पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भागधुक् भागपूरकः । अग्नये जुष्टम् । 'जुषी प्रीतिसेवनयोः'। अत्र जुषिः प्रीतौ वर्तते । तथाहि 'रुच्यर्थानां प्रीयमाण:' इत्यभिशब्दस्य चतुर्थी संजाता । अग्नये जुष्टं रुचितमभिप्रेतं गृह्णामि । एतदुक्तं भवति । योऽग्निः सर्वेश्वरः सर्वात्मा तस्व तथाभूतमेतदन्नं भवितुमर्हति । नच तथाभूतं मनुष्येण तद्ग्रहीतुं शक्यते । अतोऽहं सावित्रं प्रसवमास्थायाश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वां हविष्याग्नयेऽभिरुचितं गृह्णामि । तथा अग्नीषोमाभ्यां त्वां हविष्याभिरुचितं गृह्णामि ॥१०॥
म० 'देवस्य त्वेति गृह्णात्याग्नेयं चतुरो मुष्टीनेवमग्नीषोमीयं यथादैवतमन्यत्' (का० २ । ३ । २०-२२) इति । हे हविः, सवितुर्देवस्य प्रसवे प्रेरणे सति तेन प्रेरितोऽहम् अग्नये जुष्टं प्रियं त्वा गृह्णामि । अग्नीषोमाभ्यां व्यासक्तदेवताभ्यां च जुष्टं त्वा गृह्णामि । काभ्याम् । अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां च । अंसमणिबन्धयोर्मध्यभागो दीर्घदण्डाकारो बाहुः । पञ्चाङ्गुलियुक्ताग्रभागो हस्तः । अश्विनौ हि देवानामध्वर्यू । पूषा हि देवानां भागधुक् । अतो ग्रहणसाधनयोः स्वबाह्वोरश्विबाहुभावना कार्या । हस्तयोस्तु पूषहस्तभावनेति भावः । सर्वात्मकस्याग्नेर्हविस्तादृशं मनुष्येण कथं ग्रहीतुं शक्यमिति सवित्रानुज्ञातोऽश्विबाहुभ्यां पूष्णो हस्ताभ्यां गृह्णामीत्यर्थः । किंच। 'सत्यं देवा अनृतं मनुष्याः ' (१।१।२।१७) इति श्रुतेः देवानां सत्यरूपत्वात्तदनुस्मृतिपूर्वकं हविर्ग्रहणं फलपर्यवसायित्वात्सत्यं भवति । देवतास्मृत्यभावे तु मनुष्याणामनृतरूपत्वात्तत्कृतमनुष्ठानं निष्फलत्वादनृतं भवतीति देवतास्मरणमित्यभिप्रायः । हविर्गृह्णन्तमध्वर्युं देवताः सेवन्ते मम नाम ग्रहीष्यतीति । अनामग्रहं हविषि गृहीते तासां मिथः कलहो भवेदिदं मदर्थमेव गृहीतमिति तत्कलहनिवृत्यर्थमग्नये जुष्टमग्नीषोमाभ्यां जुष्टमिति देवतानिर्देशपूर्वकं हविर्ग्रहणमित्यभिप्रायः १०

एकादशी।
भू॒ताय॑ त्वा॒ नारा॑तये स्व॒रभि॒विख्ये॑षं॒ दृᳪह॑न्तां॒ दुर्या॑: पृथि॒व्यामु॒र्वन्तरि॑क्ष॒मन्वे॑मि पृथि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्या उ॒पस्थेऽग्ने॑ ह॒व्यᳪ र॑क्ष ।। ११ ।।
उ० भूताय त्वेति शेषाभिमर्शनम् । भूताय भवनाय ।। त्वा त्वां परिशेषयामीति शेषः। नारातये न अदानाय । उप्तं रोपितं सत् व्रीह्यादि पुनरेव बहु भविष्यतीति परिशेषयामि न कृपणतायै । स्वरिति प्राङीक्षते । स्वरभिविख्येषं पश्येयम् । विपूर्वः ख्यातिदर्शनार्थः । स्वशब्देन यज्ञोऽभिधीयते । स हि शोभनं प्राङीरितो भवति । यज्ञार्हदेवाः सूर्यः यज्ञोपि स्वःशब्देनोच्यते । 'यज्ञो वै स्वरहर्देवाः सूर्यः' इति श्रुतेः।
१ सर्वेशः.
