पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्षामि ( का० २ । ३ । ३९) पात्राणि दैव्यायेति । कृष्णाजिनोलूखलादीनि पात्राणि प्रोक्षयेत् । हे यज्ञपात्राणि, यूयं शुन्धध्वम् शुद्धानि भवत । किमर्थम् । दैव्याय कर्मणे अग्न्यादिदेवतासंबन्धिने कर्मणे । तदेव कर्म विशिष्यते । देवयज्यायै देवसंबन्धिन्यै यागक्रियायै दर्शादिकायै । किंच । अशुद्धाः नीचजातयस्तक्षादयः वः युष्माकं संबन्धि यदङ्गं पराजघ्नुः पराहतं कृतवन्तः । छेदनतक्षणादिकाले स्वकीयहस्तस्पर्शरूपमशुचित्वं चक्रुः । तदिदं वः युष्माकमङ्गं शुन्धामि प्रोक्षणेन शुद्धं करोमि ॥ १३ ॥

चतुर्दशी।
शर्मा॒स्यव॑धूत॒ᳪ रक्षोऽव॑धूता॒ अरा॑त॒यो ऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु ।अद्रि॑रसि वानस्प॒त्यो ग्रावा॑ऽसि पृ॒थुबु॑ध्न॒: प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॑त्तु ।। १४ ।।
उ० कृष्णाजिनमादत्ते । शर्मासि । चर्मासीति प्राप्ते चकारस्य शकारः। 'शर्मदेवता' इति श्रुतिः। अवधुनोति । अवधूतं रक्षः । 'धूञ् कम्पने' अवकम्पितं रक्षः । अवकम्पिताश्च अरातयः अदानशीलाः पुरुषाः । नत्वेतद्यज्ञसाधनमित्यपह्नवः । कृष्णाजिनमास्तृणाति । अदित्यास्त्वगसि अदित्याः पृथिव्यास्त्वं त्वग्भवसि । अतः प्रतिवेत्तु । 'विद ज्ञाने' । प्रतिजानातु त्वाम् । अदितिः पृथिवी । 'प्रति हि स्वः संजानीते' इति श्रुतिः । तस्मिन्निदधात्युलूखलम् । अद्रिरसि । आदृणाति विदारयति आदृणात्यनेन वा व्रीह्यादिकमित्यद्रिः । त्वं भवसि । वानस्पत्यश्च । वनस्पतेर्विकारो वानस्पत्यः । अनेन वा निदधाति । ग्रावासि । हन्ति व्रीह्यादिकमनेनेति ग्रावा त्वमसि । पृथुबुध्नः बृहन्मूलः । अतः प्रति त्वादित्यास्त्वग्वेत्तु प्रतिवेत्तु त्वामुलूखल अदित्यास्त्वक् कृष्णाजिनम् । कथम् । अहं पृथिव्यास्त्वक् अयं चोलूखलः पृथिव्यास्त्वगिति। त्वगेवात्मनात्मानं हिनस्ति ॥ १४ ॥
म० 'शर्मासीति कृष्णाजिनादानम्' ( का० २।४।१) इति । हे कृष्णाजिन, त्वमुलूखलस्य धारणार्थं शर्म सुखहेतुरसि। अजिनस्य चर्मेति मानुषं नाम शर्मेति दैवं नाम । 'अपेत्य दात्रेभ्योऽवधूनोत्यवधूतमिति' (का० २।४ । २) इति । रक्षः कृष्णाजिने गूढम् अवधूतम् । कृष्णाजिनकम्पनेन भूमौ पातितम् एवमरातयोऽपि पातिताः । 'प्रत्यग्ग्रीवमास्तृणात्यदित्यास्त्वगिति' ( का० २ । ४ । ३) इति । हे कृष्णाजिन, त्वम् आदित्याः भूमिदेवतायास्त्वग्रूपम् असि । ततोऽदितिर्भूमिस्त्वा त्वां प्रतिवेत्तु प्रतिगृह्य मदीयेयं त्वगिति वेत्तु जानातु । पुरा यज्ञो देवेषु रुष्टः कृष्णमृगो भूत्वागमत्तदा देवा ज्ञात्वा तदीयां त्वचमुत्कृत्य जगृहुस्तस्माच्चर्मास्तरणमित्यभिप्रायः श्रुतावाम्नातः (१।१।४।१)। 