पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पटैश्च परिवृततमं । पप्रितमं । 'प्रा पूरणे' । पूर्ववत् किन्प्रत्ययः । हविषा पूर्णतमम् । जुष्टतमं । 'जुषी प्रीतिसेवनयोः । अत्र जुषिः प्रीतौ वर्तते । अभिप्रेततमं सेविततमं वा । देवहूतमं देवानाह्वयतीति देवहूः देवानामाह्वातृतमम् ॥ ८॥
म०. 'श्रपणस्य पश्चादनस्तिष्ठति समङ्गि धूरसीति धुरभिमर्शनम्' (२।२।१३।१३) इति । अस्यायमर्थः । श्रपणस्य पुरोडाशपाकहेतोर्गार्हपत्यस्य पश्चादनः शकटं व्रीहियुक्तं तिष्ठति । तच्च समङ्गि सम्यगङ्गानि यस्य तत्सर्वाङ्गोपेतं तस्य धुरं बलीवर्दवहनयोग्यं युगप्रदेशं धूरसीति मन्त्रेण स्पृशेदिति ॥ अथ मन्त्रार्थः-व्रीहिरूपहविर्धारकशकटसंबन्धिनो युगस्य बलीवर्दवहनप्रदेशे कश्चिद्धिंसकोऽग्निः शास्त्रदृष्टोऽस्ति तं प्रार्थयते । 'अग्निर्वा एष धुर्यस्तमेतदत्येष्यन्भवति' (१।१२।१०) इति श्रुतेः। हे वह्ने, त्वं धूरसि हिंसकोऽसि । 'तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्थाः ' धुर्वतेः क्विप् । यतो धूरसि अतः धूर्वन्तं हिंसन्तं पाप्मानं धूर्व विनाशय । किंच यः राक्षसादिर्यागविघ्नेन अस्मान् धूर्वति हिंसितुमुद्युक्तस्तमपि धूर्व विनाशय । यं च वयं धूर्वामः तमपि धूर्व । यमालस्यादिरूपं वैरिणं वयमनुष्ठातारो धूर्वामो हिंसितुमुद्यतास्तमपि धूर्व विनाशय । शकटस्थिताग्न्यतिक्रमणनिमित्तमपराधमपह्नोतुमग्न्याधारभूता शकटस्य धूरनेन मन्त्रेण स्पृश्यते 'देवानामित्युपस्तम्भनस्य पश्चादीषाम्' (का० २।३।१४) इति । शकटस्य दीर्घं काष्ठमीषा तद्ग्रस्य भूमिस्पर्शो मा भूदिति । तदाधारत्वेन स्थापितं काष्ठमुपस्तम्भनं तस्य पश्चाद्भागे तामीषां स्पृशेत् । देवानामसि । हे शकट, त्वं देवानां संबन्धि असि भवसि । किंभूतं वह्नितमम् 'वह प्रापणे'। वहतीति वह्नि अतिशयेन वह्नि वह्नितमम् । व्रीहिरूपस्य हविषोऽतिशयेन प्रापकम् । तथा सस्नितमं 'ष्णा शौचे' अतिशयेन शुद्धम् । 'आदृगमहन-' (पा० ३।२।१७१) इत्यादिना किप्रत्ययः । यद्वा 'स्रै वेष्टने' । दार्ढ्याय चर्मादिभिरतिशयेन वेष्टितम् । पप्रितमम् । 'प्रा पूरणे' व्रीहिभिरतिशयेन पूरितम् । जुष्टतमं 'जुषी प्रीतिसेवनयोः' । देवानामतिशयेन प्रियम् ।' देवहूतमम् । 'ह्वेञ् स्पर्धायां शब्दे च' देवानामतिशयेनाह्वातृ । व्रीहिपूर्णं शकटं दृष्ट्वा देवा आहूता इव शीघ्रमागच्छन्ति ॥८॥

नवमी।
अह्रु॑तमसि हवि॒र्धानं॒ दृᳪह॑स्व॒ मा ह्वा॒र्मा ते य॒ज्ञप॑तिर्ह्वार्षीत् ।
विष्णु॑स्त्वा क्रमता¬मु॒रु वाता॒याप॑हत॒ᳪ रक्षो॒ यच्छ॑न्तां॒ पञ्च॑ ।। ९ ।।
