पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उर्ध्वमुद्गूहति विष्णोर्वेष्योसि । विष्णोर्यज्ञस्य वेष्यः। विष्लृ व्याप्तौ' 'वेष्ट वेष्टने'। अनयोर्धात्वोरन्यतरस्य रूपम् । यज्ञस्य व्यापनं वेष्टनं वा त्वमसि । वेष्य आवर्त उच्यते इत्यपरम् । आज्यमुद्वासयति । उर्जेत्वेति व्याख्यातम् । पत्न्याज्यमवेक्षते । अदब्धेनेति आज्यमुच्यते । अदब्धेन । दभ्नातिर्हिंसार्थः । अनुपहिंसितेन त्वां चक्षुषा अर्वाचीनं पश्यामि । किंच अग्नेर्जिह्वासि । यदा वा एतदग्नौ जुह्वति । अथाग्नेः जिह्वा इवोत्तिष्ठन्ति ज्वालोत्पत्तिनिमित्तमित्यर्थः । सुहूर्देवेभ्यः। साधु हूयतेनेनेति सुहूः । अथवा शोभनमाह्वानं यस्य देवेभ्योऽर्थाय तदाज्यं सुहूः । उपकृत्य प्रत्युपकारं प्रार्थयते । धाम्ने धाम्ने मे भव यजुषे यजुषे । धामानि त्रीणि भवन्ति स्थानानि नामानि जन्मानीति च । धाम्ने धाम्ने यजुषे यजुषे इति द्विर्वचनं वीप्सार्थम् । मम यज्ञस्य यावन्ति स्थानानि यावन्ति यजूंषि तावन्ति व्याप्नुहीत्यर्थः ॥ ३०॥
म० 'पत्नीᳪ संनह्यति प्रत्यग्दक्षिणत उपविष्टां गार्हपत्यस्य मुञ्जयोक्त्रेण त्रिवृता परिहरत्यधोवासोऽदित्यै रास्नासीति' (का. २।७।१) इति । हे योक्त्र, अदित्यै अदित्या भूम्यास्त्वं रास्नासि रशना भवसि ॥ 'दक्षिणं पाशमुत्तरे प्रतिमुच्योर्ध्वमुद्गूहति विष्णोर्वेष्य इति न ग्रन्थिं करोतीति' (का० २।७।२-३) हे दक्षिणपाश, त्वं विष्णोः यज्ञस्य वेष्योऽसि व्यापकोऽसि । 'विष्लृ व्याप्तौ' ॥ 'ऊर्जेत्वेत्याज्यमुद्वास्येति' (का० २ । ७ । ४) हे आज्य, त्वामुद्वासयामीति शेषः । किमर्थम् । ऊर्जे उत्तमरसलाभाय । विलापितं घृतं सुस्वादु भवति । ‘पत्नीमवेक्षयत्यदब्धेनेतीति' ( का० २।७।४) । दभ्नोतिर्हिंसार्थः । हे आज्य, अदब्धेन अनुपहिंसितेन चक्षुषा त्वामवपश्यामि । अवाचीनं यथा तथाधोमुखी सती पश्यामि । किंच हे आज्य, त्वमग्नेर्जिह्वासि । यदाज्यमग्नौ हूयते तदा जिह्वेव ज्वालोत्पद्यतेऽतस्त्वमग्नेर्जिह्वा । किंभूतम् । देवेभ्योऽर्थाय सुहूः सुष्ठु हूयन्ते इति सुहूः । पुंस्त्वं छान्दसम् । यद्वा जिह्वाविशेषणम् । सुष्ठु हूयन्ते देवा आहूयन्तेऽनया सा सुहूर्जिह्वा । ज्वालां दृष्ट्वा आयान्तीत्यर्थः । अतो मे मम धाम्ने धाम्ने भव । तथा यजुषे यजुषे च भव । धाम स्थानम् । फलेन युज्यत इति यजुःशब्दो यागवाची । धाम्ने धाम्ने तत्तद्यागफलोपभोगस्थानसिद्ध्यर्थं भव । यजुषे यजुषे तत्तद्यागसिद्धये योग्यं भवेत्यर्थः ॥ ३० ॥

एकत्रिंशी।
स॒वि॒तुस्त्वा॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
स॒वि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॑: ।
तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि ।। ३१ ।।
इति माध्यंदिनीयवाजसनेयिसंहितायां प्रथमोऽध्यायः ॥१॥
उ०. आज्यमुत्पुनाति । सवितुस्त्वा सवितुः प्रसवे वर्तमानस्त्वामुत्पुनामि । व्याख्यातमन्यत् । प्रोक्षणीरुत्पुनाति । सवितुर्व इति व्याख्यातम् । आज्यमवेक्षते । तेजोसि शुक्रमसि अमृतमसि । यो ह्येतद्भक्षयति ददाति जुहोति वा तस्य तेजःप्रभृतीनि भवन्तीति वाक्यार्थः । यद्वा यत एवैतद्गुणयुक्तमाज्यम् । आज्यं गृह्णाति । धामनामासि । धाम स्थानम् , अन्नम् आयतनम् । धीयतेऽस्मिन्निति धाम इति धाम असि । नामयति सर्वाणि भूतानि आत्मानं प्रति अतो नाम । प्रियं देवानाम् इष्टमभिप्रेतं देवानाम् । अनाधृष्टम् अनाधर्षितम् अप्रतिहतं रक्षोभिः । देवयजनमसि । देवा अनेन इज्यन्ते इति देवयजनम् ॥ ३१॥
इति मन्त्रभाष्ये उवटकृतौ प्रथमोऽध्यायः ॥ १॥
म० 'सवितुस्त्वेत्याज्यमुत्पुनातीति' (का०२।७।७)। सवितुर्देवस्य प्रसवे आज्ञायां वर्तमानः संस्त्वामुत्पुनामि शोधयामि । व्याख्यातमन्यत् । 'प्रोक्षणीश्च पूर्ववदिति' ( का० २।७।८)। सुवितुर्वः । वो युष्मानुत्पुनामीति व्याख्यातम् । 'आज्यमवेक्षते तेजोऽसीति' (का० २ । ७ । ७)। हे आज्य, त्वं तेजोऽसि । शरीरकान्तिहेतुत्वात्तेजस्त्वम् । शुक्रमसि दीप्तिमदसि । स्निग्धरूपत्वाद्दीप्तिमत्त्वम् । अमृतमसि विनाशरहितमसि । बहुदिवसावस्थानेऽप्योदनादिवत्पर्युषितत्वादिदोषाभावादविनाशित्वम् ॥ 'स्रुवेणाज्यग्रहणं चतुर्जुह्वां धाम नामेति सकृन्मन्त्रं' ( का० २ । ७ । ११-१२) इति । हे आज्य, त्वं धाम स्थानमसि । धीयते स्थाप्यते चित्तवृत्तिर्देवैरत्रेति धाम । तथा नाम नामयति आत्मानं प्रति सर्वाणि भूतानीति नाम । आज्यं दृष्ट्वा सर्वेऽप्यत्तुं नमन्ति । तथा देवानां प्रियमिष्टमनभिभूतम् । गतसारत्वदोषेणातिरस्कृतम् । चरुपुरोडाशादीनि चिरस्थित्या गतसाराणि स्युरिदं न तथा । देवयजनं देवा इज्यन्तेऽनेनेति यागसाधनम् ईदृशं त्वमस्यतस्त्वां गृह्णामीति वाक्यशेषः ॥३१॥
श्रीमन्महीधरकृते वेददीपे मनोहरे । शाखाद्याज्यग्रहान्तोऽयमध्यायः प्रथमोऽगमत् ॥ १॥

द्वितीयोऽध्यायः।
तत्र प्रथमा।
कृष्णो॑ऽस्याखरे॒ष्ठोऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टां॒ प्रोक्षा॑मि ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॑मि ।। १ ।।
उ० इध्मं प्रोक्षति । कृष्णोऽस्याखरेष्ठः । अस्ति कृष्णशब्दो वर्णवचनोऽन्तोदात्तः। अस्ति कृष्णशब्दो मृगवचन आद्युदात्तः। तदिहाद्युदात्तत्वात्कृष्णमृगो गृह्यते । तथाहि श्रुतिः 'यज्ञो ह देवेभ्योऽपचक्राम स कृष्णो भूत्वा चचार' इति । इध्मपूलक