पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रत्ययत्वादाद्युदात्तत्वे प्राप्ते 'अनुदात्तौ सुप्पितौ' (पा० ३ । १। ४) इति तदपवादेनानुदात्तत्वे प्राप्तेऽपि 'सावेकाचस्तृतीयादिर्विभक्तिः' (पा० ६ । १ । १६८) इत्युदात्तत्वम् । तस्मिन् सति ‘अनुदात्तं पदमेकवर्जम्' (पा० ६।१।१५८) इतीकारोऽनुदात्तः । यद्यप्येकशब्देन द्वयोरुदात्तयोरन्यतरो यः कोऽपि वक्तुं शक्यते तथापि 'सति शिष्टस्वरो बलीयान्' (पा० ६।१।१५८) इति न्यायेन विभक्तिगत उदात्त एव प्रबलः ॥ तथा सत्यनुदात्तादिकमुदात्तान्तमिदं पदं संपन्नम् । त्वा । युषेर्भजनार्थस्य 'युष्यसिभ्यां मदिक्' (उ० १ । १४४ ) इति मदिक्प्रत्ययान्तस्य युष्मच्छब्दस्य द्वितीयायां त्वेति रूपम् । तस्य प्रातिपदिकस्वरेण यद्यपि उदात्तः प्राप्तस्तथापि 'अनुदात्तं सर्वमपादादौ' (पा० ८।१।१८) इत्यस्य सूत्रस्य अनुवृत्तौ सत्यां 'त्वामौ द्वितीयायाः' (पा० ८।१।२३) इति त्वादेशविधानादयं शब्दोऽनुदात्तः ॥ ऊर्जे । 'ऊर्ज बलप्राणनयोः' अस्मात्क्विप् । ऊर्जति बलवन्तं प्राणवन्तं वा करोतीत्यूर्क् अन्नम् । 'ऊर्गित्यन्ननामोर्जयति सतः' (निरु० ९।२७) इति यास्कः । स्वर इषेवत् । संहितायां तु 'उदात्तस्य स्वरितः' (पा० ८ । ४ । ६६) इति त्वाशब्दस्य स्वरितत्वम् । मन्त्रद्वयस्य संहितायां ऊर्ज इति ऊकारस्य 'स्वरितात्संहितायामनुदात्तानाम्' (पा० १।२।३९) इति प्रचयाभिधायामेकश्रुतौ प्राप्तायां तदपवादकत्वेन 'उदात्तस्वरितपरस्य सन्नतरः' (पा० १।२ । ४०) इत्यत्यन्तनीचोऽनुदात्तो भवति। अग्रिमस्य त्वाशब्दस्य स्वरितत्वम् । एवमुत्तरपदेषु संहितायां स्वरा ऊहनीयाः । वायवः वातेर्गत्यर्थात् 'कृवापाजिमिस्वदिसाध्यशूभ्य उण्' (उ० १।१) इत्युण् । सति शिष्टप्रत्ययस्वरेणान्तोदात्तो वायुशब्दः । जसः सुप्त्वादनुदात्तत्वम् । 'जसि च' (पा० ७।३। १०६) इति गुणेऽवादेशे च 'स्थानेऽन्तरतमः' (पा० १।१। ५०) इति परिभाषया उदात्त एव जाते वायव इति मध्योदात्तं पदम् । जसः स्वरितत्वं पूर्ववत् ॥ स्थ । अस्तेर्लिटि शपो लुकि 'श्नसोरल्लोपः' (पा० ६।४।१११) इति अकारलोपः। 'तिङ्ङतिङः' (पा० ८ । १ । २८) इति निघातः ॥ देवः । पचादित्वादच् । 'चितः' (पा० ६।१ । १६३ )इत्यन्तोदात्तः ॥ वः 'बहुवचनस्य वस्नसौ' (पा० ८।१।२१) इत्यनुदात्तो वसादेशः। सविता 'षू प्रेरणे' । 'ण्वुल्तृचौ' (पा० ३।१।१३३) इति तृच् । इडागमः चित्त्वादन्तोदात्तः ॥ प्र ‘उपसर्गाश्चाभिवर्जम्' (फि० ४ । १२) इत्याद्युदात्तः । अर्पयतु 'ऋ गतौ' 'हेतुमति च' (पा० ३ । १ । २६) । इति णिच् 'अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग् णौ' (पा०७।३।३६) इति पुक् । 'पुगन्त' (पा० ७। ३ । ८६ ) इति गुणः निघातश्च । श्रेष्ठतमाय । प्रशस्यशब्दात् 'अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५) इतीष्ठन् 'प्रशस्यस्य श्रः' (पा० ५।३।६०) इति प्रादेशः । 'ञ्नित्यादिर्नित्यम्' (पा० ६।१।१९७) इत्याद्युदात्तत्वम् । ततः पुनः तमप् । तस्य पित्त्वादनुदात्तत्वम् । स्वरितप्रचयाः पूर्ववत् ॥ कर्मणे । करोतेर्मनिन् मित्त्वादाद्युदात्तः । आ उदात्तः । प्यायध्वम् 'ओप्यायी वृद्धौ' । 