पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्प्रहरेत् । व्रजं वर्षतु बधानेति मन्त्रत्रयस्य प्रयोगो व्याख्या च पूर्ववत् ॥ 'अभिन्यस्यत्यग्नीदुत्करमररो दिवमितीति' (का० २। ६ । २२)। हे अररो असुर, दिवं द्युलोकं यागफलरूपं त्वं मा पप्तः मा गमः । स्वर्गे त्वया न गन्तव्यम् । 'पत्लृ गतौ' 'पतः पुम्' (पा० ७.१.१९) इति लुङि पुमागमे रूपम् ॥ 'द्रप्सस्त इति तृतीयमिति' (का० २ । ६ । २३ )। हे वेदिदेवते, ते तव पृथिवीरूपाया यो द्रप्स उपजीव्यो रसः द्यां द्युलोकं मा स्कन् मा स्कन्दतु मा गच्छतु । 'स्कन्दिर्गतिशोषणयोः' । व्रजं गच्छेत्यादिमन्त्रत्रयप्रयोगो व्याख्या च पूर्ववत् ॥ २६ ॥

सप्तविंशी।
गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ जाग॑तेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि ।
सु॒क्ष्मा चासि॑ शि॒वा चा॑सि स्यो॒ना चासि॑ सु॒षदा॑ चा॒स्यूर्ज॑स्वती॒ चासि॒ पय॑स्वती च ।। २७ ।।
उ० पूर्वं परिगृह्णाति । गायत्रेण त्वा । त्वाशब्देन विष्णुरुच्यते । 'ते प्राञ्चं विष्णुं निपाद्य' इति श्रुतिः । गायत्रेण त्वा छन्दसा परिगृह्णामि । एवमुत्तरयोः त्रैष्टुभेन जागतेनेति विशेषः । उत्तरं परिग्रहं परिगृह्णाति । पूर्वेण परिग्रहेण विष्णुं यज्ञं परिगृह्य तेन इमां पृथिवीं लब्ध्वा चोत्तरेण परिग्रहेण वक्ष्यमाणैर्गुणैरयोजयन्देवाः । सुक्ष्मा चासि शिवा चासीति दक्षिणतः । सुक्ष्मा इति पृथिवीनाम । शोभना पृथिवी त्वमसि । शिवा शान्ता च त्वमसि। पश्चिमतः। स्योना चासि सुषदा चासि । स्योनमिति सुखनाम । सुखनामरूपा चं त्वमसि । शोभनं यस्यां सीदन्ति सा सुषदा । उत्तरतः ऊर्जस्वती चासि पयस्वती च । अन्नवती चासि पयोविकारै रसैस्तद्वती च ॥२७॥
म० 'पूर्वं परिग्रहं परिगृह्णाति दक्षिणतः पश्चादुत्तरतश्च स्येतीन गायत्रेणेति प्रतिमन्त्रमिति' ( का० २। ६ । २५)। यस्मात्प्रदेशादररुर्निष्काशितस्तत्र वेदेरियत्तां निश्चेतुं दक्षिणादिदिक्त्रये स्फ्येन रेखात्रयकरणं पूर्वः परिग्रहः । विष्णुदेवता मन्त्रत्रयस्य । 'ते प्राञ्चं विष्णुं निपाद्य छन्दोभिरभितः पर्यगृह्णन्' (१।२ । ५-६ ) इति श्रुतेः । हे विष्णो, त्वा त्वां गायत्रेण छन्दसा गायत्र्यादिच्छन्दत्रयरूपतया भावितेन स्फ्येन दिक्त्रये परिगृह्णामि । एवं त्रैष्टुभेन जागतेनेत्युत्तरमन्त्रयोः । ततः छन्दोदेवताः दिक्त्रयेऽसुरेभ्यस्त्वां पालयिष्यन्ति । पूर्वस्यामाहवनीय एव पालकोऽस्तीति भावः । प्रजापतिपुत्रा देवा असुराश्च पूर्वं स्पर्धां चक्रुस्तदा देवान्पराजयं प्राप्तान्मत्वा भूमिमसुरा विभेजुस्तदा देवा वामनरूपं विष्णुमग्रे कृत्वाऽसुरानागत्यास्मभ्यमपि भूम्यंशो दातव्य इति तानयाचिषुः । ततोऽसुरा असूयन्तोऽयं विष्णुर्यावति भूभागे शेते तावान्भवदीयोऽस्त्वित्यूचुस्ततो देवा बह्वेतदस्माकमित्युक्त्वा ते प्राञ्चं विष्णुं निपात्य गायत्रेणेत्यादिमन्त्रैर्यज्ञभूमिं जगृहुः । यज्ञो विष्णुः स यत्र तिष्ठति सैव यज्ञभूमिरिति तैर्विदितत्वाद्वेदिरिति तद्भूमेर्नाम । (१।