पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० स्फ्यमादत्ते। देवस्यत्वेति व्याख्यातं । आददे गृह्णामि । अध्वरकृतं अध्वरं करोतीति अध्वरकृत् तमध्वरकृतं । देवेभ्योर्थाय । आलभ्य जपति । इन्द्रस्य बाहुरसि । इन्द्रस्य बाहुर्दक्षिणस्त्वमसि । एष वै वीर्यवत्तमो य इन्द्रस्य बाहुर्दक्षिणः । सहस्रभृष्टिः बहुभारः । शततेजाः बहूनि तेजांसि यस्य स शततेजाः । वायुरसि तिग्मतेजाः । तिग्मं तेजः । तेजतेरुत्साहकर्मणः । उत्साह एव तेजो यस्य स तथोक्तः । द्विषतः शत्रोर्वधः वधकः ॥ २४ ॥
म० 'देवस्य त्वेति स्फ्यमादायेति' (का० २ । ६ । १२) देवस्य त्वेति व्याख्यातम् । देवेभ्यो देवोपकारार्थं अध्वरकृतं अध्वरं करोति वेदिखननादिद्वारेणेत्यध्वरकृतं स्फ्यमहमाददे गृह्णामि । 'सतृणᳪ सव्ये कृत्वा दक्षिणेनालभ्य जपतीन्द्रस्य बाहुरितीति' (का० २ । ६ । १३)। हे स्फ्य, त्वमिन्द्रस्य दक्षिणो बाहुरसि । तेन बाहुना धृतत्वात्तत्समानवीर्योपेतत्वाद्वा स्फ्यस्य बाहुरूपत्वोपचारः । किंभूतः स्फ्यः । सहस्रभृष्टिः भृष्टिर्भर्जनं पाकः । मारणमिति यावत् । सहस्रसंख्याकानां शत्रूणां भृष्टिर्यस्य स सहस्रभृष्टिः । तथा शततेजाः शतं तेजांसि यस्य सः बहुधा दीप्यमानः । किंच वायुरसि न केवलमिन्द्रबाहुसदृशः किंतु वायुसदृशोऽप्यसि । अतएव तिग्मतेजाः तीक्ष्णतेजाः । यथा वायुर्वह्निं प्रदीप्य तीव्रां ज्वालामुत्पादयंस्तीव्रतेजा भवति एवं स्फ्योऽपि स्तम्बच्छेदरूपं कर्म कुर्वंस्तीव्रतेजा उच्यते । तथा द्विषतो वधः । हन्तीति वधः कर्मद्वेषिणामसुरादीनां हन्तेत्यर्थः ॥ २४ ॥

पञ्चविंशी।
पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा हि॑ᳪसिषं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।। २५।।
उ० प्रहरति । पृथिवि देवयजनि । वेदिः संबोध्यते । हे पृथिवि देवयजनि । देवा यस्यामिज्यन्ते सा तथोक्ता । ओषध्याः ते तव संबन्धिन्याः मूलं मा हिᳪसिषम् । 'तृह हिसि हिंसायाम्' । माङि लुङ् । मा विनाशिषम् । वज्रेण हरन् पुरीषमादत्ते । व्रजं गच्छ । व्रजन्त्यस्माद्गाव इति व्रजो घोषः गोवाटो वा उच्यते । गोव्रजो वा परिवृतं वा गवां स्थानं गच्छ । वेदिं प्रेक्षते। वर्षतु ते द्यौः वर्षतु तव द्युलोकः । शान्त्यर्थं वचनम् । उत्करे करोति । बधान । 'बध बन्धने बन्धनं कुरु। हे देव सवितः परमस्यां पृथिव्यां यत्र अन्धतामिस्रो नरकः तत्र । 'अन्धे तमसि बधानेति यदाह परमस्याम्' इति श्रुतिः । शतेन पाशैर्बहुमिः पाशैर्योऽस्मान्द्वेष्टि शत्रुः यं च वयं द्विष्मः शत्रुं तं अतः अस्मान् अन्धतमसः मामौक् । 'मुच्लृ मोक्षणे' । मा मुञ्च ॥ २५॥
