पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० परिधीन्परिदधाति । गन्धर्वस्त्वा परिधिरुच्यते । गन्धर्वो विश्वावसुस्त्वां परिदधातु सर्वतः स्थापयतु। विश्वस्य सर्वस्व । अरिष्ट्यै अविनाशाय । 'रिषि रुषि हिंसायाम्। रिषतिर्हिंसार्थः। सा तत्र प्रतिषिद्धा । किंच यजमानस्य परिधिरसि न केवलमाहवनीयस्य किं तर्हि यजमानस्यापि परिधिरसि । किंच अग्निरसि आहवनीयस्य भ्राता । अत एवमुच्यते । इडे स्तोत्राय । होत्रभिप्रायमेतत् । ईडितः । 'ईड स्तुतौ' । स्तुत इत्यर्थः । दक्षिणं परिदधाति । इन्द्रस्य बाहुरसि दक्षिणः । इन्द्रस्य दक्षिणेन बाहुना परिधिरुपमीयते । व्याख्यातः शेषः । उत्तरं परिदधाति । मित्रावरुणौ त्वोत्तरतः। मित्रावरुणौ वाय्वादित्यौ त्वाम् उत्तरतः सर्वतः परिधत्ताम् । ध्रुवेण अचलेन । धर्मणा धारकेण । विश्वस्यारिष्ट्या इति व्याख्यातम् ॥ ३ ॥
म० 'परिधीन्परिदधाति मध्यमदक्षिणोत्तरान् गन्धर्व इति प्रतिमन्त्रम्' ( का० २। ८ । १) इति । आदौ पश्चात् हे परिधे, विश्वावसुनामा गन्धर्वः त्वां परिदधातु आहवनीयस्य पश्चात्सर्वतः स्थापयतु । विश्वस्मिन्सर्वस्मिन्प्रदेशे वसतीति विश्वावसुः द्युलोकस्थं सोमं रक्षितुं तत्पार्श्वे सर्वत्र गन्धर्वोऽवसदिति श्रुत्यन्तरकथा । किमर्थं स्थापयतु । विश्वस्यारिष्ट्यै । "रिष हिंसायां' रेषणं रिष्टिः न रिष्टिः अरिष्टिस्तस्यै । आहवनीयस्थानरूपस्य विश्वस्य हिंसापरिहाराय । परिध्यभावेऽसुराः प्रविश्य हिंसन्ति । किंच त्वं यजमानस्य परिधिरसि । न केवलमग्नेः परिधिः यजमानमप्यसुरेभ्यो रक्षितुं पश्चिमदिशि स्थापितोऽसि । किच अग्निरिडः ईडितश्चासि । आवहनीयस्य प्रथमो भ्राता भुवपतिनामाग्निरूपस्त्वमसि । ईड्यते स्तूयते इतीड् स्तुतियोग्यः । अतएव ईडितः स्तुतो होत्रादिभिः । ईड स्तुतौ' । दक्षिणं परिधिं परिदधाति । इन्द्रस्य बाहुरसि । हे द्वितीय परिधे, त्वमिन्द्रस्य दक्षिणो बाहुरसि । रक्षणसमर्थत्वादिन्द्रबाहुत्वोपचारः । विश्वस्येत्यादि व्याख्यातम् । अत्राग्निशब्देन भुवनपतिनामा द्वितीयो भ्राता ॥ तृतीयमुत्तरं परिधिं परिदधाति । मित्रावरुणौ । हे तृतीयपरिधे, मित्रावरुणौ वाय्वादित्यौ ध्रुवेण स्थिरेण धर्मणा धारणेन उत्तरस्यां दिशि त्वां परिधत्तां परितः स्थापयताम् । विश्वस्येत्यादि पूर्ववत् । अत्राग्निर्भूतानां पतिस्तृतीयो भ्राता ॥३॥

चतुर्थी।
वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्त॒ᳪ समि॑धीमहि । अग्ने॑ बृ॒हन्त॑मध्व॒रे ।। ४ ।।
