पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विश्वायुः विश्वं सर्वं आयुरस्येति विश्वायुः । 'विश्वायुरिति तदायुर्दधाति' इति श्रुतिः । पुरोडाशं प्रथयति । उरु प्रथस्व उरुप्रथाः उरु विस्तीर्णं प्रथसे स्वभावतस्तं त्वां ब्रवीमि । उरुप्रथस्व । किंच उरु ते तव यज्ञपतिर्यजमानः पुत्रान्नपश्वादिभिः प्रथतां विस्तारमाप्नोतु । अद्भिरभिमृशति । अग्निष्टे। हे पुरोडाश, अग्निः ते तव त्वचं मा हिंसीदिति । श्रपयति । देवस्त्वा । देवः सविता त्वां श्रपयतु । वर्षिष्ठे उत्कृष्टे नाके स्वर्गे अधि उपरि स्थितम् । सविता वा नाके स्थितः । सविता नः संस्तरएव । स ह्याधियज्ञिको यज्ञमधिकृत्य वर्तते । देवलोकः पुरोडाशशरीरस्य च यज्ञस्यैतज्जन्म यच्छ्रपणं । स यदि देवलोके जायते अतस्तत्समानयोगक्षेमो यजमानोऽपि तत्रैव जनिष्यत इति तत्र जन्माशास्यते ॥ २२ ॥
म०. 'संयौति जनयत्यै त्वेति' (का० २।५ । १४ ) इति । अपां पिष्टानां च मिश्रीकरणे संयवनम् । हे जलपिष्टरूपपदार्थद्वय, त्वां संयौमि सम्यङ्मिश्रीकरोमि । 'यु मिश्रणामिश्रणयोः'। किमर्थम् । जनयत्यै यजमानस्य प्रजोत्पादनार्थम् । जलपिष्टयोर्यथा मिश्रणं तथा शुक्रशोणितमिश्रणेन यजमानस्य प्रजोत्पत्तिर्भवति तदर्थं त्वां संयौमि । यद्वा जनयत्यै पुरोडाशोत्पत्त्यै त्वां संयौमि । 'संविभज्यासंहरिष्यन्नालभते इदमग्नेरिदमग्नीषोमयोरिति' (का० २।५।१५) इति । मिश्रीकृतस्य पिष्टस्यावदानाङ्कितं पिण्डद्वयं कृत्वा पुनरमेलयिष्यन् इदमग्नेः अग्निसंबन्धि भवत्विति प्रथमं पिण्डं स्पृशेत् । इदमग्नीषोमयोर्भवत्विति द्वितीयं स्पृशेत् । 'इषे त्वेत्याज्यमधिश्रयति' (का० २।५।१६) इति । हे आज्य, इषे इष्यमाणवृष्ट्यर्थं त्वामधिश्रयामीति शेषः । आज्यप्रविलापनार्थं तत्पात्रस्याग्नौ स्थापनमधिश्रयणम् । 'घर्मोऽसीति पुरोडाशमिति' (का० २।५।१७)। हे पुरोडाश, त्वं घर्मोऽसि । 'घृ क्षरणदीप्त्योः ' । घर्मशब्देन दीप्यमानः प्रवर्ग्य उच्यते । श्रप्यमाणतया दीप्यमानत्वात्प्रवर्ग्योऽसि । तथा विश्वायुः विश्वं कृत्स्नमायुर्यस्मात्स विश्वायुः ।। यस्माद्यजमानः सर्वमायुराप्नोतीति भावः । 'उरुप्रथा इति प्रथयति यावत्कपालमिति' (का० २।५।२०)। सर्वकपालेषु संश्लेषयितुं तं प्रसारयेत् । हे पुरोडाश, त्वं स्वभावतः उरुप्रथाः उरु विस्तीर्णं यथा तथा प्रथते प्रसरतीत्युरुप्रथाः । अत इदानीमपि उरु प्रथस्व प्रख्यातो भव । किंच ते यज्ञपतिः तव यजमानः उरु विस्तीर्णं पुत्रपश्वादिभिः प्रथतां प्रख्यातो भवतु । 'अग्निष्ट इत्यद्भिरभिमृशतीति' ( का० २।५।२१)। हे पुरोडाश, अग्निः श्रपणाय प्रवृत्तः ते तव त्वचं त्वक्सदृशमुपरितनभागं मा हिंसीन्मा विनाशयतु । अतिदाहेन मषीभावो विनाशः सोऽत्र मास्वित्यर्थः । अवघातपेषणोत्थः श्रपणाज्जायमानश्च हविष उपद्रवो जलस्पर्शेन शाम्यतीति भावः । 