पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एतानि वै जीवतो भवन्त्येवमु हैतज्जीवितमेव देवानां हविर्भवति' इति श्रुतिः । आज्यं निर्वपति । महीनां पयोसीति । महीति गोनाम । महीनां गवां पयो भवसि । पयःशब्देन लक्षणया घृतमभिधीयते ॥ २० ॥
म० 'धान्यमसीति तण्डुलानोप्येति' (का० २।५।५)। हे हविः, त्वं धान्यमसि । धिनोति प्रीणातीति धान्यम् । अतो देवान् अग्न्यादीन् धिनुहि प्रीणय । 'पिनष्टि प्राणाय त्वेति प्रतिमन्त्रमिति' ( का० २ । ५। ६)। प्रकर्षेण अनिति सर्वदा मुखे चेष्टत इति प्राणः श्वासवायुः । उद् अनिति ऊर्ध्वं चेष्टत इत्युदानः उत्क्रान्तिवायुः । व्यनिति व्याप्य चेष्टते इति व्यानो व्यापको बलहेतुर्वायुः । हे तण्डुल, त्वा त्वां प्राणाय प्राणदानार्थं पिनष्मीति शेषः । एवमुत्तरमन्त्रयोर्योज्यम् । देवानां सजीवं हविर्भवतीत्येभिर्मन्त्रैर्हविषां प्राणादिदानेन सजीवत्वं क्रियत इत्यभिप्रायः । 'दीर्घामिति कृष्णाजिने प्रोहति' ( का. २।५। ७) इति । प्रसयनं प्रसितिः। 'षिञ् बन्धने' । प्रबन्धः कर्मसंततिः । दीर्घामविच्छिन्नां प्रसितिमनु कर्मसंततिमनुलक्ष्य । आयुषे यजमानस्यायुरभिवृद्ध्यर्थं हे हविः, त्वां धां कृष्णाजिने दधामि । दधातेर्लुङि 'बहुलं छन्दस्यमाङयोगेऽपि' (६।४ । ७५) इति अडागमाभावः । यजमानस्यायुर्वृद्धौ सत्यां कर्मसन्ततिः प्रवर्तत इति भावः । यद्वायमर्थः । पूर्वमन्त्रैर्हषिषः प्राणादिदानेन सजीवत्वं कृतम् , अनेन पुनरायुर्दीयते हविषः । हे हविः, दीर्घां प्रसितिं कृष्णाजिनाख्यामनु त्वां धां धारयामि । कृष्णाजिने प्रक्षिपामीत्यर्थः । किमर्थम् । आयुषे त्वदीयायुर्वृद्ध्यर्थम् । 'प्रसितिः प्रसयनात् तन्तुर्वा जालं वा' ( निरु० ६ । १२) इति यास्कोक्तेरिह पिष्टग्राहकत्वात्प्रसितिशब्देन कृष्णाजिनमुच्यते । देवो व इत्यादिमन्त्रशेषो व्याख्यातः । 'चक्षुषे त्वेतीक्षत इति' (२।५।८)। हे हविः, चक्षुषे यजमानस्य चक्षुरिन्द्रियपाटवाय त्वा त्वां पश्यामीति शेषः। यद्वा चक्षुषे तव चक्षुरादिबाह्येन्द्रियदानाय त्वामीक्षे । हविषः सजीवत्वे कृते चक्षुराद्यपेक्षा भवतीत्यनेन तत्क्रियते इति भावः । 'पिष्यमाणेषु निर्वपत्यन्यो महीनामित्याज्यम्' (का. २।५।९) इति । हे आज्य, त्वं महीनां गवां पयोऽसि क्षीरमसि क्षीरोत्पन्नत्वाद्धृतं पयःशब्देनोच्यते । महीति गोनाम ॥ २० ॥

एकविंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
संव॑पामि॒ समाप॒ ओष॑धीभि॒: समोष॑धयो॒ रसे॑न ।
सᳪ रे॒वती॒र्जग॑तीभिः पृच्यन्ता॒ᳪ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ताम् ।। २१ ।।