'हेतुमति च' (पा० ३।१।२६) इति णिच् । तस्य 'छन्दस्युभयथा' (पा० ३।४।११७) इत्यार्धधातुकत्वात् ‘णेरनिटि' (पा० ६।४।५१) इति णिलोपः । निघातः ॥ अघ्न्याः 'अघ्न्या अहन्तव्या भवन्त्यघ्नीति वा' (निरु० ११ । ४३ ) इति यास्कः । अघे नञि वोपपदे हन्तेः 'अघ्न्यादयश्च' (उ० ४ । ११३ ) इति यगन्तो निपातः । संबुद्धित्वात् 'आमन्त्रितस्य च' (पा० ६ । १ । १९८) इत्याष्टमिको निघातः ॥ इन्द्राय 'इदि परमैश्वर्ये' 'इन्धी दीप्तौं' वा । इन्दति इध्यते वा तेजोभिरिति इन्द्रः । 'ऋज्रेन्द्र' (उ० २ । २९) इत्यादिना रन्प्रत्ययान्तो निपातः । नित्त्वादाद्युदात्तः । स्वरितप्रचयौ च ॥ | भागं 'भज भागसेनवयोः' । 'अकर्तरि च कारके संज्ञायाम्' | (पा० ३।३।१९) इति घञ् । ञित्त्वादाद्युदात्ते प्राप्ते 'कर्षात्वतो घञोऽन्त उदात्तः' (पा० ६।१।१५९) इत्यन्तोदात्तत्वम् ॥ तस्य 'अमि पूर्वः' (पा० ६।१।१०७) इत्यमा सहैकादेश 'एकादेश उदात्तेनोदात्तः' (पा० ८।२।५) इत्युदात्त एव । प्रजावतीः 'उपसर्गे च संज्ञायाम्' (पा० ३ । २।९९) इति जनेर्डप्रत्ययः | ततष्टाप् । तेन सहैकादेशेऽप्युदात्तान्तः प्रजाशब्दः । तस्मात् 'तदस्यास्त्यस्मिन्निति मतुप्' (पा० ५।२।९४ )। 'मादुपधायाश्च मतोर्वोऽयवादिभ्यः' (पा० ८ । २।९) इति मस्य वः । 'उगितश्च' (पा० ४।१।६) इति डीप् । मतुप्ङीपोरनुदात्तत्वात्प्रजाशब्दस्वर एव । 'वा छन्दसि' (पा० ६।१।१०६) इति पूर्वसवर्णदीर्घत्वम् ॥ अनमीवाः 'अम रोगे' । 'अमेरीवः' इति ईवप्रत्ययः । यद्वा 'शेवयह्वजिह्वाग्रीवाप्वामीवाः' (उ० १ । १५३) इत्यमेर्वन्प्रत्ययान्तो निपातः । तस्य 'नञो बहुव्रीहौ' (पा० २।२। ६) 'समासस्य च' (पा० ६।१।२२३ । २-१६२ ) इत्यन्तोदात्ते प्राप्ते तदपवादेन 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' (पा० ६।२। १) इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते तदपवादेन 'नञ्सुभ्याम्' (पा० ६।२।१७२) इत्यन्तोदात्तत्वम् ॥ अयक्ष्माः तद्वत् स्वरः ॥ मा। निपातत्वादाद्युदात्तः ॥ स्तेनः ‘स्तेन चौर्ये' । स्तेनयति चोरयतीति स्तेनः । पचाद्यच् । चित्त्वादन्तोदात्तः ॥ ईशत 'ईश ऐश्वर्ये' । 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति लङ् । 'व्यत्ययो बहुलम्' (पा० ३।१।८५) इति बहुवचनम् । 'न माङ्योगे' ( पा० ६।४।७४ ) इत्यडभावः । निघातश्च ॥ अघशंसः 'अघ पापकरणे' । पचाद्यजन्तोऽघशब्दोऽन्तोदात्तः । अघं शंसति इच्छतीत्यघशंसः । 'शसि इच्छायाम्' अच् । 'तत्पुरुषे तुल्यार्थ-' (पा० ६।२।२) इत्यादिना पूर्वपदप्रकृतिस्वरत्वम् ॥ ध्रुवाः 'ध्रुव स्थैर्ये' । 'इगुपधज्ञाप्रीकिरः कः' (पा० ३।१।१३५) इति कः । प्रत्ययस्वरेणान्तोदात्तो ध्रुवशब्दः ॥ अस्मिन् 'इणो दमुक्' इति इतेर्दमुक् । अन्तोदात्त इदंशब्दः तस्मात् ङेः स्मिन् । तस्य 'ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः' (पा० ६।१।१७१) इत्युदात्तत्वम् ॥ गोपतौ 'गमेर्डोः' ( पा० २।६।६ ) इति गोशब्दः प्रत्ययस्वरेणोदात्तः । गवां पतिरिति तत्पुरुषे ‘पत्यावैश्वर्ये' (पा० ६।२।१८ ) इति पूर्वपदप्रकृतिस्वरत्वम् ॥ स्यात । अस्तेः