उ०. अह्रुतमसि 'ह्रुह्वरेश्छन्दसि' इति ह्वरतेलुठर्नार्थस्य निष्ठायां ह्वुरादेशः। अलुठितं पूर्णमसि। हविर्धानं हविषां निधानम् । अतः आत्मानं दृᳪहस्व दृढीकुरु । ममारुरुक्षते अवहितं भव । मा ह्वार्मा ते यज्ञपतिर्वा अर्षीदिति उक्तार्थः । आरोहति । विष्णुर्यज्ञस्त्वां शकट आक्रमतां आरोहतु । अहं स्वसमर्थ इत्यभिप्रायः । प्रेक्षते हविष्यात् । उरुवाताय उरु महत् वाताय प्राणाय त्वां करोमीति प्रेक्षते । अपद्रव्यं निरस्यति । अपहतं 'हन हिंसागत्योः' । अत्र गतौ वर्तते । अपगतं अस्माद्धविषो रक्षः । आलभते । यच्छन्तां पञ्च 'यम उपरमे' निबध्नन्तु त्वां हविष्यं पञ्च अङ्गुलयः ॥९॥
म० अह्रुतमसि । 'ह्वृ कौटिल्ये' । क्तप्रत्ययः । 'ह्रुह्वरेश्छन्दसि' (पा० ७।२।३१ ) इति निष्ठायां ह्रुआदेशः । अह्रुतम् अकुटिलम् असि । आरोहणेऽपि भङ्गभीतिर्नास्तीत्यर्थः । हविर्धानम् । 'डुधाञ् धारणपोषणयोः' । हविषो व्रीहिरूपस्य धारकं पोषकं भवसि । अतः दृंहस्व ।मा ह्वार्मा ते यज्ञपतिर्ह्वार्षीदिति पूर्ववद्व्याख्येयम् । 'विष्णुस्त्वेत्यारोहणम्' (का० १।३। १५) इति । हे शकट, विष्णुः व्यापको यज्ञः त्वा त्वां । क्रमतां पादेनाक्रम्यारोहतु नाहं समर्थ इति भावः । 'प्रेक्षत उरु वातायेति हविष्यात्' (का० १।३।१६) इति । हे शकट, वाताय उरु भवेति शेषः । तदन्तर्वर्तिव्रीहिषु वायुसंचाराय विस्तीर्णं भव । शकटस्य व्रीहीणां तृणाद्याच्छादितत्वात्संकोचे वायुप्रवेशाभावादाच्छादनमपनीय यथा वायुः प्रविशति तथा संकोचं परित्यजेत्यर्थः । वायुरूपप्राणवेशाद्धविः सप्राणं क्रियते मन्त्रेण । किंच वायुप्रवेशरहितं सर्वं वस्तु वरुणदेवत्यं भवति । वरुणश्च बन्धकारित्वाद्यज्ञनिरोधकस्तन्निवृत्त्यर्थमयं मन्त्रः । यद्वै किंच वातो नाभिभवति तत्सर्वं वरुणदेवत्यमुरुवातायेत्याह वारुणमेवैतत्करोति इति तित्तिरिवचनात् 'अपहतमिति निरस्यत्यन्यदविद्यमानेऽभिमृशेत्' (का० २।३।१७-१८) इति । व्रीहिभ्योऽन्यत्तृणादिकं यदि तत्र भवेत्तदनेन निरस्येत् । तृणाद्यभावे व्रीहीनभिमृशेदिति सूत्रार्थः । अथ मन्त्रार्थः -- रक्षः यज्ञविघातकम् । अपहतं निराकृतं तृणादिकमेव रक्ष उच्यते । 'यच्छन्तामित्यालभते' (का० २।३।१९) इति । पञ्च पञ्चसंख्याका अङ्गुलयो व्रीहिरूपं हविः यच्छन्तां नियच्छन्तु । अनेन पञ्चाङ्गुलियुक्तेन मुष्टिना व्रीहीन्गृह्णीयादित्यर्थ उक्तो भवति ॥ ९॥

दशमी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
अ॒ग्नये॒ जुष्टं॑ गृह्णाम्य॒ग्नीषोमा॑भ्यां॒ जुष्टं॑ गृह्णामि ।। १० ।।
उ० गृह्णाति । देवस्य त्वा। त्वाशब्देन हविरुच्यते। देवस्य सवितुः प्रसवे अभ्यनुज्ञायां वर्तमानः । देवेन सवित्रा प्रसूतः । अश्विनोर्बाहुभ्यां न स्वाभ्यां । अश्विनौ हि देवानामध्वर्यू । पूष्णो हस्ताभ्यां न स्वाभ्याम् । पूषा हि देवानां ।
१ विष्णुस्त्वाक्रमतां आरोहतु.