उ० पात्र्यां पिष्टान्यावपति । देवस्य त्वेति व्याख्यातम् । ननु ग्रहणे देवस्यत्वेति यदुक्तं तेनैव दर्शनेना ब्राह्मणतर्पणान्तं कर्म करिष्यति किमनेन पुनर्देवस्य त्वेति । सत्यम् । संस्कारोज्ज्वलनार्थं हितं च पथ्यं च पुनः पुनरुपदिश्यमानं न दोषाय भवतीति । संवपामि । समित्येकीभावमाचष्टे । एकत्र क्षिपामि । अपउपसर्जनीः प्रतिगृह्णाति । समाप ओषधीभिः संपृच्यन्ताम् । 'पृची संपर्के'। संगच्छन्ताम् आप ओषधीभिः पिष्टाभिः । समोषधयो रसेन । संगच्छन्तां च ओषधयः पिष्टाख्यरसेन उपसर्जनीभिः । आपो हि ओषधीनां रसः । सᳪरेवतीर्जगतीभिः पृच्यन्ताम् । रेवत्य आपो जगत्य ओषधयः' इति श्रुतिः । संपृच्यन्तां रेवत्य आपो जगतीभिः ओषधीभिः पिष्टाभिः । संमधुमतीर्मधुमतीभिः पृच्यन्ताम् । मधुशब्दो रसवचनः । संपृच्यन्ताम् मधुस्वादोपेता आपः मधुमतीभिः । संपृच्यन्तां वा मधुवत्स्वादोपेताभिः ओषधीभिः पिष्टाभिः ॥ २१ ॥
म० पात्र्यां सपवित्रायां पिष्टान्यावपति देवस्य त्वेति' (का० २।५।१०)इति । हस्ताभ्यामित्यन्तं व्याख्यातम् । एतानि पिष्टानि संवपामि पात्र्यां सम्यक् क्षिपामि । 'उपसर्जनीरानयत्यन्यः पवित्राभ्यां प्रतिगृह्णाति समाप इति' (का० २।५।१२-१३)इति । पिष्टसंवपनीया आप उपसर्जन्यः । ता अग्नीदानयेदध्वर्युः पवित्राभ्यां प्रतिगृह्णीयात् । आपः उपसर्जनीरूपाः औषधीभिः पिष्टरूपाभिः संपृच्यन्ताम् । 'पृची संपर्के' संगच्छन्तां सम्यगेकीभवन्तु । तथा ओषधयः पिष्टाख्याः रसेन उपसर्जनीरूपेणोदकेन संपृच्यन्ताम् । आपो हि ओषधीनां रसः । तथा रेवतीः रेवत्यः आपः जगतीभिः पिष्ठाख्याभिः संपृच्यन्ताम् । 'रेवत्य आपो जगत्य ओषधयः' (१।२।२।२) इति श्रुतेः । मधुमतीः माधुर्योपेता आपः मधुमतीभिः माधुर्योपेताभिः पिष्टरूपौषधीभिः संपृच्यन्ताम् । अपामोषधीनां परस्परं च परस्परं प्रीतिहेतुत्वात्संपर्को भवत्वित्यर्थः ॥ २१ ॥

द्वाविंशी।
जन॑यत्यै त्वा॒ संयौ॑मी॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ घ॒र्मो॒ऽसि वि॒श्वायु उ॒रुप्र॑था उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथताम् ।
अ॒ग्निष्टे॒ त्वचं॒ मा हिँ॑ᳪसीत् । दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑ ।। २२ ।।।
उ० संयोति। जनयत्यै त्वा। द्व्यर्थोयं मन्त्रः। श्रुतिं व्याचष्टे। जनेर्ण्यन्तस्य क्तिन् जनयतिः। यजमानस्य जनयत्यै श्रीप्रजापशुभिर्यजमानं जनयितुं संमिश्रयितुं त्वां संयौमि । अथवा पुरोडाश उच्यते । जनयत्यै उत्पादनाय त्वां संयौमि संमिश्रयामि । यथा त्वं संमिश्रितः पुरोडाशभावमासाद्याधिश्रितः सन् दैवायोनेरग्नेरधिजायस इति । नह्यमर्त्यं त्वां मर्त्यो जनयितुमर्हति । असंहरिष्यन्नालभते । इदमग्नेरिदमग्नीषोमयोः अर्धशब्दः समविभागवचनो नपुंसकलिङ्गः । तदभिप्रायमिदमिति नपुंसकलिङ्गता । आज्यमधिश्रयति । इषे त्वा व्याख्यातं । पुरोडाशमधिश्रयति । घर्मोऽसि प्रवर्ग्यस्त्वमसि ।