'सव्याशून्ये निदधात्युलूखलमद्रिरसि ग्रावासीति वा प्रति त्वेत्युभयोः' (का० २।४ ।. ४-५) इति । विकल्पितयोर्मन्त्रयोः प्रति त्वेति शेषो योजनीयः । हे उलूखल, त्वं यद्यपि वानस्पत्यः दारुमयस्तथापि दृढत्वात् अद्रिरसि पाषाणोऽसि । किंभूतः । पृथुबुध्नः स्थूलमूलः । - मुसलघातोपद्रवेण चाञ्चल्यराहित्याय मूलस्थूलत्वम् । हे उलूखल, तथाविधस्त्वं ग्रावासि दार्ढ्येन पाषाणसदृशोऽसि । अदित्यास्त्वक् अधस्तादास्तीर्णा कृष्णाजिनरूपा भूमेर्या त्वगस्ति सा त्वां प्रति वेत्तु स्वकीयत्वेन जानातु ॥ १४ ॥

पञ्चदशी।
अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नं दे॒ववी॑तये त्वा गृह्णामि बृ॒हद्ग्रा॑वाऽसि वानस्प॒त्यः स इ॒दं दे॒वेभ्यो॑ ह॒विः श॑मीष्व सु॒शमि॑ शमीष्व । हवि॑ष्कृ॒देहि॒ हवि॑ष्कृ॒देहि॑।। १५ ।।
उ० हविरावपति । अग्नेस्तनूरसि । आहवनीयोऽत्राग्निरुच्यते । तत्र हि हविः प्रक्षिप्तमग्निर्भवति । अत एवमुच्यते | अग्नेस्तनुः शरीरमसीति । अथवा अग्निशब्देन यस्यै देवतायै हविर्गृह्यते सा लक्ष्यते । तस्या अपि हविस्तनूर्भवतीति । वाचो विसर्जनम् । वाक् यस्मिन्हविषि प्रक्षिप्ते विसृज्यतेऽध्वर्युणा तदिदं वाचो विसर्जनम् । देववीतये देवतर्पणाय । त्वा गृह्णामि । आवपामीत्यर्थः । मुसलमादत्ते । बृहद्ग्रावासि । दीर्घत्वापेक्षं बृहत्त्वम् । हन्त्यपेक्षं ग्रावत्वम् । दीर्घग्रावा त्वमसि । वानस्पत्यः वनस्पतेर्विकारश्च वानस्पत्यः। स इदमित्यवदधाति। स त्वमिदं । देवेभ्योऽर्थाय । हविः शमीष्व । शम्यतिः संस्कारार्थः। सुशमि क्रियाविशेषणमेतत् । साधु यथा संस्कृतं भवति तथा शमीष्वेति । हविष्कृदेहीति त्रिराह्वयति । हविः करोतीति हविष्कृत् । एहि आगच्छ । अधिदैवं वागुच्यते । अधियज्ञं पत्नी ॥ १५॥
म० 'हविरावपत्यग्नेस्तनूरसीति' ( का० २।४।६) इति । हे हविः, त्वं अग्नेः आहवनीयस्य तनूः शरीरमसि । यतस्तत्र क्षिप्तं हविरग्नीभवति अतो हविः अग्नेस्तनूः । किंभूतं हविः । वाचो विसर्जनम् । अपां प्रणयनकाले नियमिताया यजमानवाचो हविरावपनकाले विसर्गो भवति । तस्मादिदं हविर्वाचो विसर्जनम् । अतः देववीतये देवानां तर्पणाय । त्वा त्वां । गृह्णामि आवपामीत्यर्थः । 'बृहद्ग्रावेति मुसलमादत्ते' - (का० २। ४ । ११) इति । हे मुसल, त्वं यद्यपि वानस्पत्यः । दारुमयस्तथापि ग्रावासि दार्ढ्येन पाषाणसदृशोऽसि । तथा दीर्घत्वेन बृहन्महानसि । ‘स इदमित्यवदधाति' (का० २।४। १२) इति । हे मुसल, त्वं देवेभ्यः अग्न्यादिदेवोपकारार्थम् । | इदं हविर्व्रीहिरूपं शमीष्व शमय । भक्षणविरोधितुषापनयनेन शान्तं कुरु । तस्यैव पदस्य व्याख्यानम् । सुशमि शमीष्व सुष्ठु शान्तं यथा भवति तथा शमीष्व शमय । 'शमु उपशमे' व्यत्ययेन शपो लुक् । 'तुरुस्तुशम्यमः सार्वधातुके' (पा० ७।३।९५)