पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ज्वालयान्तरिक्षलोकोपद्रवो यथा न स्यात्तथा कुरु । यद्यप्येतत् कपालं ज्वालान्तरिक्षयोर्मध्ये व्यवधायकं नास्ति तथाप्यन्तरिक्षदार्ढ्याय कपालदेवता प्रार्थ्यते । ब्रह्मवनीत्यादि पूर्ववत् । 'पुरस्ताद्धर्त्रमिति' (का० २।४।३२) इति । प्रथमस्य पूर्वभागे तृतीयं स्थापयेत् । हे कपाल, त्वं धर्त्रं धारकम् असि । दिवं दृंह । ज्वालाग्रेण दाहाभावो द्युलोकस्य दार्ढ्यम् । अन्यत् पूर्ववत् । (का० २।४।३३) विश्वाभ्यः इति । दक्षिणत इति । हे चतुर्थकपाल, विश्वाभ्यः आशाभ्य सर्वदिग्भ्यः सर्वदिग्दार्ढ्याय वा उपदधामि । एवं कपालत्रयोपधानेन यजमानो लोकत्रयं जयति । चतुर्थेन दिशो जयति । तद्गतः पुरोडाशो लोकत्रयरूपो भूत्वा देवताः प्रीणातीत्याशयः । 'समं विभज्य द्वे दक्षिणत एवमुत्तरतश्चितःस्थेति' (का० २।४।३४) इति । आग्नेयपुरोडाशस्याष्टकपालत्वाच्चतुर्णां स्थापितत्वादवशिष्टानां चतुर्णां मध्ये द्वे द्वे दक्षिणोत्तरयोर्निदध्यात् । 'चिञ् चयने' क्विबन्तस्य चित इति बहुवचनम् । हे कपालविशेषाः, यूयं चितः स्थ प्रथमकपालोपचयकारिणः स्थ भवथ । तथा ऊर्ध्वचितः स्थ ऊर्ध्वमुपहितानां द्वितीयादिकपालानामुपकारिणो भवथ । 'भृगूणामित्यङ्गारैरभ्यूहति' (का० २।४। ३८) इति । अङ्गारैः कपालानि छादयेत् । हे कपालानि, यूयं भृगूणामङ्गिरसां भृगुनामकानामङ्गिरोनामकानां देवर्षीणां तपसा तपोरूपेणाग्निनानेन तप्यध्वं तप्तानि भवत । अस्याग्नेस्तदीयरूपत्वं भावयेदित्यर्थः ॥ १८ ॥

एकोनविंशी।
शर्मा॒स्यव॑धूत॒ᳪ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वाऽदि॑तिर्वेत्तु ।
धि॒षणा॑ऽसि पर्व॒ती प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॑त्तु दि॒वः स्क॑म्भ॒नीर॑सि धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒॒ती वे॑त्तु ।। १९ ।।
उ० शर्मासीत्यादीनि त्रीणि यजूंषि व्याख्यातानि । कृष्णाजिने दृषदं निदधाति । धिषणासि । धीः कर्म बुद्धिर्वा तदुभयं सीदति सनोति वा कर्माङ्गत्वाद्दृषत् धिषणोच्यते । धिषणा त्वमसि । पर्वती पर्ववती। अतः प्रतिवेत्तु प्रतिजानातु। त्वामदित्यास्त्वक् पृथिव्यास्त्वक् । कृष्णाजिने शम्यामुपदधाति । दिवस्कम्भनीरसि । दृषदुपलयोः पृथिवीद्युभ्यामुपलक्षितत्वात् शम्याया अन्तरिक्षभक्तित्वं उपपद्यते । दिवः द्यावापृथिव्योः स्कम्भनीः । स्कभ्नोतिः स्तम्भनकर्मा । त्वं स्तम्भनीर्भवसि । 'अन्तरिक्षस्यैव रूपेणान्तरिक्षेण हीमे द्यावापृथिवी विधृते' इति श्रुतिः। दृषद्युपलामुपदधाति । धिषणासीति व्याख्यातम् । पार्वतेयी पार्वत्या अपत्यम् । 'कनीयसी ह्येषा दुहितेव भवति' इति श्रुतिः । वेत्तु प्रतिजानातु त्वां पर्वती माता 'प्रतिहिस्व संजानीत' इति श्रुतिः ॥ १९॥ .
