पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गजादयो बोधमात्रेण शीघ्रं निवर्तमाना अनृता उच्यन्ते। सत्यं देवजन्म बहुकालस्थायित्वात् । यथा जागरणगजादयः। श्रुतिरपि 'इदमहमनृतात्सत्यमुपैमि' (१।१।१।४) इति । तन्मनुष्येभ्यो देवानुपावर्तत इति । यद्वा लोकप्रसिद्धे एव सत्यानृते ग्राह्ये । नानृतं वदेदिति कर्मण्यनृतनिषेधात् । अनृतवदनादुद्गत्याहमिदं सत्यवदनमुपैमि । अत इदं सत्यवदनं कर्माङ्गत्वात्कर्मकाले पालनीयम् ॥ ५॥

षष्ठी।
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्ति॒ कस्मै॑ त्वा युनक्ति॒ तस्मै॑ त्वा युनक्ति । कर्म॑णे वां॒ वेषा॑य वाम् ।। ६ ।।
उ० अपः प्रणयति । कस्त्वा युनक्ति । यज्ञस्यारम्भकर्मणि आत्मनः कर्तृत्वमपनीयाध्वर्युः प्रजापतेर्यज्ञस्य कर्तृत्वमाह । अत्र चत्वारि सर्वनामानि । तत्र प्रथमतृतीये प्रश्नभूते । द्वितीयचतुर्थे प्रतिप्रश्नभूते। कस्त्वा युनक्ति। हे यज्ञ, प्रजापतिः न मनुष्यः स तु यज्ञः प्रजापतिः त्वां युनक्ति । कस्मै प्रयोजनाय युनक्तीत्यध्वर्युराशङ्क्योत्तरं ददाति । तस्मै प्रयोजनाय युनक्ति। यज्ञादुत्पत्तिः स्थितिश्च जगतः । अतोऽनेन सर्वनाम्ना तदेव निर्दिश्यते ॥ शूर्पं चाग्निहोत्रहवणीं चादत्ते । कर्मणे यज्ञकर्मणे वां युवां अहं आददे इति वाक्यशेषः । वेषाय । 'विष्लृ व्याप्तौ' । यज्ञव्याप्त्यर्थं वां युवां अहमादद इति च ॥ ६ ॥
१ प्रजापते.
म० एवं व्रतमुपेत्य ब्रह्माणं वृत्वापां प्रणयनं कुर्यात् । 'ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेत्याहानुज्ञात उत्तरेणाहवनीयं संप्रति निदधाति कस्त्वा युनक्ति' (का० २।३।२-३) इति । अत्र मन्त्रं प्रयुञ्जानोऽध्वर्युर्यज्ञारम्भकर्मण्यात्मनः कर्तृत्वमपनीय प्रजापतेर्यज्ञकर्तृत्वं प्रश्नोत्तररूपाभ्यां मन्त्रवाक्याभ्यां प्रतिपादयति । प्रणीतानामपां धारक हे पात्र, त्वां कः पुरुषो युनक्ति आहवनीयस्योत्तरभागे स्थापयतीति प्रश्नः । तच्छब्दः प्रसिद्धार्थवाची। सर्वेषु वेदेषु जगन्निर्वाहकत्वेन प्रसिद्धो यः प्रजापतिरस्ति सः एव परमेश्वरः हे पात्र, त्वां युनक्ति इत्युत्तरम् । पुनरपि कस्मै प्रयोजनाय त्वां युनक्ति इति प्रश्नः । तस्मै प्रजापतये तत्प्रीत्यर्थं त्वा युनक्ति इत्युत्तरम् । सर्वकर्माणि परमेश्वरप्रीत्यर्थमनुष्ठेयानीति भगवद्गीतास्वर्जुनं प्रति भगवतोक्तम् 'सर्वकर्माण्यपि सदा' (१८५६) ब्रह्मार्पणं' (४।२४) इति च परिस्तीर्य द्वन्द्वशः पात्राण्यासाद्य शूर्पं चाग्निहोत्रहवणीं चादत्ते। 'कर्मणे वामिति शूर्पाग्निहोत्रहवण्यादाय' (का०२।३।१०) इति। कर्मणे हे अग्निहोत्रहवणि, हे शूर्प, वां युवां कर्मार्थमहमादद इति शेषः । वेषाय च । 'विष्लृ व्याप्तौ' । घञ् । वेषो व्याप्तिः । सूचितकर्मसु व्याप्त्यर्थं च वां युवामहमाददे । शकटेऽवस्थितानां व्रीहीणां हविरर्थं पृथक्करणं प्रोक्षणार्थोदकधारणमित्यादयोऽग्निहोत्रहवणीव्यापाराः । व्रीहिनिर्वापधारणमुलूखले व्रीहिप्रक्षेपः पुनरुद्धरणं चेत्यादयः शूर्पव्यापाराः ॥ ६ ॥

