पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० उपवेषमादत्ते । धृष्टिरसि । 'ञिधृषा प्रागल्भ्ये। अनेनाग्निर्धृष्टमुपचरतीति धृष्टिः । उपवेष उच्यते । धृष्टिस्त्वमसि उपवेष । अङ्गारान् प्राञ्चः करोति । अपाग्ने अग्निमामादं जहि अपजहि । हे भगवन्नग्ने, अग्निमामादं आममत्तीत्यामात् तं । येनेदं मनुष्याः अपक्वमन्नमश्नन्ति स उच्यते। जहातिस्त्यागार्थः । निष्क्रव्यादं सेध निःसेध क्रव्यादमग्निं । येन पुरुषं दहन्ति स क्रव्यात् । सेधतिः परित्यागार्थः । अङ्गारमाहरति । आ देवयजं वह आवह आनय । देवयजमग्निम् । देवा यस्मिन्निज्यन्ते स देवयट् तं देवयजमग्निम् । कपालेनावच्छादयति ध्रुवमसि पृथिवीं दृᳪह । त्रिभिः कपालैः त्रीँल्लोकान् यजमानो जयति । चतुर्थेन दिशो यश्चैषु संस्क्रियते पुरोडाशः सोऽप्याधारवशात्त्रिलोकविग्रह एव भूत्वा देवताः प्रीणातीति प्रकरणार्थः । 'यदु वा आत्मसंमितमन्नं तदवति तन्न हिनस्ति' इति श्रुतिः। ध्रुवमसि ध्रुवं स्थिरं त्वमसि । अतः पृथिवीं दृᳪह दृढीकुरु । नहि स्वयमप्रतिष्ठितोऽन्यस्य प्रतिष्ठां कर्तुं समर्थः । किंच इत्थंभूतं त्वामहमुपदधामि । ब्रह्मवनि त्वा ब्रह्म एव यद्वनोति संभजते तत्कपालं ब्रह्मवनि । एवं क्षत्रवनि । सजातवनि समानंजाताः सजाताः भ्रातृप्रभृतय उच्चन्ते । भ्रातृव्यस्य । 'व्यन्सपत्ने' इति आद्युदात्तत्वाद्भ्रातृव्यशब्दस्य शत्रुरभिधेयः । शत्रोश्च वधाय त्वामुपदधामीत्यनुषङ्गः ॥ १७ ॥
१ अपजहि परित्यज. २ सेधतिरपि त्यागार्थः ३ संस्कृतेषु.
म० 'मूलतः शाखां परिवास्योपवेषं करोतीति । धृष्टिरसीत्युपवेषमादायेति च' (का०२।४।२५)। पलाशशाखाया मूलदेशे छिन्नः काष्ठभाग उपवेषस्तमादत्ते । हे उपवेश, त्वम् धृष्टिरसि प्रगल्भोऽसि । “ञिधृषा प्रागल्भ्ये'। तीव्राङ्गाराणामितस्ततश्चालने प्रभुत्वादस्य प्रागल्भ्यम् । 'अपाग्न इत्यङ्गारान्प्राचः करोति' (का० २।४।२६) । इति तत्र त्रयोऽअग्नयः सन्ति । एक: आमात् आममपक्वमत्तीत्यामाल्लौकिकोऽग्निः । द्वितीयः क्रव्यात् शवदाहे क्रव्यं मांसमत्तीति क्रव्यात् चिताग्नि-। तृतीयो यागयोग्यः । तथाविधांस्त्रीनह्गारान्गार्हपत्यात्प्राग्भागे पृथक्कृत्य तेषां मध्ये यागयोग्यताहीनौ द्वावग्नी आमात्क्रव्यात्संज्ञौ तौ वारयितुं गार्हपत्यं प्रत्युच्यते । हे अग्ने हे गार्हपत्य, आमादमग्निम् अपजहि परित्यज । 'व्यवहिताश्च' (१।४।८२) इति क्रियापदोपसर्गयोर्व्यवधानम् । तथा क्रव्यादम् अग्निं निःषेध निःशेषं दूरे गमय । परित्यजेत्यर्थः। 'आ देवयजमित्यङ्गारमाहृत्य' (का० २।४।२७) इति । हे गार्हपत्य, देवयजं देवानां यागयोग्यं तृतीयमङ्गारम् आवह समीपमानय । देवा इज्यन्ते यस्मिन्नसौ देवयाट् तं देवयजम् । 