पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रार्थनायां लिङ् । 'तस्थस्थमिपां' (पा० ३।४।१०१) यासुट् सलोपोऽलोपश्च । “तिङ्ङतिङः' (पा० ८1१।२८)। बह्वीः । बहुशब्दात् 'वोतो गुणवचनात्' (पा० ४।१।४४) इति ङीष् । 'वा छन्दसि' (पा० ६।१।१०६) इति जसः पूर्वसवर्णत्वम् । प्रत्ययस्वरेणान्तोदात्तः । यजमानस्य 'पूज्यजोः शानन्' (पा० ३। २। १२८) इति यजतेः शानन् । नित्त्वादाद्युदात्तः । 'पशून्' पश्यन्ति गन्धेनेति पशवः । 'अर्जिदृशिकमि' ( उ० १।२७) इत्यादिना दृशेः कुप्रत्ययः पशादेशश्च । प्रत्ययस्वरेणान्तोदात्तः ॥ पाहि पा रक्षणे' लोट् । 'तिङ्तिङः' (पा० ८।१।२८) एवमग्रे पदस्वरप्रक्रियोहनीया विस्तरभयान्नोच्यते ॥१॥
 
द्वितीया ।
वसो॑: प॒वित्र॑मसि॒ द्यौ॑रसि पृथि॒व्य॒सि मात॒रिश्व॑नो घ॒र्मो॒ऽसि वि॒श्वधा॑ असि |
पर॒मेण॒ धाम्ना॒ दृᳪह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत् ।। २ ।।
उ०. तस्यां पवित्रं करोति । वसोः पवित्रमसि वसोर्वासयितुर्यज्ञस्य यज्ञसाधनभूते पयसि । अत्र यज्ञशब्दः पयसः पवित्रं परिपावनं भवसीत्यर्थः । उखामादत्ते द्यौरसि पृथिव्यसि 'उपस्तौत्येवैनामेतत्' इति श्रुतिः।सा यद्दिवोवयवभूतेनोदकेन क्रियते तेन द्यौरित्युच्यते । यत्पृथिव्यवयवभूतया मृदा क्रियते तेन पृथिव्युच्यते । मातरिश्वन इत्यधिश्रयति । उखोच्यते । मातरिश्वनो घर्मोऽसि । मातरिश्वा वायुः। मातर्यन्तरिक्षे श्वसितीति वायोः संबन्धी त्वं घर्मोऽसि । त्रयो घर्मा अग्निवायुसूर्यदैवत्याः । तत्र मध्यमो घर्मः साधवेत्वेति 'अयं वै साधुर्योयं पवते' इति वायुदेवत्यः स त्वमसीत्यर्थः । यतश्च त्वं वायुः अतः । विश्वधा असि सर्वस्य धारयिता भवसि । किंच परमेण धाम्ना दृᳪहस्व धामानि त्रीणि भवन्ति स्थानानि नामानि जन्मानीति च । उत्कृष्टेन नाम्नाभिहिता सती घर्मोसीत्यादिना आत्मानं दृᳪहस्व दृढीकुरुष्वेत्यर्थः । मा ह्वाः । 'ह्वृ कौटिल्ये' । मा ह्वार्षीःमा कुटिली भूः । दृढीभूतायामपि लुटितायां पयःस्कन्दनं भवति । तन्माभूदित्येवमुच्यते । माच ते तव यज्ञपतिरधिष्ठानात्प्रच्यवतु ॥२॥
म० 'वसोः पवित्रमिति पवित्रमस्यां बध्नाति कुशौ त्रिवृद्वा' (का. ४।२।१५।१६ ) इति । वासयति वृष्ट्यादिद्वारा स्थापयति विश्वमिति वसुः यज्ञः । 'यज्ञो वै वसुर्यज्ञस्य पवित्रमसि' (१। ७।१।९) इति श्रुतेः । यज्ञशब्देन तदीयहविर्द्रव्यरूपं क्षीरं लक्ष्यते । हे दर्भमय पवित्र, वसोः इन्द्रदेवताया निवासहेतोः पयसः शोधकं पवित्रं त्वं असि । अनेन मन्त्रेण पवित्रं कृत्वा पर्णशाखायां बध्नीयात् । द्वौ कुशौ कुशत्रयं वा पवित्रमुच्यते ॥ 