'देवस्वेति श्रपणमिति' (का० २।५।२३)। हे पुरोडाश, सविता देवः वर्षिष्ठे अत्यन्तवृद्धे नाके द्युलोकवर्तिनि नाकनाम्नि अग्नौ त्वा त्वाम् अधि अधिश्रित्य श्रपयतु पक्वं करोतु । मनुष्यस्य श्रपणे कर्तृत्वं मा भूदित्यभिप्रेत्य देवस्त्वेत्युच्यते । 'दिवि नाको नामाग्नी रक्षोहा' इति तित्तिरिवचनान्नाको नाम स्वर्गस्थोऽग्निः ॥ २२ ॥

त्रयोविंशी।
मा भे॒र्मा संवि॑क्था॒ अत॑मेरुर्य॒ज्ञोऽत॑मेरु॒र्यज॑मानस्य प्र॒जा भू॑यात् । त्रि॒ताय॑ त्वा द्वि॒ताय॑ त्वैक॒ताय॑ त्वा।। २३ ।।
उ० पुरोडाशमभिमृशति । मा भेर्मा संविक्थाः। मा त्वं भैषीः । मा च त्वं संविक्थाः । 'ओविजी भयचलनयोः । तत्र भयं प्रतिषिद्धम् । चलनं त्वत्र निषिध्यते । न भेतव्यं न चलितव्यमित्यर्थः । पुरोडाशमभिवासयति । अतमेरुर्यज्ञः। 'तमु अभिकाङ्क्षायाम्' । यद्यप्ययं धातुरभिकाङ्क्षामात्रे पठ्यते तथापि श्वासाभिकाङ्क्षायां भविष्यति । तमनशीलस्तमेरुः। न तमेरुः अतमेरुः यज्ञः। अतमेरुर्यजमानस्य प्रजा भूयात् भवेत्। पात्र्यङ्गुलिप्रक्षालनमाप्तेभ्यो निनयति । त्रिताय त्वा द्विताय त्वा एकताय त्वा । निनयामीति द्रव्यपरो निर्देशः (?)। निनयामीति शेषः । एवं द्विताय । एवमेकताय । तत आप्त्याः संबभूवुः त्रितो द्वित एकत इत्येवमादिरितिहासोऽयमवगन्तव्यः ॥ २३ ॥
म० 'मा भेरित्यालभत इति' (का० २ । ५। २४ )। हे पुरोडाश, त्वं मा भेः भयं मा कार्षीः । मा संविक्थाः चलनं मा कार्षीः । 'ञिभी भये' 'ओविजी भयचलनयोः' इत्यनयोः प्रयोगौ । 'अतमेरुरिति शृतावभिवासयति भस्मना वेदेनोपवेषेण वेति' (का० २।५।२५)। यज्ञः यागहेतुः पुरोडाशः अतमेरुः भूयात् । 'तमु ग्लानौ' ताम्यतीति तमेरुः । : औणादिक एरुप्रत्ययः । न तमेरुरतमेरुः । भस्माच्छादनेन ग्लानिरहितो भवतु । यजमानस्य प्रजा पुत्रपौत्रप्रपौत्रादिः अतमेरुः ग्लानिरहिता भूयात् । यजमानस्य प्रजायाः कदाचिद्दुःखं मास्त्वित्यर्थः । 'पात्र्यङ्गुलिप्रक्षालनमाप्त्येभ्यो निनयत्यभितप्य प्रत्यगसᳪस्यन्दमानं त्रिताय त्वेति प्रतिमन्त्रमिति' (का० २।५।२६) । हे पात्र्यङ्गुलिप्रक्षालनोदक, त्रिताय त्रितनाम्ने देवाय त्वां निनयामीति शेषः । तथा द्विताय त्वा निनयामि । तथा एकताय त्वा निनयामि । पूर्वं कुतश्चिद्धेतोः भीतोऽग्निरपः प्राविशत्ततो देवास्तं ज्ञात्वा जगृहुस्तदाग्निना वीर्यमप्सु मुक्तं तत आप्त्या उत्पन्नास्त्रितद्वितैकतसंज्ञास्ते देवैः सह चरन्तो यज्ञे पात्रीप्रक्षालनजललक्षणं भागं लेभिरे (१।२ । ३ । १) इति श्रुतिकथानुसंधातव्या ॥२३ ॥

चतुर्विंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑देऽध्वर॒कृतं॑ दे॒वेभ्य॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा द्विष॒तो व॒धः ।। २४ ।।