पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पवित्रेण । 'यो वा अयं पवत एषोऽच्छिद्रं पवित्रं' इति श्रुतिः। वायोः सर्वगतत्वादच्छिद्रत्वम् । सूर्यस्य च रश्मिभिः उदिङ्गयति । देवीराप इति। आप उच्यन्ते । हे देव्यः आपः, अग्रेगुवः अग्रेपुवः । अग्रेशब्दः पूर्वपदं द्वयोः । पूर्वस्य गमिरुत्तरपदम् । उत्तरस्य तु पिबतिः । उभयोरपि डूप्रत्ययः। अग्रे याः समुद्र गच्छन्तीत्यग्रेगुवः । अग्रे प्रथमं सोमस्य राज्ञो भक्षयन्तीत्यग्रेपुवः । अग्रे उत्कृष्टे स्वर्गे । इमं दर्शपूर्णमासाख्यम् । अद्य अस्मिन् द्यवि । यज्ञं नयत प्रापयत । अग्रे यज्ञपतिं नयत। सुधातुं शोभनदक्षिणं यज्ञपतिं । देवयुवं देवान्कामयत इति देवयुः । 'इदंयुरिदंकामयमानः' इति यास्कः । एतदुक्तं भवति । यज्ञं यजमानं पुष्कलदक्षिणं देवकामं च अग्रे नयत ॥ १२ ॥
म० कुशौ समावप्रशीर्णाग्रावनन्तर्गर्भौ कुशैश्छिनत्ति 'पवित्रे स्थ इति त्रीन्वा' (का०२।३।३२) इति । वैष्णवे इति प्राप्ते 'व्यत्ययो बहुलम्' (पा० ३।१।८५) इति स्त्रीत्वम् । हे पवित्रे शोधके कुशद्वयरूपे, युवां वैष्णव्यौ यज्ञसंबन्धिनी स्थः भवथः । 'यज्ञो वै विष्णुर्यज्ञिये स्थः' (१।१।३।१) इति श्रुतेः । हविर्ग्रहण्यामपः कृत्वा ताभ्यामुत्पुनाति 'सवितुर्व इति' ( का० २। ३ । ३३) इति । सवितुः प्रेरकस्य प्रसवे प्रेरणे सति हे आपः, वः युष्मान् उत्पुनामि उत्कर्षेण शोधयामि । केन । अच्छिद्रेण छिद्रहीनेन पवित्रेण शोधकेन वायुरूपेण । 'यो वा अयं पवत एषोऽच्छिद्रं पवित्रम्' (१।१।३ । ६ ) इति श्रुतेः । सूर्यस्य रश्मिभिः शुद्धिहेतुभिरुत्पुनामीति संबन्धः । वायोः सूर्यरश्मीनां च पादप्रक्षालनाद्युपहतभूमिशुद्धिहेतुत्वं प्रसिद्धम् । 'सव्ये कृत्वा दक्षिणेनोदिङ्गयति देवीरापः' (का० २ । ३ । ३५) इति । उत्पूताभिरद्भिः पूरितामग्निहोत्रहवणीं सव्यहस्ते स्थापयित्वा मन्त्रमुच्चारयन् दक्षिणहस्तेनोर्ध्वं चालयेदिति सूत्रार्थः । मन्त्रार्थस्तु-हे देवीः आपः द्योतनात्मिका आपः, यूयम् अद्य अस्मिन्दिने इमम् इदानीं प्रवर्तमानं यज्ञम् अग्रे नयत पुरतः प्रवर्तयत निर्विघ्नं समापयत । किंभूता आपः । अग्रेगुवः अग्रे गच्छन्ति इत्यग्रेगुवः पुरतो निम्नदेशं प्रति गमनशीलाः। तथा अग्रेपुवः अग्रे पुनन्तीत्यग्रेपुवः । अग्रे यस्मिन्पूर्वभागे गच्छन्ति तस्मिन्नपहतिनिवारणेन शोधनशीलाः । यद्वा । अग्रे पिबन्तीत्यग्रेपुवः । प्रथमं सोमरसस्य पानकर्त्र्यः । गमेः क्विप्प्रत्यये 'गमः क्वौ' (पा० ६।४।४०)इत्यनुनासिकलोपे पुनातेः पिबतेर्वा क्वौ 'ऊङ् च गमादीनाम्' (क० ६।४।४० वा० २) इत्यूकारः । किंच यज्ञपतिं यजमानमग्रे नयतेत्यनुवर्तते । फलभोगाय प्रेरयत । कथंभूतम् । सुधातुम् सुष्ठु दक्षिणादिना दधाति यज्ञं पुष्णातीति सुधातुस्तं यज्ञस्य पतिं पालयितारम् । एको यज्ञपतिशब्दो योगेन व्याख्येय एको रूढ्या । तथा देवयुवम् । 