'द्यौरसीति स्थाल्यादानम्' (का० ४ । २ । १९) इति । यस्यां स्थाल्यां क्षीरं प्रक्षेप्तव्यं तद्ग्रहणार्थोऽयं मन्त्रः । हे स्थालि, मृज्जलाभ्यां निष्पना त्वं द्यौरसि जलहेतुवृष्टिप्रदद्युलोकरूपासि । द्युसंबन्धात्तद्रूपत्वमस्यामुपचर्यते । तथा पृथिव्यसि पृथिव्याः सकाशादुद्धृतया मृदा निष्पन्नत्वात्पृथिवीरूपत्वम् ॥ 'मातरिश्वन इत्यधिश्रयति' ( का० ४ । २ । २० ) इति । गार्हपत्यादुदीचोऽङ्गारान्निरुह्य तेषूखामधिश्रयति । हे उखे, त्वं मातरिश्वनः वायोः घर्मः दीपकोऽन्तरिक्षलोकोऽसि । मातर्यन्तरिक्षे श्वसिति निश्वासवच्चेष्टां करोतीति मातरिश्वा वायुः । घर्मः । 'घृ क्षरणदीप्त्योः' । घर्मः दीपकः संचारस्थानप्रदानेन वायोर्दीपकोऽभिव्यञ्जकोऽन्तरिक्षलोकः । हे स्थालि, तवोदरेऽप्यन्तरिक्षरूपस्यावकाशस्य वायुसंचारस्य सद्भावात्त्वमपि वायोर्घर्मरूपासि ॥ द्यौरसि पृथिव्यसीति पूर्वमन्त्रे लोकद्वयरूपत्वमुखाया उक्तम् । | अत्र मातरिश्वनो घर्मोऽसीत्यन्तरिक्षलोकरूपत्वमुच्यते । तस्मादेषां त्रयाणां लोकानां धारणात् त्वं विश्वधा असि विश्वं दधातीति विश्वधाः विश्वधारणसमर्थासि लोकत्रयरूपत्वात् । किंच परमेण धाम्ना उत्तमेन बहुक्षीरधारणसामर्थ्यरूपेण तेजसा हे उखे, त्वं दृंहस्व दृढा भव । त्वनिष्ठस्य क्षीरस्य गलनं वारयितुम् । अन्यथा भग्नायास्तव छिद्रेण क्षीरं गलेत् । 'दृहि वृहि वृद्धौ' इति धातुर्यद्यपि वृद्ध्यर्थस्तथापि दार्ढ्ये सति भङ्गाभावेन चिरमवस्थानाद्दार्ढ्यं नाम कालवृद्धिरेव भवति । किंच । हे उखे, मा ह्वाः कुटिला मा भव ।'ह्वृ कौटिल्ये' । यद्युखा कुटिला भवेत्तदानीमवाङ्मुखायां सत्यां तत्स्थं क्षीरं गलेत् । अतः क्षीरधारणाय दार्ढ्यमकौटिल्यं चार्थ्यते । किंच ते यज्ञपतिः त्वत्संबन्धी यजमानः मा ह्वार्षीत् कुटिलो मा भूत् । त्वनिष्ठक्षीरस्कन्दनेनानुष्ठानविघ्न एव यजमानस्य कौटिल्यम् । तच्च त्वदीयेन दार्ढ्येन कौटिल्याभावेन च न भविष्यतीति प्रार्थ्यते ॥२॥
१ भवतीत्यर्थः. २ श्रुतेः. ३ इत्युच्यते.

तृतीया।
वसो॑: प॒वित्र॑मसि श॒तधा॑रं॒ वसो॑: प॒वित्र॑मसि स॒हस्र॑धारम् ।
दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसो॑: प॒वित्रे॑ण श॒तधा॑रेण सु॒प्वा काम॑धुक्षः ।। ३ ।।
उ० तस्यां पवित्रं निदधाति । वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारं । शतसहस्रशब्दौ संख्योत्तरवचनौ। अभ्यासे भूयांसमर्थं मन्यन्ते । अनन्तधारमित्यर्थः । आसिच्यमाने जपति । देवस्त्वा सविता । पय उच्यते । देवस्त्वा सविता पुनातु दोषात्पृथक्करोतु निर्दोषं करोतु । वसोरग्निष्टोमयज्ञस्य संबन्धिना आविकेन अनेकधारेण अच्छिद्रेण पवित्रेण । सुप्वा शोभनं पुनातीति सुपूः तेन सुप्वा । साधुपवनेन पवित्रेण । अथाह कामधुक्ष इति प्रश्नोयं । गवां मध्ये त्वं कां गां अधुक्षः । 'दुह प्रपूरणे' दुग्धवानसि ॥३॥
१ तूभयं समर्थ.