पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अनुदिश्य दर्शनेन सम्यक्संपाद्य अद्यापि यजन्ते इति दर्शनप्रशंसा । प्रैषः । प्रोक्षणीरासादय । प्रोक्ष्यते आभिरिति प्रोक्षण्यः ता आसादय स्थापय । स्फ्यं प्रहरति । द्विषतो वधोसि । द्वेष्टुर्वधो विनाशस्त्वमसि ॥२८॥
म० 'पुरा क्रूरस्येत्यनुमार्ष्टीति' (का० २।६।३२)। अत्रेयमाख्यायिका मन्त्रेऽभिप्रेता--कदाचिद्देवानामसुरैः सह संग्राम उपस्थितस्तदा देवैर्मिथो मन्त्रितं यदस्या भूमेरुत्कृष्टं देवयजनस्थलं तच्चन्द्रे संस्थाप्य युद्धं कुर्मस्तत्र यद्यप्यस्माकं पराजयः स्यात्तदा देवयजने यागं विधाय पुनर्दैत्यपराजयं करिष्याम इति संमन्त्र्य भूमेः सारभागं देवयजनं चन्द्रे स्थापयामासुस्तत् कृष्णवर्णमिदानीमपि दृश्यत इत्याख्यानमयं मन्त्रो ब्रूते (१ । २ । ५। १८)। पुरा क्रूरस्येति त्रिष्टुप् चन्द्रदेवत्या । विरप्शीति महन्नाम । विविधं रपति वेदत्रयरूपेण शब्दं करोतीति विरप्शी । यज्ञो वेदित्वं प्राप्तो विष्णुः संबोध्यते । हे विरप्शिन् विष्णो परमेश्वर, त्वं शृणु । अनुगृहाणेति शेषः । क्रूरशब्दोऽत्र संग्रामवाची । 'संग्रामो वै क्रूरम्' (१।२।५।१९) इति श्रुतेः । विविधं सर्पन्ति योधा यस्मिन्निति विसृप् तस्येति क्रूरविशेषणम् । पञ्चम्यर्थौ षष्ठ्यौ । विसृपो नानायोधयुतात्क्रूराद्युद्धात्पुरार्थाद्देवाः जीवदानुं जीवं ददातीति जीवदानुस्तां जीवस्य धात्रीं सारभूतां यां पृथिवीमुदादाय ऊर्ध्वं गृहीत्वा स्वधाभिः वेदैः सह चन्द्रमसि इन्दौ ऐरयन्प्राक्षिपन्स्थापयामासुः । धीरासः धीरा मेधाविनः । तामु । उ एवार्थे । तामेव चन्द्रस्थां पृथिवीमनुदिश्य दर्शनेन संपाद्य सैव भूमिरस्यां वेद्यां विद्यत इति भावयित्वा यजन्ते यागं कुर्वन्ति । स्वधाशब्दो यद्यप्यन्नवाची तथाप्यत्रान्नहेतुभूता वेदत्रयी कथ्यते । 'यां चन्द्रमसि ब्राह्मणा दधुः' (१।२।५। १९) इति श्रुतेः। ब्रह्मणा वेदेन सहेत्यर्थः । अनेन मन्त्रेण खातायां वेद्यां लोष्टकृतवैषम्यनिवृत्तये समीकरणरूपं मार्जनं कुर्यात् । प्रोक्षणीरासादयेति अग्नीध्रंप्रति प्रैषः । प्रोक्ष्यन्त आभिरिति प्रोक्षण्य आपस्ता आसादय वेद्यां स्थापय । 'द्विषतो वध इति स्फ्यमुदञ्चं प्रहरतीति' (का० २।६।४२)। हे स्फ्य, त्वं द्विषतः शत्रोर्वधोऽसि हिंसकोऽसि ॥ २८ ॥

एकोनत्रिंशी।
प्रत्यु॑ष्ट॒ᳪ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो निष्ट॑प्त॒ᳪ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः ।
अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ।
प्रत्यु॑ष्ट॒ᳪ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ᳪ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः ।
अनि॑शिताऽसि सपत्न॒क्षिद्वा॒जिनीं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ।। २९ ।।