सप्तमी।
प्रत्यु॑ष्ट॒ᳪ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ᳪ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः । उ॒र्वन्तरि॑क्ष॒मन्वे॑मि ।। ७ ।।
उ० प्रतपति । प्रत्युष्टं 'उष दाहे' । प्रतिज्ञाय दग्धं रक्षः प्रतिज्ञाय च दग्धा अरातयः । न विद्यते रातिर्दानं येषां ते अरातयः । अनेन वा। निष्टप्तं । 'तप संतापे । निरित्येतस्य स्थाने नितरां तप्तं रक्षः नतु यज्ञसाधनमित्यभिप्रायः । उक्तमन्यत् । गच्छति उर्वन्तरिक्षं । यद्यपि रक्षोभिराकुलमन्तरिक्षं तथाप्यनेन यजुषा उरु विस्तीर्णं कृत्वा अन्वेमि प्रतिगच्छामि ॥ ७ ॥
म० 'प्रतपनं प्रत्युष्टं निष्टप्तमिति वा' (का० २।३।११) इति । रक्षः राक्षसजातिः। प्रत्युष्टं प्रत्येकं दग्धम् । 'उष दाहे' । अनेनाग्निहोत्रहवणीशूर्पयोः प्रतपनेनात्र स्थिता राक्षसा दग्धा इत्यर्थः । अरातयोऽपि प्रत्युष्टाः प्रत्येकं दग्धाः । 'रा दाने । हविषो दक्षिणाया वा दानं रातिः । रातेः प्रतिबन्धका अरातयस्तेऽपि दग्धाः । अन्यथा न यज्ञसाधनमित्यर्थः । शूर्पादौ निगूढं रक्षो निष्टप्तं निःशेषेण तप्तं संतप्तम् । 'तप संतापे'।
अरातयश्च निष्टप्ताः । अनयोर्मन्त्रयोर्विकल्पः ॥ 'गच्छत्युर्वन्तरिक्षम्' (का० २।३।१२) इति । उरु विस्तीर्णम् । अन्तरिक्षम् अवकाशम् । अन्वेमि अनुसृत्य गच्छामि । गच्छतः पुरुषस्य पार्श्वयोरेव स्थितं रक्षोऽनेन मन्त्रेण निराक्रियत इत्याशयः ॥७॥

अष्टमी।
धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒ऽस्मान्धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः ।
दे॒वाना॑मसि॒ वह्नि॑तम॒ᳪ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम् ।। ८ ।।
उ० धुरमभिमृशति। धूरसि । अनसोऽवयवं धुरं स्तौति । तत्र श्रुतिः 'अग्निर्वा एष धुर्यस्तमेतदत्येष्यन्ब्रवीतीति । हविर्ग्रहीष्यन् धुर्यमग्निं ब्रवीति । धूरसि । धूर्वतेर्वधकर्मणः । धूर्वणक्रियानिमित्तं हि ते नाम । अतो ब्रवीमि । धूर्व धूर्वन्तं । हिन्धि हिंसन्तं । धूर्व तं हिन्धि तं । योस्मान्धूर्वति योस्मान् हिनस्ति तं धूर्व यं वयं धूर्वामः। तं पुरुषं हिंधि यं वयं हिंस्मः। अनस उपस्तम्भनमभिमृशति । देवानामसि । अन उच्यते । देवानामग्न्यादीनां त्वं भवसि।वह्नितमं वह्निर्वोढा। वह प्रापणे इत्यस्य रूपम् । वोढृतमं । सर्वे तमपः अतिशयार्थाः । सस्नितमं । ष्णै वेष्टने-' आदृगमहन-' इत्यादिना किन्प्रत्ययः। चर्मणा स्नायुना च परिवृततमम् । अथवा पार्श्वतः काशैर्गोणि
१ निरेतस्य स्थाने. २ मभिस्पृशति. ३ काष्ठैर्गोंणिपटैः.