दृᳪहन्तामित्यवरोहति । 'दृहि वृहि वृद्धौ' इति यद्यपि वृद्ध्यर्थो धातुस्तथापि मन्त्रेषु दृढीकरणार्थः प्रयुज्यते। दृह्यन्तामिति प्राप्ते दृᳪहन्तामिति विकरणव्यत्ययः । दिवादित्वाच्छ्यन्प्रत्ययः । दुर्याः दुरः द्वाराणि अर्हन्तीति दुर्या गृहा उच्यन्ते । दुर्याः हढा भवन्तु । पृथिव्यां भूम्यां गच्छति । उर्वन्तरिक्षमिति व्याख्यातम् । पृथिव्यास्त्वेति सादयति । हविरुच्यते । पृथिव्याः त्वा त्वां नाभौ मध्ये अवसादयामि । अदित्या देवमातुः । उपस्थे उत्सङ्गे । अग्ने हव्यं रक्ष । श्रपणं गार्हपत्यमग्निमाह ॥ ११ ॥
म० 'भूताय त्वेति शेषाभिमर्शनम्' (का० २ । ३ । २३) इति । हे व्रीहिशेष शकटावस्थित, भूताय भवनाय यागान्तराणां ब्राह्मणभोजनस्य च पुनरपि सद्भावाय त्वा त्वां संपरिशेषयामीति शेषः । न अरातये अदानाय शेषयामि । 'स्वरिति प्राङीक्षते' (का० २ । ३ । २४ ) इति । अहं स्वः अभिविख्येषं यज्ञं पश्येयं । 'यज्ञो वै स्वरहर्देवाः सूर्यः' (१।१।२ । २३) इति श्रुतेः । यज्ञदिवसदेवसूर्याः स्वःशब्देनोच्यन्ते । स्वर्गहेतुत्वादपि स्वःशब्देन यज्ञः । 'ख्या प्रकथने' । अभिविख्येषम् अभितो विशेषेण ख्यापयेयं पश्येयमित्यर्थः । अनेन मन्त्रेण प्राङ्मुखो यज्ञभूमिं वीक्षते ॥ दृᳪहन्तामित्यवरोहति' (का० २।३।२५) इति । पृथिव्यां वर्तमानाः । दुर्याः ग्रहाः । दृᳪहन्तां दृढा भवन्तु । अनेन मन्त्रेण शकटादवरोहयेत् । दुरो द्वाराण्यर्हन्तीति दुर्या गृहाः । हविर्गृहीत्वोत्तरतोऽध्वर्योर्भारेण गृहक्षोभः संभाव्यते सोऽनेन मन्त्रेण वार्यते । 'गच्छत्युर्वन्तरिक्षम्' (का० २। ३ । २६) इति । व्याख्यातम् । 'श्रपणस्य पश्चात्सादयति पृथिव्यास्त्वा' (का० २ । ३ । २५) इति । हे हविः, पृथिव्या नाभौ मध्ये त्वां सादयामि स्थापयामि । तस्यैव व्याख्यानं अदित्या उपस्थ इति । उपस्थेऽङ्के । यथा सुप्तं बालं पुत्रं माता स्वाङ्के स्थापयति एवमिदं हविः अदित्या उपस्थे भूम्या अङ्के सादयामि । हे अग्ने, तव समीपे स्थापितमिदं हव्यं त्वं रक्ष । सुप्तं पुत्रमिव बाधकेभ्यः पालय ॥ ११ ॥

द्वादशी।
प॒वित्रे॑ स्थो वैष्ण॒व्यौ॒ सवि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
देवी॑रापो अग्रेगुवो अग्रेपु॒वोऽग्र॑ इ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिᳪ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म् ।। १२ ।।
उ० पवित्रे छिनत्ति । पवित्रे स्थ इति । पवित्रे पवनक्रियाशीले युवां भवथः । वैष्णव्ये इति प्राप्ते वैष्णव्याविति लिङ्गव्यत्ययः। 'यज्ञो वै विष्णुर्यज्ञियेस्थ' इति श्रुतिः। अप उत्पुनाति। सवितुर्वः । आप उच्यन्ते । सवितुः प्रसवे वर्तमानः अहं वः युष्मान् उत्पुनामि उर्ध्वं नीत्वा शोधयामि। केन । अच्छिद्रेण
१रक्ष त्रायस्व .