पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० 'वसोः पवित्रमिति पवित्रमस्यां करोत्युदग्वा' इति । अस्यामुखायां स्थापनीयस्य पवित्रस्य प्रागग्रत्वं सामान्यतः प्राप्तमिति सिद्धवत्कृत्वोदगग्रत्वं विकल्प्यते । हे शाखापवित्र, वसोः इन्द्रदेवतानिवासहेतोः पयसः शोधकं पवित्रं त्वम् असि । पवित्रेण व्यवधाने सति क्षीरेण सह स्थाल्यां पततां तृणपर्णादीनां प्रतिबध्यमानत्वात्पवित्रस्य क्षीरशोधकत्वम् । किंभूतं पवित्रम् । शतधारं शतसंख्या धारा यस्मिन् । तथा सहस्रधारं सूक्ष्मैः पवित्रच्छिद्रैः स्थाल्यां पतन्तीनां क्षीरधाराणां शतसहस्रसंख्याकानां सद्भावाच्छोधकत्वमाहर्तुम् । वसोः पवित्रमिति द्विरुक्तिः । अभ्यासे भूयांसमर्थं मन्यन्ते ( निरु. १०। ४२ ) इति । 'देवस्यत्वेत्यासिच्यमाने जपति' ( का० ४ । २ । २३ ) इति । पयो देवता । दोहनादूर्ध्वं स्थाल्यां सिच्यमान हे क्षीर, सविता प्रेरको देवः पूर्वोक्तरीत्या । शतधारेण वसोः पवित्रेण । त्वा त्वाम् । पुनातु शोधयतु । सुप्वेति पवित्रविशेषणम् । सुष्ठु पुनातीति सुपूः तेन सुप्वा । नुडागमाभाव आर्षः ॥ कामधुक्ष इति प्रश्नः ( ४ । २ । २४ ) इति एकस्यां गवि दुग्धायां दोग्धारं प्रत्यध्वर्युः पृच्छेत् । हे दोग्धः, विद्यमानानां गवां मध्ये त्वं कां गाम् अधुक्षः दुग्धवानसि ॥ ३ ॥

चतुर्थी।
सा वि॒श्वायु॒: सा वि॒श्वक॑र्मा॒ सा वि॒श्वधा॑याः ।
इन्द्र॑स्य त्वा भा॒गᳪ सोमे॒नात॑नच्मि॒ विष्णो॑ ह॒व्यᳪ र॑क्ष ।। ४ ।।
उ० अमूमित्युक्ते दोग्ध्रा सा विश्वायुरित्यध्वर्युराह । सा गौर्विश्वस्य जगतः आयुषो दात्री। द्वितीयामाह । सा गौर्विश्वस्य जगतः कर्मा कर्त्री। तृतीयामाह। सा गौर्विश्वस्य जगतः धायाः धयतेर्णिजन्तस्यासुनि रूपम्। पाययित्री। यज्ञादेव सर्वाः प्रजा उत्पद्यन्ते आयुर्भोजनसहिताः स गवामुपचर्यते । आतनक्ति। इन्द्रस्य त्वा भागं सोमेन दध्ना आतनच्मि । तञ्चतिः कठिनीकरणार्थः । दधिभावमापादयामीत्यर्थः ॥ अपिदधाति विष्णो हव्यं रक्ष । 'यज्ञो वै विष्णुः' इति श्रुतिः । हविर्गोपाय ॥४॥
१ कर्मकर्त्री. २ धायाः जगतः. ३ स्थात्रासुनि. ४ जगतः धाययित्री.
