पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति ईडागमः । शान्तिर्द्विविधा । बाह्यतुषापनयनादाद्या । सा प्रथमावघातेन स्यात् । अन्तःस्थितमालिन्यस्यापनयनादन्या । सा फलीकरणेन भवति । तं द्विविधं तण्डुलसंस्कारं कुर्वित्यर्थः। 'हविष्कृदेहीति त्रिराह्वयति' ( का० २।४ । १३) इति यजमानः पत्नी वान्यो वा यो व्रीहीनवहन्ति स संबोध्याहूयते । हे हविष्कृत् हविः करोतीति हविष्कृत् । एहि अत्रागच्छ । त्रिवारमुक्तमर्थं देवा मन्यन्त इति त्रिराह्वानम् ॥ १५ ॥

षोडशी।
कु॒क्कु॒टो॒ऽसि॒ मधु॑जिह्व॒ इष॒मूर्ज॒माव॑द॒ त्वया॑ व॒यᳪ सं॑घा॒तᳪ सं॑घातं जेष्म व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धं वेत्तु॒ परा॑पूत॒ᳪ रक्ष॒: परा॑पूता॒ अरा॑त॒यो ऽप॑हत॒ᳪ रक्षो॑ वा॒युर्वो॒ विवि॑नक्तु दे॒वो व॑: सवि॒ता हिर॑ण्यपाणि॒: प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॑ ।। १६ ।।
उ० आहन्ति अन्यो दृषदुपले। कुक्कुटोऽसि । अत्र 'मनोर्ह चा ऋषभ आस' इत्यादीतिहास उत्प्रेक्षितव्यः । कुत्सितं शब्दमसुरघ्नमसुराणां तनोतीति कुक्कुटः । अथवा असुरघ्नीं वाचमुपादाय क्व क्व असुरा एवं योऽटति असौ कुक्कुटः । अस्मिन्पक्षे क्वशब्दस्य संप्रसारणम् । अटतेश्चाकारस्य 'संप्रसारणाच्च' इति पूर्वरूपत्वम् । कुक्कुटस्त्वमस्यसुराणां । देवानां मधुजिह्वः । अतः । इषं वृष्टिं ऊर्जं अन्नं च । आवद आभिमुख्येन वद । त्वया च सहायभूतेन । वयं संघातं । संपूर्वस्य हन्तेः संघातेन संग्रामः समुदायो वाभिधेयः । वीप्सार्थं द्विर्वचनम्। संग्रामं जेष्म । शूर्पमादत्ते । वर्षवृद्धं वृष्ट्या वृद्धं त्वमसि । हविरुद्वपति । प्रति त्वा वर्षवृद्धं वेत्तु प्रतिवेत्तु प्रतिजानातु । त्वां वृष्ट्या वृद्धं हे हविः । समानजन्मत्वाद्धविःशूर्पयोर्भ्रातृत्वार्थं वचनम् । निष्पुनाति । परापूतं रक्षः पराक्षिप्तं रक्षः । परापूताः पराक्षिप्ताश्च अरातयः अदानशीलाः पुरुषाः। तुषान्निरस्यति । अपहतं । हन्तिर्गत्यर्थः । अपगतं रक्षः। विविनक्ति। वायुर्वः । तण्डुला उच्यन्ते । वायुः वः युष्मान् विविनक्तु पृथक्करोतु । व्रीहिभ्यः सकाशात् । पात्र्यामोप्याभिमन्त्रयते । देवो वः सविता । वः युष्मान् हे तण्डुलाः। हिरण्यपाणिः। 'तत्सवित्रे प्राशित्रं प्रजह्रुः। तस्य पाणी परिचिच्छेद । तस्मै हिरण्मयौ प्रतिदधुः तस्माद्धिरण्यपाणिरित्युच्यते' इति बह्वृचानां श्रुतिः । प्रतिगृह्णातु प्रतिग्रहं करोतु । अच्छिद्रेण अशिथिलेन हस्तेन ॥ १६॥ १ इत्याथर्वणश्रुतिरित्यन्यत्र पाठः.