२५।१-७) इति श्रुतिकथामनुसंधाय वेदिग्रहणं विधेयम् ॥ । 'उत्तरं परिग्रहं परिगृह्णाति सुक्ष्मा स्योनोर्जस्वतीति' ( का० २ ।६।३१)। वेदिखननात्पूर्वं क्रियमाणः पूर्वः परिग्रहः ।पश्चात्रिरहयमाण उत्तरपरिग्रहः । तत्रापि पूर्ववद्दिक्त्रये स्फ्येन रेखात्रयं कार्यम् । हे वेदे, त्वं सुक्ष्मासि शिवा शान्ता चासि । क्ष्मा शोभना भूमिः सुक्ष्मा। खननेनाश्मादिदोषनिवर्तनं भूमेः शोभनत्वम् । उग्रस्यासुरस्य निष्कासनेन शान्तत्वम् । गुणद्वयस्यान्योन्यसमुच्चयार्थौ चकारौ । एकोऽयं मन्त्रः । स्योना सुखरूपासि । स्योनमिति सुखनाम । सुषदा सुष्टु सीदन्ति देवा यस्यां सा सुषदा । सम्यगुपवेशनयोग्या चासि । चकारौ पूर्ववत् । द्वितीयोऽयं मन्त्रः । ऊर्जस्वती पयस्वती चासि । ऊर्जःशब्दोऽन्नवाची । पयःशब्दस्तद्विकारदध्यादिवाची तदुभयवती । चौ पूर्ववत् । तृतीयो मन्त्रः ॥ २७ ॥

अष्टाविंशी।
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम् ।
यामैरयँश्च॒न्द्रम॑सि स्व॒धाभि॒स्तामु॒ धीरा॑सो अनु॒दिश्य॑ यजन्ते ।
प्रोक्ष॑णी॒रासा॑दय द्वि॑ष॒तो व॒धो॒ऽसि ।। २८ ।।
उ० वेदिमनुमार्ष्टि। पुरा क्रूरस्येति । निदानवतां मन्त्राणां पूर्वं निदानं वक्तव्यं पश्चान्मन्त्रार्थः तथा क्षिप्रमवगमो भव तीति देवा असुरैः सह संग्रामं करिष्यन्त इदमूचुः -- यदस्याः पृथिव्या अनुपहतं देवयजनं तच्चन्द्रमसि स्थापयामः । तत्र यदि कथंचिदस्मानसुरा जयेयुस्ततस्तेनैव देवयजनेन पुनः प्रतिक्रियां करिष्यामः । तदेतच्चन्द्रमसि कृष्णमुपलभ्यत एतदियमृक्त्रिष्टुप् उक्तवती। पुराक्रूरस्य । क्रूरशब्दः संग्रामवचनः । पञ्चम्यर्थे षष्ठी। प्राक्संग्रामात् । विसृपः 'सृपितृदोः कसुन्' इति कसुन्प्रत्ययान्तं तुमर्थेऽव्ययं पञ्चम्यर्थे । विविधं सर्पन्ति योद्धारोऽस्मिन्निति विसृपाः । विरप्शिन् इति आमन्त्रितं महन्नाम । स च विष्णुर्यज्ञवेदित्वमापन्नः स हि त्रिभिर्वेदैर्निर्वर्त्यमानो विविधं रप्शति शब्दं करोति । हे विरप्शिन् विष्णो, शृणु । उदादाय उत्क्षिप्य प्रकृतत्वाद्देवाः । पृथिवीं जीवदानुम् जीवितस्य दात्रीम् । सारभूतामित्यर्थः । यामैरयंचन्द्रमसि स्वधाभिः यो ऐरयन् । 'ईर गतौ' । अनेकार्थत्वाद्धातूनामिह स्थापनार्थः। चन्द्रमसि स्थापितवन्तः। स्वधाभिः। स्वधाशब्दोऽन्नवचनः । इह त्वन्नहेतुभूतास्तिस्रो विद्या गृह्यन्ते। 'यां चन्द्रमसि ब्राह्मणा दधुः' इति श्रुतेः । त्रयीलक्षणे ब्राह्मणाः संहितां यां पृथिवीं चन्द्रमसि न्यदधुः । तामु धीरासो अनुदिश्य यजन्ते । तां पृथिवीं धीरासो मेधाविनः