म० प्रोक्ते ‘सा विश्वायुरित्याह' (का० ४ । २ । २५) इति पूर्वोक्तप्रश्नस्योत्तरे अमूं गामिति दोग्ध्रा प्रोक्ते सति सा विश्वायुरिति मन्त्रेण दोग्धारं प्रत्यध्वयुर्ब्रूयात् । या गौस्त्वया दुग्धा मया च पृष्टा सा विश्वायुःशब्देनाभिधेया । विश्वमायुर्यस्याः सा विश्वायुः । यजमानस्य संपूर्णं आयुः प्रयच्छतीत्यर्थः । 'एवमितरे उत्तराभ्याम्' (का० ४ । २ । २६) इति । यथा प्रथमा गौः पृष्टा एवमितरे द्वितीयतृतीये गावौ तद्दोहनादूर्ध्वं कामधुक्ष इति मन्त्रेण प्रष्टव्ये । दोग्धा तूत्तरेऽमूमिति प्रोक्ते सा विश्वकर्मा सा विश्वधाया इति मन्त्राभ्यां क्रमेण तयोराशिषं ब्रूयात् । या द्वितीया गौस्त्वया पृष्टा सा विश्वकर्मा, या तृतीया गौस्त्वया पृष्टा सा विश्वधायाः । 'डुधाञ् धारणपोषणयोः' । विश्वान्सर्वान्देवान्दधाति क्षीरदध्यादिहविर्दानेन पुष्णातीति विश्वधायाः। असुन्प्रत्ययो णिच्च । णित्त्वात् 'आतो युक् चिण्कृतोः' (पा० ७। ३ । ३३) इति युक् । यद्वा । 'धेट् पाने' । विश्वानिन्द्रादिदेवान् क्षीरादिहव्यं धापयति पाययतीति विश्वधायाः । 'उद्वास्यातनक्ति प्राग्घुतशेषेणेन्द्रस्य त्वा' (का. ४ । २ । ३२) इति । क्वथितं क्षीरमग्नेरुद्वास्य मन्दोष्णे तत्र प्रातःकालीनहोमावशिष्टेन दध्ना दधिनिष्पत्तये आतञ्चनं कुर्यात् । हे क्षीर, इन्द्रस्य भागं त्वां सोमेन सोमवल्लीरसेन आतनच्मि दध्यर्थं कठिनीकरोमि । तञ्चतिः कठिनीकरणार्थः । यद्यप्यत्रातञ्चनहेतुर्दधिशेषस्तथापि भावनया तस्यैव सोमत्वं संपाद्यते । यथा कश्चित्पुमान्बन्धुत्वेन भावितो बन्धुर्भवति प्रातिकूल्येन भावितः शत्रुश्च । तदुक्तं वसिष्ठेन 'बन्धुत्वे भावितो बन्धुः परत्वे भावितः परः । विषामृतदशैवेह स्थितिर्भावनिबन्धिनी॥' इति । भोज्यं वा विषत्वेन भावितं वान्तिं करोति । अमृतत्वेन भावितं जीर्णं सद्बलहेतुर्भवति । तथात्र दधिशेषस्य भावनया सोमत्वम् ॥ 'सोदकेनापि दधात्यमृण्मयेन विष्णो हव्यमिति' (का० ४ । २।३४) इति । हे विष्णो, इदं हव्यं क्षीरं रक्ष । सर्वत्र सृष्टौ पालने संहारे च ब्रह्मविष्णुमहेश्वरा अभिमानिन्यो देवताः । अतो विष्णुं संबोध्य हविषो रक्षा प्रार्थ्यते ॥ ४ ॥

पञ्चमी ।
अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम् । इ॒दम॒हमनृ॑तात्स॒त्यमुपै॑मि ।। ५ ।।
उ० व्रतमुपैति । अग्ने व्रतपते। हे भगवन् अग्ने, व्रतस्य पतेः। व्रतं सत्यादिकं चरिष्यामि । तद्व्रतं तव प्रसादात् शकेयं शक्नुयाम् । शक्तं च सत् तत् मे मम राध्यतां सिध्यताम् । यज्ञफलसमृद्धिराशास्यते । अनेन वाग्निरुच्यते । इदमहं त्वत्साक्षिकमनृतादसत्यात्सत्यमुपगच्छामि ॥ ५ ॥
म० 'अपरेणाहवनीयं प्राङ्निष्ठन्नग्निमीक्षमाणोऽप उपस्पृश्य व्रतमुपेत्यग्ने व्रतपत इदमहमिति वा' (२।१।११) इति । हे व्रतपते, व्रतस्यानुष्ठेयस्य कर्मणः पते पालक हे अग्ने, त्वदनुज्ञया व्रतं चरिष्यामि कर्मानुष्ठास्यामि । तच्छकेयं तत्कर्मानुष्ठातुं शक्तो भूयासं त्वत्प्रसादात् । तन्मे राध्यतां मदीयं तत्कर्म निर्विघ्नं सत् फलपर्यन्तं सिध्यतु । शकेराशीर्लिड्यामुट् । लिड्याशिष्यङ्' (पा० ३।१।८६) 'अतो येयः' (पा० ७॥२॥ ८०)। गुणः । शकेयम् । 'अग्निर्वै देवानां व्रतपतिः' (१।१। १२) इति श्रुतिः । इदमहम् । अहं यजमानोऽस्मादनृतान्मनुष्यजन्मन उद्गत्य सत्यं देवताशरीरम् उपैमि प्राप्नोमि । सत्यमनुष्ठीयमानकर्मरूपेण प्रत्यक्षमिति मन्वान इदमिति विशिनष्टि । अनृतं मनुष्यजन्म शीघ्रविनाशित्वात् । यथा स्वप्न