म० 'आहन्त्यन्यो दृषदुपले कुक्कुटोऽसीति त्रिः शम्यया द्विर्दृषदं सकृदुपलम्' (का० २ । ४ । १५) इति । हे शम्यारूप यज्ञायुधविशेष, त्वं कुक्कुटोऽसि असुराणां । मधुजिह्वः चासि देवानाम् । असुराः क्व क्वेति तान्हन्तुमिच्छन्योऽटति सर्वत्र संचरति स कुक्कुटः । यद्वा कुकं कुत्सितशब्दं कुटति तनोतीति कुक्कुटः । यद्वा कुक्कुटाख्यपक्षिवद्ध्वनिविशेषमसुरभीत्यर्थं तनोतीति कुक्कुट इत्युपचर्यते । मधुजिह्वकनामा कश्चिद्देवानां भृत्यः। मधुर्मधुरभाषिणी जिह्वा यस्य तद्रूप हे यज्ञायुध, त्वमसुरान्पराभवन्यजमानस्य इषमूर्जं चावद । अन्नं रसं च यथा समागच्छति तथा शब्दं कुरु । तव शब्देनासुरेषु पराभूतेषु तदीयमन्नं रसं च यजमानः प्राप्नोति । ततः त्वया कृत्वा वयं सङ्घातं सङ्घातं जेष्म असुरैः सह क्रियमाणं तं तं संग्रामं जेष्म जयेम । कदाचिदपि पराजयोऽस्माकं मास्त्वित्यर्थः । सम्यक् हन्यन्ते असुरा यत्रेति सङ्घातो युद्धम् । मनो राज्ञ एको वृषभ आसीत्तस्मिन्नसुरघ्नी वाक् स्थिता तस्मिन् शब्दं कुर्वति तं श्रुत्वैवासुरा म्रियन्ते । ततः किलाताकुलीनामानावसुरयाजकौ मनुं गत्वा तेनैव ऋषभेणायाजयतामृषभे हते सा वाङ्मनोर्जायां प्रविष्टा । तौ पुनस्तयापि मनुमयाजयताम् । ततः सा वाग्यज्ञपात्राणि प्रविष्टेत्यसुरपराभवाय तद्वाक्प्रकटनार्थं शम्यया दृषदुपलहननमिति श्रुत्योक्तोऽभिप्रायः (१ । १।४।१४)। 'वर्षवृद्धमसीति शूर्पमादत्ते' (का० २ । ४ । १६ ) इति । हे शूर्प, त्वं वर्षवृद्धमसि वर्षेण वृष्ट्या तद्भूतजलेन वृद्धं वर्षवृद्धम् । वर्षवृद्धवेणुशलाकानिर्मितत्वात् शूर्पस्य वर्षवृद्धत्तम् । 'प्रति त्वेति हविरुद्वपति' ( का० २ । ४ । १७) इति । हे हविः, वर्षवृद्धं शूर्पं त्वा त्वां प्रतिवेत्तु स्वकीयत्वेन जानातु । व्रीहिशूर्पयोर्वर्षवृद्धत्वाद्भातृत्वम् । 'परापूतमिति निष्पुनाति' (का० २ । ४ । १८) इति । रक्षः परापूतं निराकृतम् । शूर्पेण तुषेषु परापूतेषु तद्गतं रक्षोऽपि तैः सह भूमौ पातितम् । अरातयः हविःप्रतिकूलाः आलस्यादिशत्रवश्च परापूता निराकृताः । 'अपहतमिति तुषान्निरस्यति' ( का० २। ४ । १९) इति । रक्षः अपहतं दूरेऽपनीय मारितम् । भूमौ पतितान्दूरे निःसारयेत् 'वायुर्व इति विविनक्ति' (का० २।४।२०) इति । हे तण्डुलाः, वायुः शूर्पचालनोत्थः वः युष्मान् विविनक्तु सूक्ष्मकणेभ्यः पृथक्करोतु । 'देवो व इति पात्र्यामोप्याभिमन्त्रयते' ( का० २ । ४ । २१) इति । हे तण्डुलाः, सविता देवः वः युष्मान् अच्छिद्रेण पाणिना अङ्गुलिविश्लेषहीनेन स्वहस्तेन प्रतिगृभ्णातु स्वीकरोतु । 'हृग्रहोर्भश्छन्दसि' (पा० ८ । २ । ३२) इति हस्य भः।पात्रीप्रक्षेपसमये भूमौ पतनं मा भूदिति सवितुर्ग्रहणं प्रार्थ्यते । किंभूतः सविता । हिरण्यपाणिः हिरण्ययुक्तावङ्गुलीयाद्याभरणयुक्तौ पाणी यस्य स हिरण्यपाणिः । यद्वा दैत्यैः प्राशित्रप्रहारेण छिन्नौ सवितुः पाणी देवैर्हिरण्मयौ कृताविति सवितुर्हिरण्यपाणित्वमिति बह्वृश्रुतौ कथा ॥ १६ ॥

सप्तदशी।
धृष्टि॑र॒स्यपा॑ऽग्ने अ॒ग्निमा॒मादं॑ जहि॒ निष्क्र॒व्याद॑ᳪ से॒धा दे॑व॒यजं॑ वह ।
ध्रु॒वम॑सि पृथि॒वीं दृ॑ᳪह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भातृ॑व्यस्य व॒धाय॑ ।। १७ ।।