म० 'पृथिवि देवयजनीति तृणेऽन्तर्हिते प्रहरतीति' (का० २।६।१५-१६)। हे पृथिवि हे देवयजनि, देवा इज्यन्ते यस्यां सा देवयजनी तस्याः संबोधने हे देवयजनि, ते तव ओषध्यास्तृणरूपाया मूलमहं मा हिᳪसिषं मा विनाशयामि। 'व्रजं गच्छेति पुरीषमादत्ते' (का० २ । ६ । १७) इति । स्फ्यप्रहारोत्पन्ना मृत् पुरीषमुच्यते । हे पुरीष, त्वं व्रजं गच्छ । व्रजन्ति गच्छन्ति स्थातुं गावो यत्र स देशो व्रजस्तं । किंभूतम् । गोष्ठानं गवां स्थानमिदानीमवस्थितिर्यत्र तं गोयुक्तं तदीयं स्थानं गच्छेत्यर्थः ॥ 'वर्षतु त इति वेदिं प्रेक्षत इति' (का. २। ६ । १८)। हे वेदे, ते तुभ्यं त्वदर्थं द्यौर्द्युलोकाभिमानी देवो वर्षतु जलसेकं करोतु । 'वृष सेचने' वर्षणेन खननजनितदुःखशान्तिरस्त्वित्यर्थः ॥ 'बधानेत्युत्करे करोतीति' (का. २।६। १९)। स्फ्योत्खातां मृदमुत्करे त्यजेत् । हे देव सवितः, योऽस्मान्द्वेष्टि द्वेषं करोति वयं च यं शत्रुं द्विष्मस्तमुभयविधं शत्रु परमस्यां पृथिव्यां बधान । परमा अन्तिमा पृथिवी । छान्दसः स्याडागमः । उत्करे क्षिप्तायां धूल्यां निगूढस्य शत्रोस्तत्र बन्धनं कुरु यत्र भूमेरन्तिमप्रदेशेऽन्धतामिस्रो नरकोऽस्ति । तथाच श्रुतिः 'अन्धे तमसि बधानेति यदाह परमस्यां पृथिव्याम्' (१।४ । १६) इति । कैर्बन्धनं कर्तव्यं तदाह । शतेन पाशैः शतसंख्याकाभिर्बन्धनरज्जुभिः । किंच अस्मादन्धतामिस्रान्नरकात्तं मा मौक् कदाचिदपि मा मुञ्च ॥२५॥

षड्विंशी ।
अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।
अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।। २६ ।।
उ०. द्वितीयं प्रहरति । अपाररुम् । अररुः असुरः तमपनीय । पृथिव्यै पृथिव्याः देवयजनाच्च अपाररुं वध्यासम् । व्रजं गच्छेति समानम् । अभिन्यस्यत्यग्नीदुत्करमररो दिवमिति । हे अररो, त्वं दिवं द्युलोकं । मा पप्तः मा गमः। तृतीयं प्रहरति द्रप्सस्ते द्याम् । योऽस्याः पृथिव्या उपजीवनीयो रसः स द्रप्सः ते तव द्यां द्युलोकम् । मा स्कन् मास्कान्सीद मास्कन्तु । व्रजं गच्छति समानम् ॥ २६ ॥
म० 'अपाररुमिति द्वितीयं प्रहरतीति' (का० २।६।२१)। पृथिव्यै देवयजनात्पृथिव्याः संबन्धिनो देवयजनाख्याद्वेदिस्थानात् अररुम् अररुनामानमसुरमप बध्यासम् अपनीय यथा हतो भवति तथा करवाणि । अनेन मन्त्रेण द्वितीयवारं पूर्वव