१ सनोति व्याप्नोति ददाति वा.
म० 'कृष्णाजिनमादत्ते पूर्ववत्' (का० २।५।२) इति यथावघातार्थं कृष्णाजिनप्रयोगस्तद्वदत्रापि । शर्मासि । अवधूतम् । अदित्याः । इति मन्त्रत्रयं व्याख्यातम् । 'तस्मिन्दृषदं धिषणासीति' (का० २।५।३।) तस्मिंश्चर्मणि शिलां स्थापयेत् । हे शिले पेषणाधारभूते, त्वं पर्वती पर्वतात्मिका तदुत्पन्ना त्वं धिषणासि धियं बुद्धिं कर्म वा सिनोति व्याप्नोति ददाति वा धिषणा । ह्रस्वत्वमार्षम् । पर्वतवद्धारयन्त्यसि । अदित्याः भूमेः त्वक् कृष्णाजिनरूपा तादृशीं त्वा त्वां प्रति वेत्तु त्वदवस्थानमनुजानातु । 'पश्चाच्छम्यामुपोहत्युदीचीं दिवः' (का० २।५। ४) इति । दृषदः पश्चाद्भागेऽधस्ताच्छम्यां स्थापयेत् । तां प्रत्युच्यते। हे शम्ये, दिवः द्युलोकस्य स्कम्भनीः स्तम्भनकारिणी त्वम् असि । व्यत्ययेन द्वितीयाबहुवचनम् । पतनवारणायान्तरिक्षरूपेण स्तम्भनकारित्वम् । 'अन्तरिक्षेण होमे द्यावापृथिवी विष्टब्धे' (१।२।१।१६) इति श्रुतेः । 'दृषद्युपलां धिषणासीति' (का० २।५।५) । हे उपले, उपरितनशिले, त्वं धिषणासि पेषणव्यापारधारिकासि । किंभूता । पार्वतेयी पर्वत्या अधस्तनदृषदः पुत्री पार्वतेयी बालस्वरूपा । 'कनीयसी ह्येषा दुहितेव भवति' ( १।२।१७) इति श्रुतेः । अतः पर्वती मातृसमा त्वां प्रतिवेत्तु पुत्रीं जानातु ॥ १९ ॥

विंशी।
धा॒न्य॒मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वोदा॒नाय॑ त्वा व्या॒नाय॑ त्वा । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो व॑: सवि॒ता हिर॑ण्यपाणि॒: प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि ।। २० ।।
उ०. दृषदि तण्डुलानावपति। धान्यमसि । धिनोतेः प्रीणनार्थस्य धान्यमिति भवति तदभिप्रायेणैवमाह। यतस्त्वं प्रीणनस्वभावमसि अतः प्रीणीहि देवान् । पिनष्टि। प्राणाय त्वा। अत्र श्रुतिः । 'जीवं वै देवानां हविरमृतममृतानामित्युपक्रम्य दृषदुपलाभ्यां हविर्यज्ञं घ्नन्तीति प्रतिपाद्य स यदाह प्राणाय त्वोदानायत्वेति तत्प्राणापानौ दधातीत्येवमादिना ग्रन्थेन यथा हविषः पुनर्जीवनं क्रियते तथा श्रुतिः प्रतिपादयति । एतदनुसारेण व्याख्यानं करिष्यामः । प्राणाय त्वा प्राणदानाय त्वां पिनष्मि नतु हिंसायै । एवमुत्तरावपि मन्त्रौ व्याख्येयौ। कृष्णाजिने प्रक्षिपति । दीर्घामनु प्रसितिं । 'षह मर्षणे' । प्रसितिः प्रसहनात्तन्तुर्वा जालं वा । इहतु प्रसितिशब्देन कृष्णाजिनमभिधीयते । तदपि हि पिष्टानि गृह्णाति । दीर्घां कृष्णाजिनाख्यां प्रसितिमनु । आयुषे आयुर्दानाय। धां दधामि। देवो व इति व्याख्यातं । ईक्षते । चक्षुषे त्वा चक्षुर्दानाय त्वामहमीक्षे ।
१ स्त्वमेवंस्वभाव.