'यु मिश्रणे' । देवान् यौति यज्ञादिना मिश्रीकरोति देवयुस्तम् । क्विप् । 'अनित्यमागमशासनम्' इति तुगभावः । यद्वा देवान्कामयते इति देवयुस्तम् । 'इदंयुरिदंकामयमानः' (निरु० ६ । ३१) इति यास्कोक्तेः । 'सुप आत्मनः क्यच्' (पा० ३।१।८) इति क्यच् 'क्यचि च' (७ । ४ । ३३) इतीत्वे प्राप्ते 'न छन्दस्यपुत्रस्य' (पा० ७।४।३५) इतीत्वाभावः । 'अश्वाघस्यात्' (पा० ७।४।३७) इति अश्वाघयोरेवात्वविधानात् 'अकृत्सार्वधातुकयोः' (पा० ७। ४ । २५) इति प्राप्तो दीर्घो न भवति । ततः ‘क्याच्छन्दसि' (पा० ३ । २ । १७० ) इति उप्रत्ययः । देवयुशब्दस्यामि परे 'अमि पूर्वः' (पा० ६।१।१०७) इति प्राप्तस्य पूर्वरूपस्य 'वा छन्दसि' (पा० ६ । १ । १०६) इति विकल्पेन 'तन्वादीनां वा इयङ्चङौ' (पा० क० ६।४।६८ वा० १) इत्युवङ् ॥ १२ ॥

त्रयोदशी।
यु॒ष्मा इन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्ये॒ प्रोक्षि॑ता स्थ ।
अ॒ग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑म्य॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ।
दैव्या॑य॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॒ यद्वोऽशु॑द्धाः पराज॒घ्नुरि॒दं व॒स्तच्छु॑न्धामि ।। १३ ।।
उ० युष्मा इन्द्रोऽवृणीत वृत्रतूर्ये । युष्मान् इन्द्रः साहाय्यार्थमवृणीत । किं पुरस्कृत्य । वृत्रतूर्ये । तूर्यतिर्वधकर्मा । वृत्रवधाय । यूयं च इन्द्रमवृणीध्वं वृतवत्यः । वृत्रतूर्ये तस्मिन्नेवावसरे अतिमनुष्यतया । प्रोक्षिताः स्थेति तासां प्रोक्षणम् । 'उक्ष सेचने'। प्रोक्षिता यूयं तावद्भवथ । न ह्यसंस्कृता अन्यसंस्कारक्षमा इति निह्नवः । हविः प्रोक्षति । अग्नये त्वा त्वां जुष्टं अभिरुचितं प्रोक्षामि । अग्निशब्दस्य 'रुच्यर्थानां प्रीयमाणः' इति चतुर्थी । अग्नीषोमाभ्यामित्युक्तम् । पात्राणि प्रोक्षति । दैव्याय कर्मणे देवसंबन्धिकर्मणे । तादर्थ्ये चतुर्थी । शुन्धध्वम् । शुध्यध्वमिति कर्मणि यकि प्राप्ते विकरणव्यत्ययः । देवयज्यायै देवयागाय । एताभिरद्भिः शुन्धध्वमिति संबन्धः। किंच यद्वोऽशुद्धाः पराजघ्नुः। यद्वः युष्माकं अशुद्धाः रक्षःप्रभृतयः पराजघ्नुः पराहतवन्तः । इदमिति प्रत्यक्षनिर्देशः । वः युष्माकं तत् शुन्धामि शोधयामि अपनयामि ॥ १३॥
म० हे आपः, इन्द्रः देवः वृत्रतूर्ये । तूर्यतिर्वधकर्मा । वृत्रवधे निमित्तभूते सति युष्माः युष्मान् अवृणीत । आकारश्छान्दसः । सहकारित्वेन प्रार्थितवान् । यूयम् अपि वृत्रतूर्ये निमित्ते तम् इन्द्रं अवृणीध्वं वृतवत्यः सहकारित्वेन । 'प्रोक्षिताः स्थेति तासां प्रोक्षणम्' (का० २।३।३६) इति । हे आपः, यूयं प्रोक्षिताः भवथ । असंस्कृता अन्यसंस्कारक्षमा न भवन्तीति 'हविश्चाग्नये त्वाग्नीषोमाभ्यां त्वेति यथादैवतमन्यत्' (का० २।३ । ३७ । ३८) इति । अन्यदपि हविस्तद्देवतोच्चारेण प्रोक्षणीयम् । अग्नये त्वां जुष्टं प्रोक्षामि अग्नीषोमाभ्यां त्वा जुष्टं प्रो.
१ तक्षप्रभृतयः.