयोगितया प्रियां त्वां प्रोक्षामि । पृथ्वीरूपाया वेदेः प्रजारूपस्य बर्हिषो धारकत्वं युक्तम् ॥ बर्हिरसीति बर्हिःप्रोक्षणम् । हे दर्भ, त्वं बर्हिरसि प्रभूतत्वाद्वेदिबृंहणसमर्थमसि । अतः सुग्भ्यो जुष्टं स्रुचां धारणात्प्रियं त्वां प्रोक्षामि ॥१॥

द्वितीया ।
अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णोः॑ स्तु॒पोऽस्यूर्ण॑म्म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒ भुव॑नपतये॒ स्वाहा॑ भू॒तानां॒ पत॑ये॒ स्वाहा॑ ।। २ ।।
उ० शेषं मूलेषूपसिञ्चति अदित्यै व्युन्दनमसि । इयं वै पृथिव्यदितिः। षष्ठ्यर्थे चतुर्थी । अदित्याः पृथिव्याः व्युन्दनम् । 'उन्दी क्लेदने । क्लेदनं सेचनं भवसि । उदकमुच्यते । प्रस्तरं गृह्णाति । विष्णोः स्तुपोसि विष्णोर्यज्ञस्य स्तुपः । 'ष्ट्यै स्त्यै शब्दसंघातयोः' । स्त्यायतेः संघातः शिखा असि । वेदिं स्तृणाति । ऊर्णम्रदसम् ऊर्णामिव मृद्वीं त्वां कर्तुं स्तृणामि । 'स्तृञ् आच्छादने' आच्छादयामि । स्वासस्थां साधु मर्यादया यस्यामासीदन्ति सा तथोक्ता तां त्वां स्तृणामि देवेभ्योऽर्थाय । स्कन्नमभिमृशति । भुवपतये स्वाहा । अस्याग्नेर्ये भ्रातरः पूर्वे त्रयो बभूवुः ते वषट्कारभयादिमां पृथिवीं प्राविशन् पृथिवीं प्रविष्टाः । अयं चाग्निः प्रपलाय्याप्सु प्राविविक्षत प्रवेष्टुमैच्छत् । स देवैरानीय स्वाधिकारे नियुज्यमान एवमुवाच । एतैरग्निभिर्मां परिधत्त त एते परिधयः तेषां चायं भागः क्लृप्तोग्नीनाम् । भुवशब्देन मध्यमा व्याहृतिरुच्यते, भुवनशब्देन जगदुच्यते, भूतानामितिशब्देन भूतान्येवोच्यन्ते तेषां येऽधिपतयोऽग्नयस्तेभ्यः स्वाहेति संबन्धः ॥२॥
म०. 'शेषं मूलेषूपसिञ्चत्यदित्यै व्युन्दनम्' (का० २।७।२०) 'इति । हे प्रोक्षणशेषोदक, त्वमदित्यै अदित्या भूम्याः व्युन्दनमसि विशेषेण क्लेदनमसि ॥ 'बर्हिर्विस्रᳪस्य पुरस्तात्प्रस्तरग्रहणं विष्णोरिति' (का० २।७।२१) इति । हे प्रस्तर दर्भमुष्टिरूप, त्वं विष्णोर्यज्ञस्य स्तुपोऽसि । 'ष्ट्रयै स्त्यै शब्दसङ्घातयोः' । औणादिको डुप्प्रत्ययः । दर्भसङ्घातरूपत्वात्केशसङ्घातरूपा शिखेव भवसि ॥ 'वेदिᳪस्तृणात्यूर्णम्रदसमिति' (का० २। ७ । २२) इति । हे वेदे, त्वां स्तृणामि बर्हिषा छादयामि । किंभूतां त्वाम् । ऊर्णम्रदसमूर्णमिव मृदुतरामतिशयेन मृदुर्म्रदीयसी । ईयलोपश्छान्दसः। यथा प्रभोरुपवेष्टुं भूमिः कम्बलादिनाच्छाद्यते काठिन्याभावाय तथा दभैंराच्छादिता वेदिर्मृदुः स्यात् । पुनः किंभूतां त्वां । देवेभ्यः स्वासस्थां देवोपकाराय सुखेनासितुं स्थानभूतां सुखेन आसेनासनेन स्थीयते यस्यां सा स्वासस्था ताम् । 'स्कन्नमभिमृशति भुवपतये स्वाहेति' (का० २।७। २२) इति । एतन्मन्त्रत्रयस्यात्रोत्कर्षः। भुवपत्यादयस्त्रयोऽग्नेर्भ्रातरः । स्वाहाशब्दो निपातो देवान्प्रति दानवाची। स्वाहाकारं च वषट्कारं च देवा उपजीवन्ति' इति श्रुतेः । हविर्ग्रहकाले परिधिभ्यो बहिर्यद्धविः स्कन्नं तद्भुवपत्यादिभ्यः । अग्नेर्भ्रातरो वषट्कारभयाद्भूमिं प्राविशंस्तद्दुःखेनाग्निरपि पलाय्योदके प्राविशत्ततो देवैरानीय स्वाधिकारे स्थाप्यमान एवमवदद्यदेतैर्मद्भ्रातृभिर्मां परिधत्तैषां च यज्ञभागः कल्प्यतामिति । ततस्तेऽग्नेर्भ्रातरः परिधयो जातास्तेषां च स्कन्नं हविर्भागः कृत इति कथा ॥२॥

तृतीया।
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्टयै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः ।। ३ ।।