'कपालेनावच्छादयति ध्रुवमसि' (का० ४।२।२७) इति । देवयजमङ्गारं कपालेनाच्छादयेत् । हे कपाल, त्वं ध्रुवमसि स्थिरं भवसि । अङ्गारोपरि वर्तमानमपि इतस्ततो न पतसि । पृथिवीं भूमिं दृंह दृढीकुरु । पुरोडाशपाकसमये त्वत्कृतव्यवधानेन भूमेर्दाहकृतं शैथिल्यं न भविष्यतीत्यर्थः । किंच त्वाम् उपदधामि अङ्गारे स्थापयामि। किमर्थं । भ्रातृव्यस्य शत्रोरसुरस्य पाप्मनो वा वधाय हिंसार्थम् । 'व्यन्त्सपत्ने' (पा० ४।१।१४५) इत्याद्युदात्तत्वाद्भ्रातृव्यशब्दः शत्रुवाची । किंभूतं त्वां । ब्रह्मवनि । 'वन षण संभक्तौ' ब्रह्मणा ब्राह्मणेन वन्यते पुरोडाशनिष्पत्त्यर्थं स्वीक्रियते इति ब्रह्मवनि। तथा क्षत्रवनि सजातवनीति पदद्वयं योज्यम् । सजाताः समानकुले जाताः यजमानस्य ज्ञातयस्तैर्वन्यते इति ॥ १७ ॥

अष्टादशी।
अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृᳪह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य ब॒धाय॑ ।
ध॒र्त्रम॑सि॒ दिवं॑ दृᳪह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑ ।
विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ उप॑दधामि॒ चितः॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम् ।। १८ ।।
उ० सव्याङ्गुल्या शून्येऽङ्गारं निदधाति । अग्ने ब्रह्म । । हे भगवन्नग्ने, ब्रह्म ब्राहाणं अङ्गुलिप्रदानेन व्यावृत्तमनुगृह्णीष्व । अनुग्रहं कुर्वित्यर्थः । द्वितीयं निदधाति । धरुणमिति साधारणं धारकमसि । अन्तरिक्षं दृᳪह । शेषं पूर्ववत् । | तृतीयं निदधाति । धर्त्रमसि धारयितृ असि । दिवं दृᳪह । चतुर्थं निदधाति । विश्वाभ्यस्त्वा सर्वाभ्यस्त्वां आशाभ्यो दिग्भ्य उपदधामि । इतराणि कपालान्युपदधाति । चितःस्थ । चिञ् चयने । क्विबन्तस्य रूपमिदम् । बहुवचनं च पूर्वोपहितकपालविषयम् । चितानि यूयं तावद्भवथ । ऊर्ध्वचितः ऊर्ध्वं पश्चादुपहितेषु कपालेषु चीयत इति ऊर्ध्वचित् तस्य ऊर्ध्वचितः । उपचीयमानस्येति शेषः। अङ्गारैरभ्यूहति । भृगूणामङ्गिरसां । भृगोः अपत्यानि बहूनि भृगवः । तथाङ्गिरसः । तद्राजस्य बहुषु लुक् । भृगूणां अङ्गिरसां च तपसा यूयं कपालानि तप्यध्वम् ॥१८॥
म०. 'सव्याङ्गुल्या शून्येऽङ्गारं निदधात्यग्ने ब्रह्मेति' (का. २॥४॥३०) इति । हे अग्ने, निधीयमानाङ्गाररूपं ब्रह्म प्रौढं कर्मास्माभिः क्रियमाणं गृभ्णीष्व गृह्णीष्व । नाशकरक्षोवधेनानुगृह्णीष्व । यद्वा ब्रह्म ब्राह्मणं मामनुगृह्णीष्व । अङ्गुलिदानासक्तं मा दृंहेत्यर्थः । 'धरुणमिति पश्चात्' (का. २॥४॥३१) इति पूर्वस्थापितकपालस्य पश्चाद्भागे द्वितीयं निदधाति । हे द्वितीय कपाल, त्वं धरुणं पुरोडाशस्य धारकम् असि । अतोऽन्तरिक्षं दंह दृढीकुरु । पुरोडाशपाकोत्पन्न