उ० अथ स्रुवमादत्ते। तं प्रतपति प्रत्युष्टमिति व्याख्यातम् । स्रुवं संमार्ष्टि। अनिशितोसि शो तनूकरणे'। निशितस्तीक्ष्णीकृतः न निशितः अनिशितः अतीक्ष्णीकृतस्त्वमसि । तथापि सपत्नक्षित् सपत्नान्क्षिणोतीति सपत्नक्षित् । 'क्षिण क्षिणि हिंसायाम्'। क्षिण हिंसार्थः । यतश्च त्वं यजमानस्य सपत्नक्षित् अतो वाजिनं त्वा । वाजशब्दोऽन्नवचनः । इह तु यज्ञवचनः। यतोऽसि देवानामन्नम् । 'यज्ञो देवानामन्नम्' इति श्रुतिः। तं वाजमन्नं यज्ञाख्यं योऽर्हति स वाजी । अर्हार्थे इति णिन् । वाजिनं यज्ञियं त्वाम् । वाजेध्यायै 'ञिइन्धी दीप्तौ' । यज्ञोज्वलनार्थम् । संमार्ज्मि संशोधयामि 'मृजूष् शुद्धौ' । स्रुवं च प्रतपति प्रत्युष्टमिति । व्याख्याते यजुषी । संमार्ष्र्टि स्रुचम्। अनिशितासि व्याख्यातम् ।अनिशितेति स्त्रीत्वविवक्षायां टाप् प्रत्ययः। वाजिनीमिति ङीप् प्रत्ययः। एतावानेव विशेषः॥२९॥
म० 'स्रुवं प्रतप्य पूर्ववदिति' (का० २।६।४५)। यथा | शूर्पाग्निहोत्रहवण्योः प्रत्युष्टमिति प्रतपनं कृतं तथा स्रुवस्यापि कार्यमित्यर्थः । मन्त्रो व्याख्यातः ॥ 'वेदाग्रैरन्तरतः प्राक्संमार्ष्ट्यनिशित इतीति' ( का० २।६। ४६)। हे स्रुव, त्वमनिशितोऽसि । 'शो तनूकरणे' । नितरां शितस्तीक्ष्णीकृतो निशितस्तथा न भवतीत्यनिशितः । अस्मद्विषये तीक्ष्ण उपद्रवकारी न भवसीत्यर्थः । यतः सपत्नक्षित् । 'क्षिणु हिंसायाम् । सपत्नानस्मच्छत्रून्क्षिणोति हिनस्तीति सपत्नक्षित् । अतएव त्वां संमार्ज्मि सम्यक् शोधयामि । 'मृजू शुद्धौ' । किंभूतं त्वाम्। वाजिनं वाजोऽन्नमस्यास्तीति वाजिनं यज्ञद्वारा अन्नहेतुत्वादन्नवन्तम् । यद्वा वाजो यज्ञस्तद्वन्तम् । 'यज्ञो हि देवानामन्नम् (५।१।१-२) इति श्रुतेः । वाजं यज्ञाख्यमन्नमर्हतीति वाजिनम् । अर्हार्थे इन्प्रत्ययः । किमर्थं संमार्ज्मि । वाजेध्यायै 'ञिइन्धी दीप्तौ' इन्धनं इध्या दीप्तिः । वाजस्येध्या वाजेध्या तस्यै वाजेध्यायै यज्ञस्य दीप्त्यै प्रकाशनार्थम् । शोधितेन स्रुवेणाज्ये गृहीते हुते च सति अग्निर्दीप्यते । तद्दीप्त्याहुतिफलभूतमन्नं प्रकाशितं भवतीत्यर्थः ॥ 'प्रतप्य प्रतप्य प्रयच्छत्यनिशितेति स्रुचा' (का० २ । ६ । ४७-४८) इति । अनिशितेति मन्त्रेण स्रुचस्तिस्रो जुहूपभृद्ध्रुवाः संमृज्य प्रत्येकं प्रत्युष्टमिति मन्त्रेण प्रतप्य प्रतप्य वेद्यां स्थापनार्थमध्वर्यवे प्रयच्छतीति सूत्रार्थः । प्रत्युष्टमिति व्याख्यातम् । अनिशितेत्यपि व्याख्यातम् । स्रुवस्य पुंस्त्वादादौ स्रुवसंमार्जनम् । स्रुचां स्त्रीत्वात्पश्चात् । 'योषा वै स्रुग्वृषा स्रुवः' (१।३। १।९) इत्यादिश्रुतेः । जुह्वादीनां स्रुचां स्त्रीलिङ्गत्वात्तद्विशेषणयोरनिशितावाजिनीमित्यनयोः स्त्रीत्वं विशेषः ॥ २९ ॥

त्रिंशी।
अदि॑त्यै॒ रास्ना॑सि विष्णो॑र्वे॒ष्यो॒ऽस्यू॒र्जे त्वा ऽद॑ब्धेन त्वा॒ चक्षु॒षाव॑पश्यामि ।
अ॒ग्नेर्जि॒ह्वासि॑ सु॒हूर्दे॒वेभ्यो॒ धाम्ने॑ धाम्ने मे भव॒ यजु॑षे यजुषे ।। ३० ।।
उ० योक्त्रेण पत्नीᳪ संनह्यति । अदित्यै रास्नासि । | अदित्याः संबन्धिनी या रास्ना सा त्वमसि । रास्ना रशना ।