उ० आहवनीये इध्मकाष्ठमादधाति । वीतिहोत्रम् । आग्नेयी गायत्री । वीतिहोत्रम् । 'वी गतिप्रजननकान्त्यसनखादनेषु' । वीतिः अभिलाषः होतृकर्मणि यस्य स वीतिहोत्रः । अथवा विविधा ईतिर्गतिर्होतृप्रशास्त्रादिषु होत्रासु यस्य स वीतिहोत्रः हे भगवन्नग्ने, वीतिहोत्रं त्वाम् । कवे क्रान्तदर्शन । अतीतानागतविप्रकृष्टविषयं युगपद्दर्शनं यस्य सः क्रान्तदर्शनः । द्युमन्तम् दीप्तिमन्तम् । समिधीमहि । 'इन्धी दीप्तौ' । संदीपयामः । अनेन इध्मकाष्ठेन बृहन्तं महान्तम् । अध्वरे यज्ञे ॥४॥
म० 'प्रथमं परिधिᳪ समिधोपस्पृश्य वीतिहोत्रमित्यादधाति' ( का० २। ८ । २) इति । इयमृक् अग्निदेवत्या गायत्रीच्छन्दस्का । हे कवे क्रान्तदर्शिन् हे अग्ने, अध्वरे यागे निमित्ते त्वां वयं समिधीमहि अनेनेध्मकाष्ठेन दीपयामः । अतीतानागतदूरवर्तिपदार्थानां यस्य युगपज्ज्ञानं स कविः । | किंभूतं त्वाम् । वीतिहोत्रम् । 'इण् गतौ' इतिर्गतिः व्याप्तिः पुत्रपौत्रपशुधनादिभिः समृद्धिरित्यर्थः । वीतये समृद्ध्यै होत्रं होमो यस्य स वीतिहोत्रस्तं यत्र होमे कृते समृद्धिप्राप्तिः स्यादित्यर्थः । यद्वा वीतिरभिलाषो होत्रे होतृकर्मणि यस्य तम् । तथा द्युमन्तम् । द्यौः कान्तिरस्यास्तीति द्युमान् तं स्वत एव द्युत्युपेतम् तथा बृहन्तं महान्तम् ॥ ४ ॥

पञ्चमी।
स॒मिद॑सि सूर्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै । सवि॒तुर्बा॒हू स्थ॒ ऊर्ण॑म्म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॒ आ त्वा॒ वस॑वो रु॒द्रा आ॑दि॒त्याः स॑दन्तु ।। ५ ।।
उ० द्वितीयमादधाति । समिदसि । अङ्गप्रधानार्थस्याग्नेः समिन्धनमसि । समित्स्तूयते।आहवनीयमीक्षमाणो जपति । सूर्यस्त्वा पुरस्तात्पातु गोपायतु । गुप्त्यैवाभितः परिधयो भवन्ति । 'अथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति' इति श्रुतिः। | कस्याश्चिदभिशस्त्यै । यः कश्चिदभिशापस्तस्मादित्यर्थः । अभिशस्त्या इति चतुर्थी षष्ठ्यर्थे । बर्हिषस्तृणे तिरश्ची निदधाति । सवितुर्बाहू स्थः । अनेन प्रस्तरस्य धारणकर्मणा युवां सवितुर्बाहू भवथः तयोः प्रस्तरं स्तृणाति । उर्णम्रदसम् । उर्णामिव मृदुं त्वां स्तृणामि । स्वासस्थम्, देवेभ्यः साधु अस्मिन्नासीदन्ति तिष्ठन्ति इति स्वासस्थः प्रस्तरः । देवेभ्य इति षष्ठ्यर्थे चतुर्थी । देवानामिति यावत् । प्रस्तरमभिनिदधाति । आत्वा वसवः । स्कन्दिर्गतिशोषणयोः' । आसदन्तु त्वां सवनदेवता रुद्रा आदित्याः ॥५॥
म०. अनुपस्पृश्य द्वितीयं समिदसीति (का० २। ८।३) | इति ॥ हे इध्मकाष्ठ, त्वं समिदसि अग्नेः समिन्धनं दीपनमसि ॥ 'सूर्यस्येति जपत्याहवनीयमीक्षमाणः' ( का० २।८।४) | इति ॥ हे आहवनीय, सूर्यः पुरस्तात्पूर्वस्यां दिशि कस्याश्चिदभिशस्त्यै सर्वस्या अभिशस्तेर्हिंसायाः सकाशात्त्वा त्वां